॥ विष्णुपुराणम् ॥

षष्ठः अंशः

॥ तृतीयोऽध्यायः ॥

श्रीपराशर उवाच
सर्वेषामेव भूतानां त्रिविधः प्रतिसञ्चरः ।
नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको लयः ॥ १ ॥
ब्राह्मो नैमित्तिकस्तेषां कल्पान्ते प्रतिसञ्चरः ।
आत्यन्तिकस्तु मोक्षाख्यः प्राकृतो द्विपरार्धकः ॥ २ ॥
मैत्रेय उवाच
परार्धसंख्यां भगवन्ममाचक्ष्व यया तु सः ।
द्विगुणीकृतया ज्ञेयः प्राकृतः प्रतिसञ्चरः ॥ ३ ॥
श्रीपराशर उवाच
स्थानात्स्थानं दशगुणमेकस्माद्‌गण्यते द्विज ।
ततोऽष्टादशमे भागे परार्धमभिधीयते ॥ ४ ॥
परार्धद्विगुणं यत्तु प्राकृतःस लयो द्विज ।
तदाव्यक्तेऽखिलं व्यक्तं स्वहेतौ लयमेति वै ॥ ५ ॥
निमेषो मानुषो योऽसौ मात्रामात्राप्रमाणतः ।
तैः पञ्चदशभिः काष्ठा त्रिंशत्काष्ठा कला स्मृता ॥ ६ ॥
नाडिका तु प्रमाणेन सा कला दश पञ्च च ।
उन्मानेनाम्भसःसा तु पलान्यर्धत्रयोदश ॥ ७ ॥
मागधेन तु मानेन जलप्रस्थस्तु स स्मृतः ।
हेममाषैः कृतच्छिद्रचतुर्भिश्चातुरङ्‍गुलैः ॥ ८ ॥
नाडिकाभ्यामथ द्वाभ्यां मुहूर्तो द्विजसत्तम ।
अहोरात्रं मुहुर्तास्तु त्रिंशन्मासो दिनैस्तथा ॥ ९ ॥
मासैर्द्वादशभिर्वर्षमहोरात्रं तुतद्दिवि ।
त्रिभिर्वर्षशतैर्वर्षं षष्ट्या चैवासुरद्विषाम् ॥ १० ॥
तैस्तु द्वादशसाहस्त्रैश्चतुर्युगमुदाहृतम् ।
चतुर्युगसहस्रं तु कथ्यते ब्रह्मणो दिनम् ॥ ११ ॥
स कल्पस्तत्र मनवश्चतुर्दश महामुने ।
तदन्ते चैव मैत्रेय ब्राह्मो नेमित्तिको लयः ॥ १२ ॥
तस्य स्वरूपमत्युग्रं मैत्रेय गदतो मम ।
शृणुष्व प्राकृतं भूयस्तव वक्ष्याम्यहं लयम् ॥ १३ ॥
चतुर्युगसहस्रान्ते क्षीणप्राये महीतले ।
अनावृष्टिरतीवोग्रा जायते शतवार्षिकी ॥ १४ ॥
ततो यान्यल्पसाराणि तानि सत्त्वान्यशेषतः ।
क्षयं यान्ति मुनिश्रेष्ठ पार्थिवान्यनुपीडनात् ॥ १५ ॥
ततः स भगवान्विष्णू रुद्ररूपधरोऽव्ययः ।
क्षयाय यतते कर्तुमात्मस्थाःसकलाः प्रजाः ॥ १६ ॥
ततः स भगवान्विष्णुर्भानोः सप्तसु रश्मिषु ।
स्थितः पिबत्यशेषाणि जलानि मुनिसत्तम ॥ १७ ॥
पीत्वाम्भांसि समस्तानि प्राणिभूमिगतान्यपि ।
शोषं नयति मैत्रेय समस्तं पृथिवीतलम् ॥ १८ ॥
समुद्रान्सरितः शैलनदीप्रस्रवणानि च ।
पातालेषु च यत्तोयं तत्सर्वं नयति क्षयम् ॥ १९ ॥
ततस्तस्यानुभावेन तोयाहारोपबृंहिताः ।
त एव रश्मयःसप्त जायन्ते सप्त भास्कराः ॥ २० ॥
अधश्चोर्ध्वं च ते दीप्तास्ततःसप्त दिवाकराः ।
दहन्त्यशेषं त्रैलोक्यं सपातालतलं द्विज ॥ २१ ॥
दह्यमानं तु तैर्दीप्तैस्त्रैलोक्यं द्विज भास्करैः ।
साद्रिनद्यर्णवाभोगं निस्नेहमभिजायते ॥ २२ ॥
ततो निर्दग्धवृक्षाम्बु त्रैलोक्यमाखितं द्विज ।
भवत्येषा च वसुधा कूर्मपृष्ठोपमाकृतिः ॥ २३ ॥
ततः कालाग्निरुद्रोऽसौ भूत्वा सर्वहरो हरिः ।
शेषाहिश्वाससम्भूतः पातालानि दहत्यधः ॥ २४ ॥
पातालानि समस्तानि स दग्ध्वा ज्वलनो महान् ।
भूमिमभ्येत्य सकलं बभस्ति वसुधातलम् ॥ २५ ॥
भुवर्लोकं ततःसर्वं स्वर्लोकं च सुदारुणः ।
ज्वालामालामहावर्तस्तत्रैव परिवर्तते ॥ २६ ॥
अम्बरीषमिवाभाति त्रैलोक्यमखिलं तदा ।
ज्वालावर्तपरिवारमुपक्षीणचराचरम् ॥ २७ ॥
ततस्तापपरीतास्तु लोकद्वयनिवासिनः ।
कृताधिकारा गच्छन्ति महर्लोकं महामुने ॥ २८ ॥
तस्मादपि महातापतप्ता लोकात्ततः परम् ।
गञ्च्छन्ति जनलोकं ते दशावृत्त्या परैषिणः ॥ २९ ॥
ततो दग्ध्वा जगत्सर्वं रुद्ररूपी जनार्दनः ।
मुखनिःश्वासजान्मेघान्करोति मुनिसत्तम ॥ ३० ॥
ततो गजकुलप्रख्यास्तडित्वन्तोऽतिनादिनः ।
उत्तिष्ठन्ति तथा व्योम्नि घोराःसंवर्तका घनाः ॥ ३१ ॥
केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः ।
धूम्रवर्णा घनाः केचित्केचित्पीताः पयोधराः ॥ ३२ ॥
केचिद्रासभवर्णाभा लाक्षारसनिभास्तथा ।
केचिद्वैडूर्यसंकाशा इन्द्रनीलनिभाः क्वचित् ॥ ३३ ॥
शङ्‍खकुन्दनिभाश्चान्ये जात्यं जननिभाः परे ।
इन्द्रगोपनिभाः केचित्ततः शखिनिभास्तथा ॥ ३४ ॥
मनःशिलाभाः केचिद्वै हरितालनिभाः परे ।
चाषपत्रनिभाः केचिदुत्तिष्ठन्ते महाघनाः ॥ ३५ ॥
केचित्पुरवराकाराः केचित्पर्वतसन्निभाः ।
कूटागारनिभाश्चान्ये केचित्स्थलनिभा घनाः ॥ ३६ ॥
महारावा महाकायाः पूरयन्ति नभःस्थलम् ।
वर्षन्तस्ते महासारास्तमग्निमतिभैरवम् ।
शमयन्त्यखिलं विप्र त्रैलोक्यान्तरधिष्ठितम् ॥ ३७ ॥
नष्टे चाग्नौ च सततं वर्षमाणा ह्यहर्निशम् ।
प्लावयन्ति जगत्सर्वमम्भोभिर्मुनिसत्तम ॥ ३८ ॥
धाराभिरतिमात्राभिः प्लावयित्वाखिलां भुवम् ।
भुवर्लोकं तथैवोर्ध्वं प्लावयन्ति हि ते द्विज ॥ ३९ ॥
अन्धकारीकृते लोके नष्टे स्थावरजङ्‍गमे ।
वर्षति ते महामेघा वर्षाणामधिकं शतम् ॥ ४० ॥
एवं भवति कल्पान्ते समस्तं मुनिसत्तम ।
वासुदेवस्य माहात्म्यान्नित्यस्य परमात्मनः ॥ ४१ ॥
इति श्रीविष्णुमहापुराणे षष्ठांशे तृतीयोऽध्यायः (३)



GO TOP