॥ विष्णुपुराणम् ॥

पञ्चमः अंशः

॥ पञ्चदशोऽध्यायः ॥

श्रीपराशर उवाच
ककुद्मति हतेऽरिष्टे धेनुके विनिपातिते ।
प्रलम्बे निधनं नीते धृते गोवर्धनाचले ॥ १ ॥
दमिते कालिये नागे भग्नेतुङ्‍गद्रुमद्वये ।
हतायां पूतनायां च शकटे परिवर्तिते ॥ २ ॥
कंसाय नारदः प्राह यथावृत्तमनुक्रमात् ।
यशोदादेवकीगर्भपरिवृत्ताद्यशेषतः ॥ ३ ॥
श्रुत्वा तत्सकलं कंसो नारदाद्देवदर्शनात् ।
वसुदेवं प्रति तदा कोपं चक्रे सुदुर्मतिः ॥ ४ ॥
सोतिकोपादुपालभ्य सर्वयादवसंसदि ।
जगर्ज यादवांश्चैव कार्यं चैतदचिन्तयत् ॥ ५ ॥
यावन्न बलमारूढौ रामकृष्णौ सुबालकौ ।
तावदेव मया वध्यावसाध्यौ रूढयौवनौ ॥ ६ ॥
चाणूरोऽत्र महावीर्यो मुष्टिकश्च महाबलः ।
एताभ्यां मल्लयुद्धेन मारयिष्यामि दुर्मती ॥ ७ ॥
धनुर्महमहायोगव्याजेनानीय तौ व्रजात् ।
तथा तथा यतिष्यामि यास्येते संक्षयं यथा ॥ ८ ॥
श्वफल्कतनयं शूरमक्रूरं यदुपुङ्‍गवम् ।
तयोरानयनार्थाय प्रेषयिष्यामि गोकुलम् ॥ ९ ॥
वृन्दावनचरं घोरमादेक्ष्यामि च केशिनम् ।
तत्रैवासावतिबलस्तावुभौ घातयिष्यति ॥ १० ॥
गजः कुवलायापीडो मत्सकाशमिहागतौ ।
घातयिष्यति वा गोपौ वसुदेवसुतावुभौ ॥ ११ ॥
श्रीपराशर उवाच
इत्यालोच्य स दुष्टात्मा कंसो रामजनार्दनौ ।
हन्तुं कृतम् अर्तिवीरावक्रूरं वाक्यमवृब्रवीत् ॥ १२ ॥
कंस उवाच
भो भो दानपते वाक्यं क्रियतां प्रीतये मम ।
इतः स्यन्दनमारुह्य गम्यतां नन्दगोकुलम् ॥ १३ ॥
वसुदेवसुतौ तत्र विष्णोरंशसमुद्‍भवौ ।
नाशाय किल सम्भूतौ मम दुष्टौ प्रवर्धतः ॥ १४ ॥
धनुर्महो ममाप्यत्र चतुर्दश्यां भविष्यति ।
आनेयौ भवता गत्वा मल्लयुद्धाय तत्र तौ ॥ १५ ॥
चाणूरमुष्टिकौ मल्लौ नियुद्धकुशलौ मम ।
ताभ्यां सहानयोर्युद्धं सर्वलोकोऽत्र पश्यतु ॥ १६ ॥
गजः कुवलयापीडो महामात्रप्रचोदितः ।
स वा हनिष्यते पापौ वसुदेवात्मजौ शिशु ॥ १७ ॥
तौ हत्वा वसुदेवं च नन्दगोपं च दुर्मतिम् ।
हनिष्ये पितरं चैनमुग्रसेनं सुदुर्मतिम् ॥ १८ ॥
ततःसमस्तगोपानां गोधनान्यखिलान्यहम् ।
वित्तं चापहरिष्यामि दुष्टानां मद्वधैषिणाम् ॥ १९ ॥
त्वामृते यादवाश्चैते द्विषो दानपते मम ।
एतेषां च वधायाहं यतिष्येऽनुक्रमात्ततः ॥ २० ॥
तदा निष्कण्टकं सर्वं राज्यमेतदयादवम् ।
प्रसाधिष्ये त्वया तस्मान्मत्प्रीत्यै वीर गम्यताम् ॥ २१ ॥
यथा च माहिषं सर्पिर्दधि चाप्युपहार्य वै ।
गोपाःसमानयन्त्वाशु तथा वाच्यास्त्वया च ते ॥ २२ ॥
श्रीपराशर उवाच
इत्याज्ञप्तस्तदाक्रूरो महाभागवतो द्वज ।
प्रीतिमानभवत्कृष्णं श्वोद्रक्ष्यामीति सत्वरः ॥ २३ ॥
तथेत्युक्त्वा च राजानं रथमारुह्य शोभनम् ।
निश्चक्राम ततः पुर्या मथुराया मधुप्रियः ॥ २४ ॥
इति श्रीविष्णुमहापुराणे पञ्चमेंऽशे पञ्चदशोऽध्यायः (१५)

GO TOP