|
॥ विष्णुपुराणम् ॥ तृतीयः अंशः ॥ तृतीयोऽध्यायः ॥
श्रीमैत्रेय उवाच
ज्ञातमेतन्मया त्वत्तो यथा सर्वमिदं जगत् । विष्णुर्विष्णौ विष्णुतश्च न परं विद्यते ततः ॥ १ ॥ एतत्तु श्रोतुमिच्छामि व्यस्ता वेदा महात्मना । वेदव्यासस्वरूपेण तथा तेन युगे युगे ॥ २ ॥ यस्मिन्यस्मिन्युगे व्यासो यो य आसीन्महामुने । तं तमाचक्ष्व भगवञ्छाखाभेदांश्च मे वद ॥ ३ ॥ श्रीपराशर उवाच वेदद्रुमस्य मैत्रेय शाखाभेदास्सहस्रशः । नशक्तो विस्तराद्वक्तुं संक्षेपेण शृणुष्व तम् ॥ ४ ॥ द्वापरे द्वापरे विष्णुर्व्यासरूपी महामुने । । वेदमेकं सुबहुधा कुरुते जगतो हितः ॥ ५ ॥ वीर्य तेजो बलं चाल्पं मनुष्याणामवेक्ष्य च । हिताय सर्वभूतानां वेदभेदान्करोति सः ॥ ६ ॥ ययासौ कुरुते तन्वा वेदमेकं पृथक् प्रभुः । वेदव्यासाभिधाना तु सा च मूर्तिर्मधुद्विषः ॥ ७ ॥ यस्मिन्मन्वन्तरे व्यासा ये ये स्युस्तान्निबोध मे । यथा च भेदश्शाखानां व्यासेन क्रियते मुने ॥ ८ ॥ अष्टाविंशतिकृत्वो वै वेदो व्यस्तो महर्षिभिः । वैवस्वतेऽन्तरे तस्मिन्द्वापरेषु पुनः पुनः ॥ ९ ॥ वेदव्यासा व्यतीता ये ह्यष्टाविंशति सत्तम । चतुर्धा यैः कृतो वेदो द्वापरेषु पुनः पुनः ॥ १० ॥ द्वापरे प्रथमे व्यस्तस्स्वयं वेदः स्वयम्भुवा । द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः ॥ ११ ॥ तृतीये चोशना व्यासश्चतुर्थे च बृहस्पतिः । सविता पञ्चमे व्यासः षष्ठे मृत्युस्स्मृतः प्रभुः ॥ १२ ॥ सप्तमे च तथैवेन्द्रो वसिष्ठश्चाष्टमे स्मृतः । सारस्वतश्च नवमे त्रिधामा दशमे स्मृतः ॥ १३ ॥ एकादशे तु त्रिशिखो भरद्वाजस्ततः परः । त्रयोदशे चान्तरिक्षो वर्णी चापि चतुर्दशे ॥ १४ ॥ त्रय्यारुण: पञ्चदशे षोडशे तु धनञ्जयः । ऋतुञ्जयः सप्तदशे तदूर्ध्वं च जयस्स्मृतः ॥ १५ ॥ ततो व्यासो भरद्वाजो भरद्वाजाच्च गौतमः । गौतमादुत्तरो व्यासो हर्यात्मा योऽभिधीयते ॥ १६ ॥ अथ हर्यात्मनोऽन्ते च स्मृतो वाजश्रवा मुनिः । सोमशुष्मायणस्तस्मात्तृणबिन्दुरिति स्मृतः ॥ १७ ॥ ऋक्षोऽभूद्भार्गवस्तस्माद्वाल्मीकिर्योऽभिधीयते । तस्मादस्मत्पिता शक्तिर्व्यासस्तस्मादहं मुने ॥ १८ ॥ जातुकर्णोऽभवन्मत्तः कृष्णद्वैपायनस्ततः । अष्टाविंशतिरित्येते वेदव्यासाः पुरातनाः ॥ १९ ॥ एको वेदश्चतुर्धा तु तैः कृतो द्वापरादिषु ॥ २० ॥ भविष्ये द्वापरे चापि द्रौणिर्व्यासो भविष्यति । व्यतीते मम पुत्रेऽस्मिन् कृष्णद्वैपायने मुने ॥ २१ ॥ ध्रुवमेकाक्षरं ब्रह्म ओमित्येव व्यवस्थितम् । बृहत्वाद्बृंहणत्वाच्च तद्ब्रह्मेत्यभिधीयते ॥ २२ ॥ प्रणवावस्थितं नित्यं भूर्भुवस्स्वरितीर्यते । ऋग्यजुस्सामाथर्वाणो यत्तस्मै ब्रह्मणे नमः ॥ २३ ॥ जगतः प्रलयोत्पत्त्योर्यत्तत्कारणसंज्ञितम् । महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः ॥ २४ ॥ अगाधापारमक्षय्यं जगत्सम्मोहनालयम् । स्वप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम् ॥ २५ ॥ सांख्यज्ञानवतां निष्ठा गतिश्शमदमात्मनाम् । यत्तदव्यक्तममृतं प्रवृत्तिब्रह्म शाश्वतम् ॥ २६ ॥ प्रधानमात्मयोनिश्च गुहासंस्थं च शब्द्यते । अविभागं तथा शुक्रमक्षयं बहुधात्मकम् ॥ २७ ॥ परमब्रह्मणे तस्मै नित्यमेव नमो नमः । । यद्रूपं वासुदेवस्य परमात्मस्वरूपिणः ॥ २८ ॥ एतद्ब्रह्म त्रिधा भेदमभेदमपि स प्रभुः । सर्वभेदेष्वभेदोऽसौ भिद्यते भिन्नबुद्धिभिः ॥ २९ ॥ स ऋङ्मयस्साममयः सर्वात्मा स यजुर्मयः । ऋग्यजुस्सामसारात्मा स एवात्मा शरीरिणाम् ॥ ३० ॥ स भिद्यते वेदमयस्स्ववेदं करोति भेदैर्बहुभिस्सशाखम् । शाखाप्रणेता स समस्तशाखा ज्ञानस्वरूपो भगवानसङ्गः ॥ ३१ ॥ इति श्रिविष्णुमहापुराणे तृतीयेंऽशे तृतीयोध्यायः (३) |