॥ विष्णुपुराणम् ॥

चतुर्थः अंशः

॥ एकविंशोऽध्यायः ॥

श्रीपराशर उवाच
अतः परं भविष्यानहं भूपालान्कीर्तयिष्यामि ॥ १ ॥
योऽयं साम्प्रतमवनीपतिः परीक्षित्तस्यापि जनमेजय श्रुतसेनोग्रसेनभीमसेनाश्चत्वारः पुत्रा भविष्यन्ति ॥ २ ॥
जनमेजयस्यापि शतानीको भविष्यति ॥ ३ ॥
योऽसौ याज्ञवल्क्याद्वेदमधीत्य कृपादस्त्राण्यवाप्य विषमविषयविरक्तचित्तवृत्तिश्च शौनकोपदेशादात्मज्ञानप्रवीणः परं निर्वाणमवाप्स्यति ॥ ४ ॥
शतानीकादश्वमेधदत्तो भविता ॥ ५ ॥
तस्मादप्यचधिसीमकृष्णः ॥ ६ ॥
अधिसीमकृष्णान्निचक्नुः ॥ ७ ॥
यो गङ्‍गयापहृते हस्तिनपुरे कौशाम्ब्यां निवत्स्यति ॥ ८ ॥
तस्याप्युष्णः पुत्रो भविता ॥ ९ ॥
उष्णाद्विचित्ररथः ॥ १० ॥
ततः शुचिरथः ॥ ११ ॥
तस्माद्वृष्णिमांस्ततःसुषेणस्तस्यापि सुनीथःसुनीथान् नृपचक्षुस्तस्मादपि सुखावलस्तस्य च पारिप्लवस्ततश्च सुनयस्तस्यापि मेधावी ॥ १२ ॥
मेधाविनो रिपुञ्जयस्ततो मृदुस्तस्माच्च तिग्मस्तस्माद्‍बृहद्रथः बृहद्रथाद्वसुदानः ॥ १३ ॥
ततोऽपरः शतानीकः ॥ १४ ॥
तस्माच्चोदयन उदयनाद् अहीनरस्ततश्चदण्डपाणिस्ततो निरमित्रः ॥ १५ ॥
तस्माच्च क्षेमकः ॥ १६ ॥
अत्रायं श्लोकः ॥ १७ ॥
ब्रह्मक्षत्रस्य यो योनिर्वंशो दराजर्षिसत्कृतः ।
क्षेमकं प्राप्य राजानं संस्थानं प्राप्यते कलौ ॥ १८ ॥
इति श्रीविष्णुमहापुराणे चतुर्थांश एकविंशोऽध्यायः (२१)


GO TOP