सत्संगधारा - विष्णुपुराण - प्रथमः अंशः - एकादशोऽध्यायः



॥ विष्णुपुराणम् ॥

प्रथमः अंशः

॥ एकादशोऽध्यायः ॥

पराशर उवाचः
प्रियव्रतोत्तानपादौ मनोः स्वायम्भुवस्य तु ।
द्वौ पुत्रौ सुमहावीर्यौ धर्मज्ञौ कथितौ तव ॥ १ ॥
तयोरुत्तानपादस्य सुरुच्यामुत्तमः सुतः ।
अभीष्टायामभूद्‌ब्रह्मन्पितुरत्यन्तवल्लभः ॥ २ ॥
सुनीतिर्नाम या राज्ञस्तस्याभून्महिषी द्विज ।
स नातिप्रीतिमांस्तस्यामभूद्यस्या ध्रुवः सुतः ॥ ३ ॥
राजासनस्थितस्याङ्‌कं पितुर्भ्रातरमाश्रितम् ।
दृष्ट‍्वोत्तमं ध्रुवश्चक्रे तमारोढुं मनोरथम् ॥ ४ ॥
प्रत्यक्षं भूपतिस्तस्याः सुरुच्या नाभ्यनन्दत ।
प्रणयेनागतं पुत्रमुत्सङ्‌गारोहणोत्सुकम् ॥ ५ ॥
सपत्नीतनयं दृष्ट्‍वा तमङ्‌कारोहणोत्सुकम् ।
स्वपुत्रं च तथारूढं सुरुचिर्वाक्यमब्रवीत् ॥ ६ ॥
क्रियते किं वृथा वत्स महानेष मनोरथः ।
अन्यस्त्रीगर्भजातेन असम्भूय ममोदरे ।
उत्तमोत्तममप्राप्यमविवेको हि वाञ्छसि ॥ ७ ॥
सत्यं सुतस्त्वमप्यस्य किन्तु न त्वं मया धृतः ॥ ८ ॥
एतद्‌राजासनं सर्वभूभृत्संश्रयकेतनम् ।
योग्यं ममैव पुत्रस्य किमात्मा क्लिश्यते त्वया ॥ ९ ॥
उच्चैर्मनोरथस्तेऽयं मत्पुत्रस्येव किं वृथा ।
सुनीत्यामात्मनो जन्म किं त्वया नावगम्यते ॥ १० ॥
पराशर उवाचः
उत्सृज्य पितरं बालस्तच्छ्रुत्वा मातृभाषितम् ।
जगाम कुपितो मातुर्निजाया द्विज मन्दिरम् ॥ ११ ॥
तं दृष्ट्‍वा कुपितं पुत्रमीषत्प्रस्फुरिताधरम् ।
सुनीतिरङ्‌कमारोप्य मैत्रेयैतदभाषत ॥ १२ ॥
सुनीतिरुवाचः
वत्स कः कोपहेतुस्ते कश्च त्वां नाभिनन्दति ।
कोऽवजानाति पितरं तव यस्तेऽपराध्यति ॥ १३ ॥
पराशर उवाचः
इत्युक्तः सकलं मात्रे कथयामास तद्‌यथा ।
सुरुचिः प्राह भूपालप्रत्यक्षमतिगर्विता ॥ १४ ॥
निःश्वस्य सेति कथिते तस्मिन् पुत्रेण दुर्मनाः ।
श्वासक्षामेक्षणा दीना सुनीतिर्वाक्यमब्रवीत् ॥ १५ ॥
सुनीतिरुवाचः
सुरुचिः सत्यमाहेदं स्वल्पभाग्योऽसि पुत्रक ।
न हि पुण्यवतां वत्स सपत्नैरेवमुच्यते ॥ १६ ॥
नोद्वेगस्तात कर्तव्यः कृतं यद्‌भवता पुरा ।
तत्कोऽपहर्तुं शक्नोति दातुं कश्चाकृतं त्वया ॥ १७ ॥
तत्त्वया नात्र कर्तव्यं दुःखं तद्वाक्यसम्भवम् ॥ १८ ॥
राजासनं तथा छत्रं वराश्ववरवारणाः ।
यस्य पुण्यानि तस्यैव मत्वैतच्छाम्य पुत्रक ॥ १९ ॥
अन्यजन्मकृतैः पुण्यैः सुरुच्यां सुरुचिर्नृपः ।
भार्येति प्रोच्यते चान्या मद्विधा पुण्यवर्जिता ॥ २० ॥
पुण्योपचयसम्पन्नस्तस्याः पुत्रस्तथोत्तमः ।
मम पुत्रस्तथा जातः स्वल्पपुण्यो ध्रुवो भवान् ॥ २१ ॥
तथापि दुःखं न भवान् कर्तुमर्हति पुत्रक ।
यस्य यावत्स तेनैव स्वेन तुष्यति बुद्धिमान् ॥ २२ ॥
यदि ते दुःखमत्यर्थं सुरुच्या वचसाभवत् ।
तत्पुण्योपचये यत्नं कुरु सर्वफलप्रदे ॥ २३ ॥
सुशीलो भव धर्मात्मा मैत्रः प्राणिहिते रतः ।
निम्नं यथापः प्रवणाः पात्रमायान्ति सम्पदः ॥ २४ ॥
ध्रुव उवाचः
अम्ब यत्त्वमिदं प्राह प्रशमाय वचो मम ।
नैतद्‌दुर्वचसा भिन्ने हृदये मम तिष्ठति ॥ २५ ॥
सोऽहं तथा यतिष्यामि यथा सर्वोत्तमोत्तमम् ।
स्थानं प्राप्स्याम्यशेषाणां जगतामभिपूजितम् ॥ २६ ॥
सुरुचिर्दयिता राज्ञस्तस्या जातोऽस्मि नोदरात् ।
प्रभावं पश्य मेऽम्ब त्वं धृतस्यापि तवोदरे ॥ २७ ॥
उत्तमः स मम भ्राता यो गर्भेण धृतस्तया ।
स राजासनमाप्नोतु पित्रा दत्तं तथास्तु तत् ॥ २८ ॥
नान्यदत्तमभीप्स्यामि स्थानमम्ब स्वकर्मणा ।
इच्छामि तदहं स्थानं यन्न प्राप पिता मम ॥ २९ ॥
पराशर उवाच
निर्जगाम गृहान्मातुरित्युक्त्वा मातरं ध्रुवः ।
पुराच्च निर्गम्य ततस्तद्‌बाह्योपवनं ययौ ॥ ३० ॥
स ददर्श मुनींस्तत्र सप्त पूर्वागतान् ध्रुवः ।
कृष्णाजिनोत्तरीयेषु विष्टरेषु समास्थितान् ॥ ३१ ॥
स राजपुत्रस्तान्सर्वान्प्रणिपत्याभ्यभाषत ।
प्रश्रयावनतः सम्यगभिवादनपूर्वकम् ॥ ३२ ॥
ध्रुव उवाच
उत्तानपादतनयं मां निबोधत सत्तमाः ।
जातं सुनीत्यां निर्वेदाद्‌युष्माकं प्राप्तमन्तिकम् ॥ ३३ ॥
ऋषय ऊचुः
चतुःपञ्चाब्दसम्भूतो बालस्त्वं नृपनन्दन ।
निर्वेदकारणं किञ्चित्तव नाद्यापि वर्तते ॥ ३४ ॥
न चिन्त्यं भवतः किञ्चिद्‌ध्रियते भूपतिः पिता ।
न चैवेष्टवियोगादि तव पश्याम बालक ॥ ३५ ॥
शरीरे न च ते व्याधिरस्माभिरुपलक्ष्यते ।
निर्वेदः किंनिमित्तस्ते कथ्यतां यदि विद्यते ॥ ३६ ॥
पराशर उवाच
ततः स कथयामास सुरुच्या यदुदाहृतम् ।
तन्निशम्य ततः प्रोचुर्मुनयस्ते परस्परम् ॥ ३७ ॥
अहो क्षात्रं परं तेजो बालस्यापि यदक्षमा ।
सपत्न्या मातुरुक्तं यद् हृदयान्नापसर्पति ॥ ३८ ॥
भो भोः क्षत्रियदायाद निर्वेदाद्‌यत्त्वयाधुना ।
कर्तुं व्यवसितं तन्नः कथ्यतां यदि रोचते ॥ ३९ ॥
यच्च कार्यं तवास्माभिः साहाय्यममितद्युते ।
तदुच्यतां विवक्षुस्त्वमस्माभिरुपलक्ष्यसे ॥ ४० ॥
ध्रुव उवाच
नाहमर्थमभीप्सामि न राज्यं द्विजसत्तमाः ।
तत् स्थानमेकमिच्छामि भुक्तं नान्येन यत्पुरा ॥ ४१ ॥
एतन्मे क्रियतां सम्यक् कथ्यतां प्राप्यते यथा ।
स्थानमग्र्यं समस्तेभ्यः स्थानेभ्यो मुनिसत्तमाः ॥ ४२ ॥
मरीचिरुवाच
अनाराधितगोविन्दैर्नरैः स्थानं नृपात्मज ।
न हि सम्प्राप्यते श्रेष्ठं तस्मादाराधयाच्युतम् ॥ ४३ ॥
अत्रिरुवाच
परः पराणां पुरुषो यस्य तुष्टो जनार्दनः ।
स प्राप्नोत्यक्षयं स्थानमेतत् सत्यं मयोदितम् ॥ ४४ ॥
अङ्‌गिरा उवाच
यस्यान्तः सर्वमेवेदमच्युतस्याव्ययात्मनः ।
तमाराधय गोविन्दं स्थानमग्र्यं यदीच्छसि ॥ ४५ ॥
पुलस्त्य उवाच
परं ब्रह्म परं धाम योऽसौ ब्रह्म तथा परम् ।
तमाराध्य हरिं याति मुक्तिमप्यतिदुर्लभाम् ॥ ४६ ॥
पुलह उवाच
ऐन्द्रमिन्द्रः परं स्थानं यमाराध्य जगत्पतिम् ।
प्राप यज्ञपतिं विष्णुं तमाराधय सुव्रत ॥ ४७ ॥
क्रतुरुवाच
यो यज्ञपुरुषो यज्ञे योगेशः परमः पुमान् ।
तस्मिंस्तुष्टे यदप्राप्यं किं तदस्ति जनार्दने ॥ ४८ ॥
वसिष्ठ उवाच
प्राप्नोष्याराधिते विष्णौ मनसा यद्‌यदिच्छसि ।
त्रैलोक्यान्तर्गतं स्थानं किमु वत्सोत्तमोत्तमम् ॥ ४९ ॥
ध्रुव उवाच
आराध्यः कथितो देवो भवद्‌भिः प्रणतस्य मे ।
मया तत्परितोषाय यज्जप्तव्यं तदुच्यताम् ॥ ५० ॥
यथा चाराधनं तस्य मया कार्यं महात्मनः ।
प्रसादसुमुखास्तन्मे कथयन्तु महर्षयः ॥ ५१ ॥
ऋषय ऊचुः
राजपुत्र यथा विष्णोराराधनपरैर्नरैः ।
कार्यमाराधनं तन्नो यथावच्छ्रोतुमर्हसि ॥ ५२ ॥
बाह्यार्थादखिलाच्चित्तं त्याजयेत्प्रथमं नरः ।
तस्मिन्नेव जगद्धाम्नि ततः कुर्वीत निश्चलम् ॥ ५३ ॥
एवमेकाग्रचित्तेन तन्मयेन धृतात्मना ।
जप्तव्यं यन्निबोधैतत्तन्नः पार्थिवनन्दन ॥ ५४ ॥
हिरण्यगर्भपुरुषप्रधानव्यक्तरूपिणे ।
ॐ नमो वासुदेवाय शुद्धज्ञानस्वभाविने ॥ ५५ ॥
एतज्जजाप भगवान् जप्यं स्वायम्भुवो मनुः ।
पितामहस्तव पुरा तस्य तुष्टो जनार्दनः ॥ ५६ ॥
ददौ यथाभिलषितां सिद्धिं त्रैलोक्यदुर्लभाम् ।
तथा त्वमपि गोविन्दं तोषयैतत्सदा जपन् ॥ ५७ ॥
इति श्रीविष्णुपुराणे प्रथमेंऽशे एकादशोऽध्यायः



GO TOP