|
॥ विष्णुपुराणम् ॥ पञ्चमः अंशः ॥ दशमोऽध्यायः ॥
श्रीपराशर उवाच
तयोर्विहरतोरेवं रामकेशवयोर्व्रजे । प्रावृड् व्यतीता विकसत्सरोजा चाभवच्छरत् ॥ १ ॥ अवापुस्तापमत्यर्थं शफर्यः पल्वलोदके । पुत्रक्षेत्रादिसक्तेन ममत्वेन यथा गृही ॥ २ ॥ मयुरा मौनमातस्थुः परित्यक्तमदा वने । असारतां परिज्ञाय संसारस्येव योगिनः ॥ ३ ॥ उत्सृज्य जलसर्वस्वं विमलाःसितमूर्तयः । तत्यजुश्चाम्बरं मेघा गृहं विज्ञानिनो यथा ॥ ४ ॥ शरत्सूर्यांशुतप्तानि ययुः शोषं सरांसि च । बह्वालम्बममत्वेन हृदयानीव देहिनाम् ॥ ५ ॥ कुमुदैः शरदम्भांसि योग्यतालक्षणं ययुः । अवबोधैर्मनांसीव समत्वममलात्मनाम् ॥ ६ ॥ तारकाविमले व्योम्नि रराजाखण्डमण्डलः । चन्द्रश्चरमदेहात्मा योगी साधुकुले यथा ॥ ७ ॥ शनकैः शनकैस्तीरं तत्यजुश्च जलाशयाः । ममत्वं क्षेत्रपुत्रादिरूढमुच्चैर्यथा बुधाः ॥ ८ ॥ पूर्वं त्यक्तैः सरोऽम्भोभिर्हंसा योगं पुनर्ययुः । क्लेशैः कुयोगिनो शेषैरन्तरायहता इव ॥ ९ ॥ निभृतो भवदत्यर्थं समुद्रः स्तिमितोदकः । क्रमावाप्तमहायोगो निश्चलात्मा यथा यतिः ॥ १० ॥ सर्वत्रातिप्रसन्नानि सलिलानि तथाभवन् । ज्ञाते सर्वगते विष्णौ मनांसीव सुमेधसाम् ॥ ११ ॥ बभूव निर्मलं व्योम शरदा ध्वस्ततोयदम् । योगाग्निदग्धक्लेशौघं योगिनामिव मानसम् ॥ १२ ॥ सूर्यांशुजनितं तापं नित्ये तारापतिः शमम् । अहंमानोद्भवं दुःखं विवेकः सुमहानिव ॥ १३ ॥ नभसोब्दं भुवः पङ्कं कालुष्यं चाम्भसः शरत् । इन्द्रियाणीन्द्रियार्थेभ्यः प्रत्याहार इवाहरत् ॥ १४ ॥ प्राणायाम इवाम्भोभिः सरसां कृतपूरकैः । अभ्यस्यतेऽनुदिवसं रेचकाकुम्भकादिभिः ॥ १५ ॥ विमलाम्बरनक्षत्रे काले चाभ्यागते व्रजे । ददर्शेन्द्रमहारम्भायोद्यतांस्तान्व्रजौकसः ॥ १६ ॥ कृष्णस्तानुत्सुकान्दृष्ट्वा गोपानुत्सवलालसान् । कौतूहलादिदं वाक्यं प्राह वृद्धान्महामतिः ॥ १७ ॥ कोऽयं शक्रमहो नाम येन वो हर्ष आगतः । प्राह तं नन्दगोपश्च पृच्छन्तमतिसादरम् ॥ १८ ॥ नन्दगोप उवाच मेघानां पयसां चेशो देवराजः शतक्रतुः । तेन सञ्चोदिता मेघा वर्षत्यम्बुमयं रसम् ॥ १९ ॥ तद्वृष्टिजनितं सस्यं वयमन्ये च देहिनः । वर्तयामोपयुञ्जानास्तर्पयामश्च देवताः ॥ २० ॥ क्षीरवत्य इमा गावो वत्सवत्यश्च निर्वृताः । तेन संवर्धितैः सस्यैस्तुष्टाः पुष्टाः भवन्ति वै ॥ २१ ॥ नासस्या नातृणा भूमिर्न बुभुक्षार्दितो जनः । दृश्यते यत्र दृश्यन्ते वृष्टिमन्तो बलाहकाः ॥ २२ ॥ भौममेतत्पयो दुग्धं गोभिः सूर्यस्य वारिदैः । पर्जन्यः सर्वलोकस्योद्भवाय भुवि वर्षति ॥ २३ ॥ तस्मात्प्रावृषि राजानः सर्वे शक्रं मुदा युताः । मखैः सुरेशमर्चन्ति वयमन्ये च मानवाः ॥ २४ ॥ श्रीपराशर उवाच नन्दगोपस्य वचनं श्रुत्वेत्थं शक्रपूजने । रोषाय त्रिदशेन्द्रस्य प्राहदामोदरस्तदा ॥ २५ ॥ न वयं कृषिकर्तारो वाणिज्याजीविनो न च । गावोऽस्मद्दैवतं तात वयं वनचरा यतः ॥ २६ ॥ आन्विक्षिकी त्रयी वार्ता दण्डनितिस्तथा परा । विद्या चतुष्टयं चैतद्वार्तामात्रं शृणुष्व मे ॥ २७ ॥ कृषिर्वणिज्या तद्वच्च तृतीयं पशुपालनम् । विद्या ह्येका महाभाग वार्ता वृत्तित्रयाश्रया ॥ २८ ॥ कर्षकाणां कृषिर्वृत्तिः पण्यं विपणीजीविनाम् । अस्माकं गौः परावृत्तिर्वार्ताभेदैरियं त्रिभिः ॥ २९ ॥ विद्यया यो यया युक्तस्तस्य सा दैवतं महत् । सैव पूज्यार्चनीया च सैव तस्योपकारिका ॥ ३० ॥ यो यस्य फलमश्नन्वै पूजयत्यपरं नरः । इह च प्रेत्य चैवासौ न तदाप्नोति शोभनम् ॥ ३१ ॥ कृष्यान्ता प्रथिता सीमा सीमान्तं च पुनर्वनम् । वनान्ता गिरयः सर्वे ते चास्माकं परा गतिः ॥ ३२ ॥ न द्वारबन्धावरणा न गृहक्षेत्रिणस्तथा । सुखिनस्त्वखिले लोके यथा वै चक्रचारिणः ॥ ३३ ॥ श्रूयन्ते गिरयश्चैव वनेस्मिन्कामरूपिणः । तत्तद्रूपं समास्थाय रमन्ते स्वेषु सानुषु ॥ ३४ ॥ यदा चैते प्रबाध्यन्ते तेषां ये काननौकसः । तदा सिंहादिरूपैस्तान्घातयन्ति महीधराः ॥ ३५ ॥ गिरीयज्ञस्त्वयं तस्माद्गोयज्ञश्च प्रवर्त्यताम् । किमस्माकं महेन्द्रेण गावः शैलाश्च देवताः ॥ ३६ ॥ मन्त्रयज्ञपरा विप्राः सीरयज्ञाश्च कर्षकाः । गिरिगोयज्ञशीलाश्च वयमद्रिवनाश्रयाः ॥ ३७ ॥ तस्माद्गोवर्धनः शैलो भवद्भिर्विविधार्हणैः । अर्च्यतां पूज्यतां मेध्यान्पशुन्हत्वा विधानतः ॥ ३८ ॥ सर्वघोषस्य सन्दोहो गृह्यतां मा विचार्यताम् । भोज्यन्तां तेन वै विप्रास्तथा ये चाभिवाञ्छकाः ॥ ३९ ॥ तत्रार्चिते कृते होमे भोजितेषु द्विजातिषु । शरत्पुष्पकृतापीडाः परिगच्छन्तु गोगणाः ॥ ४० ॥ एतन्मम मतं गोपाः सम्प्रीत्या क्रियते यदि । ततः कृता भवेत्प्रीतिर्गवामद्रेस्तथा मम ॥ ४१ ॥ श्रीपराशर उवाच इति तस्य वचः श्रुत्वा नन्दाद्यास्ते व्रजौकसः । प्रीत्युत्फुल्लमुखा गोपाः साधुसाध्वित्यथाब्रुवन् ॥ ४२ ॥ शोभनं ते मतं वत्स यदेतद्भवतोदितम् । तत्करिष्यामहे सर्वं गिरियज्ञः प्रवर्त्यताम् ॥ ४३ ॥ तथा च कृतवन्तस्ते गिरियज्ञं व्रजौकसः । दधिपायसमांसाद्यैर्ददुः शैलबलिं ततः ॥ ४४ ॥ द्विजांश्च भोजयामासुः शतशोऽथ सहस्रशः ॥ ४५ ॥ गावः शैलं ततश्चक्रुरर्चितास्ताः प्रदक्षिणम् । वृषभाश्चातिनर्दन्तः सतोया जलदा इव ॥ ४६ ॥ गिरिमूर्धनि कृष्णोऽपि शैलोहमिति मूर्तिमान् । बुभुजेन्नं बहुतरं गोपवर्याहृतं द्विज ॥ ४७ ॥ स्वेनैव कृष्णो रूपेण गोपैः सह गिरेः शिरः । अधिरुह्यार्चयामास द्वितीयामात्मनस्तनुम् ॥ ४८ ॥ अन्तर्धानं गते तस्मिन्गोपा लब्ध्वा ततो वरान् । कृत्वा गिरीमखं गोष्ठं निजमभ्याययुः पुनः ॥ ४९ ॥ इति श्रीविष्णुमहापुराणे पञ्चमेंऽशे दशमोऽध्यायः (१०) |