|
॥ विष्णुपुराणम् ॥ षष्ठः अंशः ॥ पञ्चमोऽध्यायः ॥
श्रीपराशर उवाच
आध्यात्मिकादि मैत्रेय ज्ञात्वा तापत्रयं बुधः । उत्पन्नज्ञानवैराग्यं प्राप्नोत्यात्यन्तिकं लयम् ॥ १ ॥ आध्यात्मिकोपि द्विविधः शरीरो मानसस्तथा । शारीरो बहुभिर्भेदैर्भिद्यते श्रुयतां च सः ॥ २ ॥ शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः । गुल्मार्शः श्वययुश्वासच्छर्द्यादिभिरनेकधा ॥ ३ ॥ तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञितैः । भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि ॥ ४ ॥ कामक्रोधभयद्वेषलोभमोहविषादजः । शोकासूयावमानेर्ष्यामात्सर्यादिमयस्तथा ॥ ५ ॥ मानसोऽपि द्विजश्रेष्ठ तापो भवति नैकधा । इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ॥ ६ ॥ मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः । सरीसृपाद्यैश्च नृणां जायते चाधिभौतिकः ॥ ७ ॥ शीतवातोष्णवर्षाम्बुवैद्युतादिसमुद्भवः । तापो द्विजवर श्रेष्ठैः कथ्यते चाधिदैविकः ॥ ८ ॥ गर्भजन्मजराज्ञानमृत्युनारकजं तथा । दुःखं सहस्रशो भेदैर्भिद्यते मुनिसत्तम ॥ ९ ॥ सुकुमारतनुर्गर्भे जन्तुर्बहुमलावृते । उल्वसंवेष्टितो भुग्नपृष्ठग्रीवास्थिसंहतिः ॥ १० ॥ अत्यम्लकटुतीक्ष्णोष्णलवणैर्मातृभोजनैः । अत्यन्ततापैरत्यर्थं वर्धमानातिवेदनः ॥ ११ ॥ प्रसारणाकुञ्चनादौ नाङ्गानां प्रभुरात्मनः । शकृन्मूत्रमहापङ्कशायी सर्वत्र पीडितः ॥ १२ ॥ निरुच्छ्वासः सचैतन्यः स्मरञ्जन्मशतान्यथ । आस्ते गर्भेऽतिदुःखेन निजकर्मनिबन्धनः ॥ १३ ॥ जायमानः पुरीषासृङ्मूत्रशुक्राविलाननः । प्राजापत्येन वातेन पीड्यमानास्थिबन्धनः ॥ १४ ॥ अधोमुखो वै क्रियते प्रबलैः सूतिमारुतैः । क्लेशान्निष्क्रान्तिमाप्नोति जठरान्मातुरातुरः ॥ १५ ॥ मुर्च्छामवाप्य महतीं संस्पृष्टो बाह्यवायुना । विज्ञानभ्रंशमाप्नोति जातश्च मुनिसत्तम ॥ १६ ॥ कण्टकैरिव तुन्नाङ्गः क्रकचैरिव दारितः । पूतिव्रणान्निपतितो धरण्यां कृमिको यथा ॥ १७ ॥ कण्डूयनेऽपि चाशक्तः परिवर्तेप्यनीश्वरः । स्नानपानादिकाहारमप्याप्नोति परेच्छया ॥ १८ ॥ अशुचिप्रस्तरे सुप्तः कीटद्रंशादिभिस्तथा । भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे ॥ १९ ॥ जन्मदुःखान्यनेकानि जन्मनोऽनन्तराणि च । बालभावे यदा प्नोति ह्याधिभौतादिकानि च ॥ २० ॥ अज्ञानतमसाऽऽच्छन्नो मूढान्तःकरणो नरः । न जानाति कुतः कोऽहं क्वाहं गन्ता किमात्मनः ॥ २१ ॥ केनबन्धेन बद्धोऽहं कारणं किमकारणम् । किं कार्यं किमकार्यं वा किं वाच्यं किं च नोच्यते ॥ २२ ॥ को धर्मः कश्च वाधर्मः कस्मिन्वर्तेऽथ वा कथम् । किं कर्तव्यमकर्तव्यं किं वा किं गुणदोषवत् ॥ २३ ॥ एवं पशुसमैर्मुढैरज्ञानप्रभवं महत् । अवाप्यते नरैर्दुःखं शिश्नोदरपरायणैः ॥ २४ ॥ अज्ञानं तामसो भावः कार्यारम्भप्रवृत्तयः । अज्ञानिनां प्रवर्तन्ते कर्मलोपास्ततो द्विज ॥ २५ ॥ नरकं कर्मणां लोपात्फलमाहुर्मनीषिणः । तस्मादज्ञानिनां दुःखमिह चामुत्र चोत्तमम् ॥ २६ ॥ जराजर्जरदेहश्च शिथिलावयवः पुमान् । विचलच्छीर्णदशनो वलिस्नायुशिरावृतः ॥ २७ ॥ दूरप्रनष्टनयनो व्योमान्तर्गततारकः । नासाविवलनिर्यातलोमपुञ्जश्चलद्वपुः ॥ २८ ॥ प्रकटीभूतसर्वास्थिर्नतपृष्ठास्थिसंहतिः । उत्सन्नजठराग्नित्वाद् अल्पाहारोऽप्लचेष्टितः ॥ २९ ॥ कृच्छ्राच्चङ्क्रमणोत्थानशयनासनचेष्टितः । मन्दीभवच्छ्रोत्रनेत्रःस्रवल्लालाविलाननः ॥ ३० ॥ अनायत्तैः समस्तैश्च करणेर्मरणोन्मुखः । तत्क्षणेप्यनुभूतानामस्मर्ताखिलवस्तुनाम् ॥ ३१ ॥ सकृदुच्चारिते वाक्ये समुद्भूतमहाश्रमः । श्वासकाशसमुद्भूतमहायासप्रजागरः ॥ ३२ ॥ अन्येनोत्थाप्यतेऽन्येन तथा संवेश्यते जरी । भृत्यात्मपुत्रदाराणामवमानास्पदी कृतः ॥ ३३ ॥ प्रक्षीणाखिलशौचश्च विहाराहारसस्पृहः । हास्यः परिजनस्यापि निर्विण्णाशेषबान्धवः ॥ ३४ ॥ अनुभूतमिवान्यस्मिञ्जन्मन्यात्मविचेष्टितम् । संस्मरन्यौवने दीर्घं निःश्वसत्यभितापितः ॥ ३५ ॥ एवमादीनि दुःखानि जरायामनुभूय वै । मरणे यानि दुःखानि प्राप्नोति शृणु तान्यपि ॥ ३६ ॥ श्लथद्ग्रीवाङ्घ्रिहस्तोऽथ व्याप्तो वेपथुना भृशम् । मुहुर्ग्लानिपरवशो मुहुर्ज्ञानलवान्वितः ॥ ३७ ॥ हिरण्यधान्यतनयभार्याभृत्यगृहादिषु । एते कथं भविष्यन्तीत्यतीव ममताकुलः ॥ ३८ ॥ मर्मभिद्भिर्महारोगैः क्रकचैरिव दारुणैः । शरैरिवान्तकस्योग्रैश्छिद्यमानासुबन्धनः ॥ ३९ ॥ परिवर्तितताराक्षो हस्तपादं मुहुः क्षिपन् । संशुष्यमाणताल्वोष्ठपुटो घुरघुरायते ॥ ४० ॥ निरुद्धकण्ठो दोषौघैरुदानश्वासपीडितः । तापेन महता व्याप्तस्तृषा चार्तस्तथा क्षुधा ॥ ४१ ॥ क्लेशादुत्क्रान्तिमाप्नोति यमकिङ्करपीडितः । ततश्च यातनादेहं क्लेशेन प्रतिपद्यते ॥ ४२ ॥ एतान्यन्यानि चोग्राणि दुःखानि मरणे नृणाम् । शृणुष्व नरके यानि प्राप्यन्ते पुरुषैर्मृतैः ॥ ४३ ॥ याम्यकिङ्करपाशादिग्रहणं दण्डताडनम् । यमस्य दर्शनं चोग्रमुग्रमार्गविलोकनम् ॥ ४४ ॥ करम्भवालुकावह्नियन्त्रशस्त्रादिभीषणे । प्रत्येकं नरके याश्च यातना द्विज दुःसहाः ॥ ४५ ॥ क्रकचैः पाट्यमानानां मूषायां चापि दह्यताम् । कुठारैः कृत्यमानानां भूमौ चापि निखन्यताम् ॥ ४६ ॥ शूलेष्वारोप्यमाणानां व्याघ्रवक्त्रे प्रवेश्यताम् । गृध्रैः सम्भक्ष्यमाणानां द्वीपिभिश्चोपभुज्यताम् ॥ ४७ ॥ क्वाथ्यतां तैलमध्ये च क्लिद्यतां क्षारकर्दमे । उच्चान्निपात्यमानानां क्षिप्यतां क्षेपयन्त्रकैः ॥ ४८ ॥ नरके यानि दुःखानि पापहेतूद्भवानि वै । प्राप्यन्ते नारकैर्विप्र तेषां संख्या न विद्यते ॥ ४९ ॥ न केवलं द्विजश्रेष्ठ नरके दुःखपद्धतिः । स्वर्गेऽपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिः ॥ ५० ॥ पुनश्च गर्भे भवति जायते च पुनः पुनः । गर्भे विलीयते भूयो जायमानोऽस्तमेति वै ॥ ५१ ॥ जातमात्रश्च म्रियते बालभावेऽथ यौवने । मध्यमं वा वयः प्राप्य वार्धके वाथ वा मृतिः ॥ ५२ ॥ यावज्जीवति तावच्च दुःखैर् नानाविधैः प्लुतः । तं तु कारणपक्ष्मौघैरास्ते कार्पासबीजवत् ॥ ५३ ॥ द्रव्यनाशे तथोत्पत्तौ पालने च सदा नृणाम् । भवन्त्यनेकदुःखानि तथैवेष्टविपत्तिषु ॥ ५४ ॥ यद्यत्प्रीतिकरं पुंसां वस्तु मैत्रेय जायते । तदेव दुःखवृक्षस्य बीजत्वमुपगच्छति ॥ ५५ ॥ कलत्रपुत्रमित्रार्थगृहक्षेत्रधनादिकैः । क्रियते न तथा भूरि सुखं पुंसां यथाऽसुखम् ॥ ५६ ॥ इति संसारदुःखार्कतापतापितचेतसाम् । विमुक्तिपादपच्छायामृते कुत्र सुखं नृणाम् ॥ ५७ ॥ तदस्य त्रिविधस्यापि दुःखजातस्य वै मम । गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः ॥ ५८ ॥ निरस्तातिशयाह्लादसुखभावैकलक्षणा । भेषजं भगवत्प्राप्तिरेकान्तात्यन्तिकी मता ॥ ५९ ॥ तस्मात्तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर्नरैः । तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं महामुने ॥ ६० ॥ आगमोत्थं विवेकाच्च द्विधा ज्ञानं तदुच्यते । शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ॥ ६१ ॥ अन्धं तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम् । यथा सूर्यस्तथा ज्ञानं यद्विप्रर्षे विवेकजम् ॥ ६२ ॥ मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तम । तदेतच्छ्रूयतामत्र सम्बन्धे गदतो मम ॥ ६३ ॥ द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ ६४ ॥ द्वे वै विद्ये वेदितव्ये इति चाथर्वणी श्रुतिः । परया त्वक्षरप्राप्तिर्ऋग्वेदादिमयापरा ॥ ६५ ॥ यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम् । अनिर्देश्यमरूपं च पाणिपादाद्यसंयुतम् ॥ ६६ ॥ विभु सर्वगतं नित्यं भूतयोनिरकारणम् । व्याप्य व्याप्तं यतः सर्वं यद्वै पश्यन्ति सूरयः ॥ ६७ ॥ तद्ब्रह्म तत्परं धाम तद्ध्येयं मोक्षकांक्षिभिः । श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ॥ ६८ ॥ तदेव भगवद्वाच्यं स्वरूपं परमात्मनः । वाचको भगवच्छब्दस्तस्याद्यस्याक्षयात्मनः ॥ ६९ ॥ एवं निगदितार्थस्य तत्तत्त्वं तस्य तत्त्वतः । ज्ञायते येन तज्ज्ञानं परमन्यत्त्रयीमयम् ॥ ७० ॥ अशब्दगोचरस्यापि तस्य वै ब्रह्मणो द्विज । पूजायां भगवच्छब्दः क्रियते ह्युपचारतः ॥ ७१ ॥ शुद्धे महाविभूत्वाख्ये परे ब्रह्मणि शब्दिते । मैत्रेय भगवच्छब्दःसर्वकारणकारणे ॥ ७२ ॥ सम्भर्तेति तथा भर्ता भकारोऽर्थद्वयान्वितः । नेता गमयता स्रष्टा गकारार्थस्तथा मुने ॥ ७३ ॥ ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ ७४ ॥ वसन्ति तत्र भूतानि भूतात्मन्यखिलात्मनि । स च भूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः ॥ ७५ ॥ एवमेष महाञ्छब्दो मैत्रेय भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥ ७६ ॥ तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः । शब्दोऽयं नोपचारेण त्वन्यत्र ह्युपचारतः ॥ ७७ ॥ उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामाविद्यां च स वाच्यो भगवानिति ॥ ७८ ॥ ज्ञानशक्तिबलैश्वयवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥ ७९ ॥ सर्वाणि तत्र भूतानि वसन्ति परमात्मनि । भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः ॥ ८० ॥ खाण्डिक्यजनकायाह पृष्टः केशिध्वजः पुरा । नाभव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः ॥ ८१ ॥ भूतेषु वसते सोऽन्तर्वसन्त्यत्र च तानि यत् । धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥ ८२ ॥ स सर्वभूतप्रकृतिं विकारान्- गुणादिदोशांश्च मुने व्यतीतः । अतीतसर्वावरणोखिलात्मा तेनास्तृतं यद्भुवनान्तराले ॥ ८३ ॥ समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशावृतभूतवर्गः । इच्छागृहीताभिमतोरुदेह- स्संसाधिताशेषजगद्धितो यः ॥ ८४ ॥ तेजोबलैश्वर्यमहावबोध- सुवीर्यशक्त्यादिगुणैकराशिः । परः पराणां सकला न यत्र क्लेशादयःसन्ति परावरेशे ॥ ८५ ॥ स ईश्वरो व्यष्टिसमष्टिरूपो व्यक्तस्वरूपोऽप्रकटस्वरूपः । सर्वेश्वरःसर्वदृक् सर्वविच्च समस्तशक्तिः परमेश्वराख्यः ॥ ८६ ॥ संज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् । सन्दृश्यते वाप्यवगम्यते वा तज्ज्ञानमज्ञानमतोन्यदुक्तम् ॥ ८७ ॥ इति श्रीविष्णुमहापुराणे षष्ठेंऽशे पञ्चमोऽध्यायः (५) |