|
॥ विष्णुपुराणम् ॥ पञ्चमः अंशः ॥ नवमोऽध्यायः ॥
श्रीपराशर उवाच
तस्मिन् रासभदैतेये सानुगे विनिपातिते । सौम्यं तद्गोपगोपीनां रम्यं तालवनं बभौ ॥ १ ॥ ततस्तौ जातहर्षौ तु वसुदेवसुतावुभौ । हत्वा धेनुकदैतेयं भाण्डीरवटमागतौ ॥ २ ॥ क्ष्वेलमानौ प्रगायन्तौ विचिन्वन्तौ च पादपान् । चारयन्तौ च गा दूरे व्याहरन्तौ च नामभिः ॥ ३ ॥ निर्योगपाशस्कन्धौ तौ वनमालाविभूषितौ । शुशुभाते महात्मानौ बलाशृङ्गाविवर्षभौ ॥ ४ ॥ सुवर्णाञ्जनचूर्णाभ्यां तौ तदा रूषिताम्बरौ । महेन्द्रायुधसंयुक्तौ श्वेतकृष्णाविवाम्बुदौ ॥ ५ ॥ चेरतुर्लौकसिद्धाभिः क्रीडाभिरितरेतरम् । समस्तलोकनाथानां नाथभूतौ भुवं गतौ ॥ ६ ॥ मनुष्यधर्माभिरतौ मानयन्तौ मनुष्यताम् । तज्जातिगुणयुक्ताभिः क्रिडाभिश्चेरतुर्वनम् ॥ ७ ॥ ततस्त्वान्दोलिकाभिश्च नियुद्धैश्च महाबलौ । व्यायामं चक्रतुस्तत्र क्षेपणीयैस्तथाश्मभिः ॥ ८ ॥ तल्लिप्सुरसुरस्तत्र ह्युभयो रममाणयोः । आजगाम प्रलम्बाख्यो गोपवेषतिरोहितः ॥ ९ ॥ सोऽवगाहत निःशङ्कस्तेषां मध्यममानुषः । मानुषं वपुरास्थाय प्रलम्बो दानवोत्तमः ॥ १० ॥ तयोश्छिद्रान्तरप्रेप्सुरविषह्यममन्यत । कृष्णं ततो रौहिणेयं हन्तुं चक्रे मनोरथम् ॥ ११ ॥ हरिणाक्रीडनं नाम बालक्रीडनकं ततः । प्रकुर्वन्तो हि ते सर्वे द्वौ द्वौ युगपदुत्थितौ ॥ १२ ॥ श्रीदाम्ना सह गोविन्दः प्रलम्बेन तथा बलः । गोपालौरपरैश्चान्ये गोपालाः पुप्लुवुस्ततः ॥ १३ ॥ श्रीदामानं ततः कृष्णः प्रलम्बं रोहिणीसुतः । जितवान्कृष्णपक्षीयैर्गोपैरन्ये पराजिताः ॥ १४ ॥ ते वाहयन्तस्त्वन्योन्यं भाण्डीरं वटमेत्य वै । पुनर्निववृतुःसर्वे ये ये तत्र परिजिताः ॥ १५ ॥ संकर्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्य दानवः । नभःस्थलं जगामाशु सचन्द्र इव वारिदः ॥ १६ ॥ असहन् रौहिणेयस्य स भारं दानवोत्तमः । ववृधे स महाकायः प्रावृषीव बलाहकः ॥ १७ ॥ संकर्षणस्तु तं दृष्ट्वा दग्धशैलोपमाकृतिम् । स्रग्दामलम्बाभरणं मकुटाटोपमस्तकम् ॥ १८ ॥ रौद्रं शकटचक्राक्षं पादन्यासचलत्क्षितिम् । अभीतमनसा तेन रक्षसा रोहिणीसुतः । ह्रियमामस्ततः कृष्णमिदं वचनमब्रवीत् ॥ १९ ॥ कृष्ण कृष्ण ह्रियाम्येष पर्वतोदग्रमूर्तिना । केनापि पश्य दैत्येन गोपालच्छद्मरूपिणा ॥ २० ॥ यदत्र साम्प्रतं कार्यं मया मधुनिषूदन । तत्कथ्यतां प्रयात्येष दुरात्मातित्वरान्वितः ॥ २१ ॥ श्रीपराशर उवाच तमाह रामं गोविन्दः स्मितभिन्नोष्ठसम्पुटः । महात्मा रौहिणेयस्य बलवीर्यप्रमाणवित् ॥ २२ ॥ श्रीकृष्ण उवाच किमयं मानुषो भावो व्यक्तमेवावलम्ब्यते । सर्वात्मन् सर्वगुह्यानां गुह्यगुह्यात्मना त्वया ॥ २३ ॥ स्मराशेषजगद्बीजकारणं कारणाग्रजम् । आत्मानमेकं तद्वच्च जगत्येकार्णवे च यत् ॥ २४ ॥ किं न वेत्सि यथाहं च त्वं चैकं कारणं भुवः । भारावतारणार्थाय मर्त्यलोकमुपागतौ ॥ २५ ॥ नभशिरस्तेऽम्बुवहाश्च केशाः पादौ क्षितिर्वत्र्क्रमनन्त वह्नि । सोमो मनस्ते श्वसितं समीरणो दिशश्चतस्रोऽव्यय बाहवस्ते ॥ २६ ॥ सहस्रवक्त्रो भगवान्महात्मा सहस्रहस्ताङ्घ्रिशरीरभेदः । सहस्रपद्मोद्भवयोनिराद्यः- सहस्रशस्त्वां मुनयो गृणन्ति ॥ २७ ॥ दिव्यं हि रूपं तव वेत्ति नान्यो देवैरशेषैरवताररूपम् । तदर्च्यते वेत्सि न किं यदन्ते त्वय्येव विश्वं लयमभ्युपैति ॥ २८ ॥ त्वया धृतेयं धरणी बिभर्ति चराचरं विश्वमनन्तमूर्ते । कृतादिभेदैरज कालरूपो निमेषपूर्वो जगदेतदत्सि ॥ २९ ॥ अत्तं यथा बाडववह्निनाम्बु हिमस्वरूपं परिगृह्य कास्तम् । हिमाचले भानुमतोंऽशुसङ्गा- ज्जलत्वमभ्येति पुनस्तदेव ॥ ३० ॥ एवं त्वया संहरणेऽत्तमेत- ज्जगत्समस्तं त्वदधीनकं पुनः । तवैव सर्गाय समुद्यतस्य जगत्त्वमभ्येत्यसुकल्पमीश ॥ ३१ ॥ भवानहं च विश्वात्मन्नेकमेव च कारणम् । जगतोऽस्य जगत्यर्थे भेदेनावां व्यवस्थितौ ॥ ३२ ॥ तत्स्मर्यताममेयात्मंस्त्वयात्मा जहि दानवम् । मानुष्यमेवावलम्ब्य बन्धूनां क्रियतां हितम् ॥ ३३ ॥ श्री पराशर उवाच इति संस्मारितो विप्र कृष्णेन सुमहात्मना । विहस्य पीडयामास प्रलम्बं बलवान्बलः ॥ ३४ ॥ मुष्टिना सोऽहनन्मूर्ध्नि कोपसंरक्तलोचनः । तेन चास्य प्रहारेण बहिर्याते विलोचने ॥ ३५ ॥ स निष्कासितमस्तिष्को मुखाच्छोणितमुद्वमन् । निपपात महीपृष्ठे दत्यवर्यो ममार च ॥ ३६ ॥ प्रलम्बं निहतं दृष्ट्वा बलेनाद्भुतकर्मणा । प्रहृष्टास्तुष्टुवुर्गौपाः साधुसाध्विति चाब्रुवन् ॥ ३७ ॥ संस्तूयमानो गोपैस्तु रामो दैत्ये निपातिते । प्रलम्बं सह कृष्णेन पुनर्गोकुलमाययौ ॥ ३८ ॥ इति श्रीविष्णुमहापुराणे पञ्चमेंऽशे नवमोऽध्यायः (९) |