|
॥ विष्णुपुराणम् ॥ द्वितीयः अंशः ॥ एकादशोऽध्यायः ॥
मैत्रेय उवाच
यदेतद्भगवानाह गणः सप्तविधो रवेः । मण्डले हिमतापादेः कारणं तन्मया श्रुतम् ॥ १ ॥ व्यापारश्चापिकथितो गन्धर्वोरगरक्षसाम् । ऋषीणां वालखिल्यानां तथैवाप्सरसां गुरो ॥ २ ॥ यक्षाणां च रथे भानोर्विष्णुशक्तिधृतात्मनाम् । किं चादित्यस्य यत्कर्म तन्नात्रोक्तं त्वया मुने ॥ ३ ॥ यदि सप्तगणो वारि हिममुष्णं च वर्षति । तत्किमत्र रवेर्येन वृष्टिः सूर्यादितीर्यते ॥ ४ ॥ विवस्वानुदितो मध्ये यात्यस्तमिति किं जनः । ब्रवीत्येतत्समं कर्म यदि सप्तगणस्य तत् ॥ ५ ॥ पराशर उवाच मैत्रेय श्रूयतामेतद्यद्भवान्परिपृच्छ्ति । यथा सप्तगणोप्येकः प्राधान्येनाधिको रविः ॥ ६ ॥ सर्वशक्तिः परा विष्णर्ऋग्यजुःसामसंज्ञिता । सैषात्रयी तपत्यंहो जगतश्च हिनस्ति या ॥ ७ ॥ सैष विष्णुः स्थितः स्थित्यां जगतः पालनोद्यतः । ऋग्यजुः सामभूतोन्तः सवितुर्द्विजतिष्ठति ॥ ८ ॥ मासि मासि रविर्योयस्तत्र तत्र हि सा परा । त्रयीमयी विष्णुशक्तिरवस्थानं करोति वै ॥ ९ ॥ ऋचः स्तुवन्तिः पूर्वाह्ने मध्याह्नेऽथ यजूंषि वै । बृहद्रथन्तरादीनि सामान्यह्नः क्षये रविम् ॥ १० ॥ अङ्गमेषा त्रयी विष्णोर्ऋग्यजुः सामसंज्ञिता । विष्णुशक्तिरवस्थानं सदादित्ये करोति सा ॥ ११ ॥ न केवलं रवेः शक्तिर्वैष्णवी सा त्रयीमयी । ब्रह्माथ पुरुषो रुद्रस्त्रयमेतत्त्रयीमयम् ॥ १२ ॥ सर्गादौ ऋङ्मयो ब्रह्मा स्थितौ विष्णुर्यजुर्मयः । रुद्रः साममयोऽन्ताय तस्मात्तस्याशुचिर्ध्वनिः ॥ १३ ॥ एवं सा सात्त्विकी शक्तिर्वैष्णवी या त्रयीमयी । आत्मसप्तगणस्थं तं भास्वन्तमधितिष्ठति ॥ १४ ॥ तया चाधिष्ठितः सोऽपि जाज्वलीति स्वरश्मिभिः । तमः समस्तजगतां नाशं नयति चाखिलम् ॥ १५ ॥ स्तुवन्ति चैनं मुनयो गन्धर्वैर्गीयते पुरः । नृत्यन्त्योऽप्सरसो यान्ति तस्य चानु निशाचराः ॥ १६ ॥ वहन्ति पन्नगा यक्षैः क्रियतेऽभीषुसङ्ग्रहः । वालखिल्यास्तथैवैनं परिवार्य समासते ॥ १७ ॥ नोदेता नास्तमेता च कदाचिच्छक्तिरूपधृक् । विष्णुर्विष्णोः पृथक् तस्य गणस्सप्तविधोऽप्ययम् ॥ १८ ॥ स्तम्भस्थदर्पणस्येव योऽयमासन्नतां गतः । छायादर्शनसंयोगं स तं प्राप्नोत्यथात्मनः ॥ १९ ॥ एवं सा वैष्णवी शक्तिर्नैवापैति ततो द्विज । मासानुमासं भास्वन्तमध्यास्ते तत्र संस्थितम् ॥ २० ॥ पितृदेवमनुष्यादीन्स सदाप्याययन्प्रभुः । परिवर्तत्यहोरात्रकारणं सविता द्विज ॥ २१ ॥ सूर्यरश्मिः सुषुम्णा यस्तर्पितस्तेन चन्द्रमाः । कृष्णपक्षेऽमरैः शश्वत्पीयते वै सुधामयः ॥ २२ ॥ पीतं तं द्विकलं सोमं कृष्णपक्षक्षये द्विज । पिबन्ति पितरस्तेषां भास्करात्तर्पण तथा ॥ २३ ॥ आदत्ते रश्मिभिर्यन्तु क्षितिसंस्थं रसं रविः । तमुत्सृजति भूतानां पुष्ट्यर्थं सस्यवृद्धये ॥ २४ ॥ तेन प्रीणात्यशेषाणि भूतानि भगवान् रविः । पितृदेवमनुष्यादीनेवमाप्याययत्यसौ ॥ २५ ॥ पक्षतृप्तिं तु देवानां पितॄणां चैव मासिकीम् । शश्वत्तृप्तिं च मर्त्यानां मैत्रेयार्कः प्रयच्छति ॥ २६ ॥ इति श्रीविष्णुमहापुराणे द्वितीयेंश एकादशोऽध्यायः (११) |