|
॥ विष्णुपुराणम् ॥ षष्ठः अंशः ॥ षष्ठोऽध्यायः ॥
श्रीपराशर उवाच
स्वाध्यायसंयमाभ्यां स दृश्यते पुरुषोत्तमः । तत्प्राप्तिकारणं ब्रह्म तदेतदिति पठ्यते ॥ १ ॥ स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमावसेत् । स्वाध्याययोगसम्पत्त्या परमात्मा प्रकाशते ॥ २ ॥ तदीक्षणाय स्वाध्यायश्चक्षुर्योगस्तथा परम् । न मां स चक्षुषा द्रष्टुं ब्रह्मभूतःस शक्यते ॥ ३ ॥ मैत्रेय उवाच भगवंस्तमहं योगं ज्ञातुमिच्छामि तं वद । ज्ञाते यत्राखिलाधारं पश्येयं परमेश्वरम् ॥ ४ ॥ श्रीपराशर उवाच यथा केशिध्वजः प्राह खाण्डिक्याय महात्मने । नजकाय पुरा योग तमहं कथयामि ते ॥ ५ ॥ मैत्रेय उवाच खाण्डिक्यः कोऽभवद्ब्रह्मन्को वा केशिध्वजः कृती । कथं तयोश्च संवादो योगसम्बन्धवानभूत् ॥ ६ ॥ श्रीपराशर उवाच धर्मध्वजो वै जनकस्तस्य पुत्रोऽमितध्वजः । कृतध्वजश्च नाम्नासीत्सदाध्यात्मरतिर्नृपः ॥ ७ ॥ कृतध्वजस्य पुत्रोऽभूत् ख्यातः केशिध्वजो नृपः । पुत्रोमितध्वजस्यापि खाण्डिक्यजनकोऽभवत् ॥ ८ ॥ कर्ममार्गेण खाण्डिक्यः पृथिव्यामभवत्पतिः । केशिध्वजोऽप्यतीवासीदात्मविद्याविशारदः ॥ ९ ॥ तावुभावपि चैवास्तां विजिगीषू परस्परम् । केशिध्वजेन खाण्डिक्यःस्वराज्यादवरोपितः ॥ १० ॥ पुरोधसा मन्त्रिभिश्च समवेतोऽल्पसाधनः । राज्यान्निराकृतःसोऽथ दुर्गारण्यचरोऽभवत् ॥ ११ ॥ इयाह सोऽपि सुबहून्यज्ञाञ्ज्ञानव्यपाश्रयः । ब्रह्मविद्यामधिष्ठाय तर्त्तु मृत्युमविद्यया ॥ १२ ॥ एकदा वर्त्तमानस्य यागो योगविदां वर । धर्मधेनुं जघानोग्रः शार्दुलो विजने वने ॥ १३ ॥ ततो राजा हतां श्रुत्वा धनुं व्याघ्रेण चर्त्विजः । प्रायश्चितं स पप्रच्छ किमत्रेति विधीयताम् ॥ १४ ॥ तेऽप्यूचुर्न वयं विद्म कशेरुः पृच्छतामिति । कशेरुरपि तेनोक्तस्तथैव प्राह भार्गवम् ॥ १५ ॥ शुनकं पृच्छ राजैन्द्र नाहं वेद्मि स वेत्स्यति । स गत्वा तमपृच्छच्च सोऽप्याह शृणु यन्मुने ॥ १६ ॥ न केशरुर्न चैवाहं न चैकःसाम्प्रतं भुवि । वेत्त्येक एव त्वच्छत्रुः खाण्डिक्यो यो जितस्त्वया ॥ १७ ॥ स चाह तं व्रजाम्येष प्रष्टुमात्मरीपुं मुने । प्राप्त एव महायज्ञो यदि मां स हनिष्यति ॥ १८ ॥ प्रायश्चित्तमशेषेण स चेत्पृष्टो वदिष्यति । ततश्चाविकलो योगो मुनिश्रेष्ठ भविष्यति ॥ १९ ॥ श्रीपराशर उवाच इत्युक्त्वा रथमारुह्य कृष्णाजिनधरो नृपः । वनं जगाम यत्रास्ते स खाण्डिक्यो महामतिः ॥ २० ॥ तमापतन्तमालोक्य खाण्डिक्यो रिपुमात्मनः । प्रोवाच क्रोधताम्राक्षःसमारोपितकार्मुकः ॥ २१ ॥ खाण्डिक्य उवाच कृष्णाजिनं त्वं कवचमाबध्यास्मान्हनिष्यसि । कृष्णाजिनधरे वेत्सि न मयि प्रहरिष्यति ॥ २२ ॥ मृगाणां वद पृष्ठेषु मूढ कृष्णाजिनं न किम् । येषां मया त्वाय चोग्राः प्रहिताः शितसायकाः ॥ २३ ॥ स त्वामहं हनिष्यामि न मे जीवन्विमोक्ष्यसे । आतताय्यसि दुर्बुद्धे मम राज्यहरो रिपुः ॥ २४ ॥ केशिध्वज उवाच खाण्डिक्य संशयं प्रष्टुं भवन्तमहामागतः । न त्वां हन्तुं विचार्यैतत्कोपं बाणं विमुञ्च वा ॥ २५ ॥ श्रीपराशर उवाच ततःस मन्त्रिभिः सार्धमेकान्ते सपुरोहितः । मन्त्रयामास खाण्डिक्यःसर्वैरेव महामतिः ॥ २६ ॥ तमूचुर्मन्त्रिणो वध्यो रिपुरेष वशं गतः । हतेऽस्मिन् पृथिवी सर्वा तव वश्या भविष्यति ॥ २७ ॥ खाण्डिक्यश्चाह तान्सर्वानेवमेतन्न संशयः । हतेस्मिन्पृतिवी सर्वा मम वश्या भविष्यति ॥ २८ ॥ परलोकजयस्तस्य पृथिवी सकला मम । न हन्मि चेल्लोकजयो मम तस्य वसुन्धरा ॥ २९ ॥ नाहं मन्ये लोकजयादधिका स्याद्वसुन्धरा । परलोकजयोऽनन्तःस्वल्पकालो महीजयः ॥ ३० ॥ तस्मान्नैनं हनिष्यामि यत्पृच्छति वदामि तत् ॥ ३१ ॥ श्रीपराशर उवाच ततस्तमभ्युपेत्याह खाण्डिक्यजनको रिपुम् । प्रष्टव्यं यत्त्वया सर्वं तत्पृच्छस्व वदाम्यहम् ॥ ३२ ॥ श्रीपराशर उवाच ततः सर्वं यथावृत्तं घर्मधेनुवधं द्विज । कथयित्वा स पप्रच्छ प्रायश्तित्तं हि तद्गतम् ॥ ३३ ॥ स चाचष्ट यथान्यायं द्विज केशिध्वजाय तत् । प्रायश्चित्तमशेषेण यद्वै तत्र विधीयते ॥ ३४ ॥ विदितार्थःस तेनैव ह्यनुज्ञातो महात्मना । यागभूमिमुपागम्य चक्रे सर्वाः क्रियाः क्रमात् ॥ ३५ ॥ क्रमेण विधिवद्यागं नीत्वा सोऽवभृथाप्लुतः । कृतकृत्यस्ततो भूत्वा चिन्तयामास पार्थिवः ॥ ३६ ॥ पूजिताश्च द्विजाःसर्वे सदस्या मानिता मया । तथैवार्थिजनोऽप्यर्थैर्योऽर्जितोऽभिमतैर्मया ॥ ३७ ॥ यथार्हमस्य लोकस्य मया सर्वं विचेष्टितम् । अनिष्पन्नक्रियं चेतस्तथापि मम किं यथा ॥ ३८ ॥ इत्थं सञ्चिन्तयन्नैव सस्मार स महीपतिः । खाण्डिक्याय न दत्तेति मया वै गुरुदक्षिणा ॥ ३९ ॥ स जगाम तदा भूयो रथमारुह्य पार्थिवः । मैत्रेय दुर्गगहनं खाण्डिक्यो यत्र संस्थितः ॥ ४० ॥ खाण्डिक्योऽपि पुनर्दृष्ट्वा तमायान्तं धृतायुधम् । तस्थौ हन्तुं कृतमतिस्तमाह स पुनर्नृपः ॥ ४१ ॥ भो नाहं तेऽपराधाय प्राप्तः खाण्डिक्य मा क्रुधः । गुरोर्निक्रयदानाय मामवेहि त्वमागतम् ॥ ४२ ॥ निष्पादितो मया यागः सम्यक्त्वदुपदेशतः । सोऽहं ते दातुमिच्छामि वृणीष्व गुरुदक्षिणाम् ॥ ४३ ॥ श्रीपराशर उवाच भूयस्य मन्त्रिभिः सार्धं मन्त्रयामास पार्थिवः । गुरुनिष्क्रयकामोऽयं किं मया प्रार्थ्यतामिति ॥ ४४ ॥ तमूचुर्मन्त्रिणो राज्यमशेषं प्रार्थ्यतामयम् । शत्रिभिः प्रार्थ्यते राज्यमनायासितसैनिकैः ॥ ४५ ॥ प्रहस्य तानाह नृपःस खाण्डिक्यो महामतिः । स्वल्पकालं महीपाल्यं मादृशैः प्रार्थ्यते कथम् ॥ ४६ ॥ एवमेतद्भवन्तोऽत्र ह्यर्थसाधनमन्त्रिणः । परमार्थः कथं कोऽत्र यूयं नात्र विचक्षणाः ॥ ४७ ॥ श्रीपराशर उवाच इत्युक्त्वा समुपेत्यैनं स तु केशिध्वजं नृपः । उवाच किमवश्यं त्वं ददासि गुरुदक्षिणाम् ॥ ४८ ॥ बाढमित्येव तेनोक्तः खाण्डिक्यस्तमथाब्रवीत् । भवानद्यात्म विज्ञानपरमार्थविचक्षणः ॥ ४९ ॥ यदि चेद्दीयते मह्यं भवता गुरुनिष्क्रयः । तत्क्लेशप्रशमायालं यत्कर्म तदुदीरय ॥ ५० ॥ इति श्रीविष्णुमहापुराणे षष्ठेंऽशे षष्ठोऽध्यायः (६) |