शुक्ल यजुर्वेदः - एकविंशोऽध्यायः

शुक्ल यजुर्वेदः - एकविंशोऽध्यायः



इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युरा चके ॥ १ ॥ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशँस मा नऽ आयुः प्र मोषीः ॥ २ ॥ त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेडोऽ अव यासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाँसि प्र मुमुग्ध्यस्मत् ॥ ३ ॥ स त्वं नोऽ अग्नेऽवमो भवोती नेदिष्ठोऽ अस्याऽ उषसो व्युष्टौ । अव यक्ष्व नो वरुणँ रराणो वीहि मृडीकँ सुहवो नऽ एधि ॥ ४ ॥ महीमू षु मातरँ सुव्रतानामृतस्य पत्नीमवसे हुवेम । तुविक्षत्रामजरन्तीमुरूचीँ सुशर्माणमदितिँ सुप्रणीतिम् ॥ ५ ॥ सुत्रामाणं पृथिवीं द्यामनेहसँ सुशर्माणमदितिँ सुप्रणीतिम् । दैवीं नावँ स्वरित्रामनागसमस्रवन्तीमा रुहेमा स्वस्तये ॥ ६ ॥ सुनावमा रुहेयमस्रवन्तीमनागसम् । शतारित्राँ स्वस्तये ॥ ७ ॥ आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् । मध्वा रजाँसि सुक्रतू ॥ ८ ॥ प्र वाहवा सिसृतं जीवसे नऽ आ नो गव्यूतिमुक्षतं घृतेन । आ मा जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा ॥ ९ ॥ शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः । जम्भयन्तोऽहिं वृकँ रक्षाँसि सनेम्यस्मद्युयवन्नमिवाः ॥ १० ॥ वाजे-वाजेऽवत वाजिनो नो धनेषु विप्राऽ अमृताऽ ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः ॥ ११ ॥ समिद्धोऽ अग्निः समिधा सुसमिद्धो वरेण्यः । गायत्री छन्दऽ इन्द्रियं त्र्यविर्गौर्वयो दधुः ॥ १२ ॥ तनूनपाच्छुचिव्रतस्तनूपाश्च सरस्वती । उष्णिहा छन्दऽ इन्द्रियं दित्यवाङ्‍गौर्वयो दधुः ॥ १३ ॥ इडाभिरग्निरीड्यः सोनो देवोऽ अमर्त्यः । अनुष्टुप् छन्दऽ इन्द्रियं पञ्चाविर्गौर्वयो दधुः ॥ १४ ॥ सुबर्हिरग्निः पूषण्वान्त्स्तीर्णबर्हिरमर्त्यः । बृहती छन्दऽ इन्द्रियं त्रिवत्सो गौर्वयो दधुः ॥ १५ ॥ दुरो देवीर्दिशो महीर्ब्रह्मा देवो बृहस्पतिः । पङ्‍क्तिश्छन्दऽ इहेन्द्रियं तुर्यवाङ्गौर्वयो दधुः ॥ १६ ॥ उषे यह्वी सुपेशसा विश्वे देवाऽ अमर्त्याः । त्रिष्टुप् धन्दऽ इहेन्द्रियं पष्ठवाड् गौर्वयो दधुः ॥ १७ ॥ दैव्या होतारा भिषजेन्द्रेण सयुजा युजा । जगती छन्दऽ इन्द्रियमनड्वान् गौर्वयो दधुः ॥ १८ ॥ तिस्रऽ इडा सरस्वती भारती मरुतो विशः । विराट् धन्दऽ इहेन्द्रियं धेनुर्गौर्न वयो दधुः ॥ १९ ॥ त्वष्टा तुरिपोऽ अद्‍भुतऽ इन्द्राग्नी पुष्टिवर्धना । द्विपदा छन्दऽ इन्द्रियमुक्षा गौर्न वयो दधुः ॥ २० ॥ शमिता नो वनस्पतिः सविता प्रसुवन् भगम् । ककुप् छन्दऽ इहेन्द्रियं वशा वेहद्वयो दधुः ॥ २१ ॥ स्वाहा यज्ञं वरुणः सुक्षत्रो भेषजं करत् । अतिश्छन्दाऽ इन्द्रियं बृहदृषभो गौर्वयो दधुः ॥ २२ ॥ वसन्तेनऽ ऋतुना देवा वसवस्त्रिवृता स्तुताः । रथन्तरेण तेजसा हविरिन्द्रे वयो दधुः ॥ २३ ॥ ग्रीष्मेणऽ ऋतुना देवा रुद्राः पञ्चदशे स्तुताः । बृहता यशसा बलँ हविरिन्द्रे वयो दधुः ॥ २४ ॥ वर्षाभिर्‍ऋतुनादित्या स्तोमे सप्तदशे स्तुताः । वैरूपेण विशौजसा हविरिन्द्रे वयो दधुः ॥ २५ ॥ शारदेन ऋतुना देवाऽ एकविँशऽ ऋभव स्तुताः । वैराजेन श्रिया श्रियँ हविरिन्द्रे वयो दधुः ॥ २६ ॥ हेमन्तेनऽ ऋतुना देवास्त्रिणवे मरुत स्तुताः । बलेन शक्वरीः सहो हविरिन्द्रे वयो दधुः ॥ २७ ॥ शैशिरेणऽ ऋतुना देवास्त्रयस्त्रिँशेऽमृता स्तुताः । सत्येन रेवतीः क्षत्रँ हविरिन्द्रे वयो दधुः ॥ २८ ॥ होता यक्षत्समिधाग्निमिडस्पदेऽश्विनेन्द्रँ सरस्वतीमजो धूम्रो न गोधूमैः कुवलैर्भेषजं मधु शष्पैर्न तेजऽ इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्वाज्यस्य होतर्यज ॥ २९ ॥ होता यक्षत्तनूनपात्सरस्वतीमविर्मेषो न भेषजं पथा मधुमता भरन्नश्विनेन्द्राय वीर्यं बदरैरुपवाकाभिर्भेषजं तोक्मभिः पयः सोमः परिस्रुता घृतं मधु व्यन्त्वाज्यस्य होतर्यज ॥ ३० ॥ होता यक्षन्नराशँसं न नग्नहुं पतिँ सुरया भेषजं मेषः सरस्वती भिषग्रथो न चंद्र्यश्विनोर्वपाऽ इन्द्रस्य वीर्यं बदरैरुपवाकाभिर्भेषजं तोक्मभिः पयः सोमः परिस्रुता घृतं मधु व्यन्त्वाज्यस्य होतर्यज ॥ ३१ ॥ होता यक्षदिडेडितऽ आजुह्वानः सरस्वतीमिन्द्रं बलेन वर्धयन्नुषभेण गवेन्द्रियमश्विनेन्द्राय भेषजं यवैः कर्कन्धुभिर्मधु लाजैर्न मासरं पयः सोमः परिस्रुता घृतं मधु व्यन्त्वाज्यस्य होतर्यज ॥ ३२ ॥ होता यक्षद् बर्हिरूर्णम्रदा भिषङ्‍ नासत्या भिषजाश्विनाश्वा शिशुमती भिषग्धेनुः सरस्वती भिषग्दुहऽ इन्द्राय भेषजं पयः सोमः परिस्रुता घृतं मधु व्यन्त्वाज्यस्य होतर्यज ॥ ३३ ॥ होता यक्षद्दुरो दिशः कवष्यो न व्यचस्वतीरश्विभ्यां न दुरो दिशऽ इन्द्रो न रोदसी दुधे दुहे धेनुः सरस्वत्यश्विनेन्द्राय भेषजँ शुक्रं न ज्योतिरिन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्वाज्यस्य होतर्यज ॥ ३४ ॥ होता यक्षत्सुपेशसोषे नक्तं दिवाश्विना समञ्जाते सरस्वत्या त्विषिमिद्रे न भेषजँ श्येनो न रजसा हृदा श्रिया न मासरं पयः सोमः परिस्रुता घृतं मधु व्यन्त्वाज्यस्य होतर्यज ॥ ३५ ॥ होता यक्षद्दैव्या होतारा भिषजाश्विनेन्द्रं न जागृवि दिवा नक्तं न भेषजैः शूषँ सरस्वती भिषक् सीसेन दुहऽ इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्वाज्यस्य होतर्यज ॥ ३६ ॥ होता यक्षत्तिस्रो देवीर्न भेषजं त्रयस्त्रिधातवोऽपसो रूपमिन्द्रे हिरण्यमश्विनेडा न भारती वाचा सरस्वती महऽ इन्द्राय दुहऽ इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्वाज्यस्य होतर्यज ॥ ३७ ॥ होता यक्षत् सुरेतसमृषभं नर्यापसं त्वष्टारमिन्द्रमश्विना भिषजं न सरस्वतीमोजो न जूतिरिन्द्रियं वृको न रसभो भिषग् यशः सुरया भेषजँ श्रिया न मासरं पयः सोमः परिस्रुता घृतं मधु व्यन्त्वाज्यस्य होतर्यज ॥ ३८ ॥ होता यक्षद्वनस्पतिँ शमितारँ शतक्रतुं भीमं न मन्युँ राजानं व्याघ्रं नमसाश्विना भामँ सरस्वती भिषगिन्द्राय दुहऽ इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्वाज्यस्य होतर्यज ॥ ३९ ॥ होता यक्षदग्निँ स्वाहाज्यस्य स्तोकानाँ स्वाहा मेदसां पृथक् स्वाहा छागमश्विभ्याँ स्वाहा मेषँ सरस्वत्यै स्वाहऽ ऋषभमिन्द्राय सिँहाय सहसऽ इन्द्रियँ स्वाहाग्निं न भेषजँ स्वाहा सोममिन्द्रियँ स्वाहेन्द्रँ सुत्रामाणँ सवितारं वरुणं भिषजां पतिँ स्वाहा वनस्पतिं प्रियं पाथो न भेषजँ स्वाहा देवाऽ आज्यपा जुषाणोऽ अग्निर्भेषजं पयः सोमः परिस्रुता घृतं मधु व्यन्त्वाज्यस्य होतर्यज ॥ ४० ॥ होता यक्षदश्विनौ छागस्य वपाया मेदसो जुषेताँ हविर्होतर्यज । होता यक्षत्सरस्वतीं मेषस्य वपाया मेदसो जुषताँ हविर्होर्तयज । होता यक्षदिन्द्रमृषभस्य वपाया मेदसो जुषताँ हविर्होतर्यज ॥ ४१ ॥ होता यक्षदश्विनौ सरस्वतीमिन्द्रँ सुत्रामाणमिमे सोमाः सुरामाणश्छागैर्न मेषैर्‍ऋषभैः सुताः शष्पैर्न तोक्मभिर्लाजैर्महस्वन्तो मदा मासरेण परिष्कृताः शुक्राः पयस्वन्तोऽमृताः प्रस्थिता वो मधुश्चुतस्तानश्विना सरस्वतीन्द्रः सुत्रामा वृत्रहा जुषन्ताँ सोम्यं मधु पिबन्तु मदन्तु व्यन्तु होतर्यज ॥ ४२ ॥ होता यक्षदश्विनौ छागस्य हविषऽ आत्तामद्य मध्यतो मेदऽ उद्‍भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घस्तां नूनं घासेऽ अज्राणां यवसप्रथमानाँ सुमत्क्षराणाँ शतरुद्रियाणामग्निष्वात्तानां पीबोपवसनानां पार्श्वतः श्रोणितः शितामतऽ उत्सादतोऽङ्‍गादङ्‍गादवत्तानां करतऽ एवाश्विना जुषेताँ हविर्होतर्यज ॥ ४३ ॥ होता यक्षत् सरस्वतीं मेषस्य हविषऽ आवयदद्य मध्यतो मेदऽ उद्‍भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घसन्नूनं घासेऽ अज्राणां यवसप्रथमानाँ सुमत्क्षराणाँ शरुद्रियाणामग्निष्वात्तानां पीवोपवसनानां पार्श्वतः श्रोणितः शितामतऽ उत्सादतोऽङ्‍गादङ्‍गादवत्तानां करदेवँ सरस्वती जुषताँ हविर्होतर्यज ॥ ४४ ॥ होता यक्षदिन्द्रमृषभस्य हविषऽ आवयदद्य मध्यतो मेदऽ उद्‍भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घसन्नूनं घासेऽ अज्राणां यवसप्रथमानाँ सुमत्क्षराणाँ शतरुद्रियाणामग्निष्वात्तानां पीवोपवसनानां पार्श्वतः श्रोणितः शितामत उत्सादतोऽङ्‍गादङ्‍गादवत्तानां करदेवमिद्रो जुषताँ हविर्होतर्यज ॥ ४५ ॥ होता यक्षद्वनस्पतिमभि हि पिष्टतमया रभिष्ठया रशनयाधित । यत्राश्विनोश्छागस्य हविषः प्रिया धामानि यत्र सरस्वत्या मेषस्य हविषः प्रिया धामानि यत्रेन्द्रस्यऽ ऋषभस्य हविषः प्रिया धामानि यत्राग्नेः प्रिया धामानि यत्र सोमस्य प्रिया धामानि यत्रेन्द्रस्य सुत्राम्णः प्रिया धामानि यत्र सवितुः प्रिया धामानि यत्र वरुणस्य प्रिया धामानि यत्र वनस्पतेः प्रिया पाथाँसि यत्र देवानामाज्यपानां प्रिया धामानि यत्राग्नेर्होतुः प्रिया धामानि तत्रैतान्प्रस्तुत्येवोपस्तुत्येवोपावस्रक्षद्रभीयसऽ इव कृत्वी करदेवं देवो वनस्पतिर्जुषताँ हविर्होतर्यज ॥ ४६ ॥ होता यक्षदग्निँ स्विष्टकृतमयाडग्निरश्विनोश्छागस्य हविषः प्रिया धामान्ययाट्सरस्वत्या मेषस्य हविषः प्रिया धामान्ययाडिन्द्रस्यऽ ऋषभस्य हविषः प्रिया धामान्ययाडग्नेः प्रिया धामान्ययाट् सोमस्य प्रिया धामान्ययाडिन्द्रस्य सुत्राम्णः प्रिया धामान्ययाट् सवितुः प्रिया धामान्ययाड् वरुणस्य प्रिया धामान्ययाड् वनस्पतेः प्रिया पाथाँस्ययाड् देवानामाज्यपानां प्रिया धामानि यक्षदग्नेर्होतुः प्रिया धामानि यक्षत् स्वं महिमानमायजतामेज्याऽ इषः कृणोतु सोऽ अध्वरा जातवेदा जुषताँ हविर्होतर्यज ॥ ४७ ॥ देवं बर्हिः सरस्वति सुदेवमिन्द्रेऽ अश्विना । तेजो न चसुरक्ष्योर्बर्हिषा दधुरिन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥ ४८ ॥ देवीर्द्वारोऽ अश्विना भिषजेन्द्रे सरस्वती । प्राणं न वीर्यं नसि द्वारो दधुरिन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥ ४९ ॥ देवीऽ उषासावश्विना सुत्रामेन्द्रे सरस्वती । बलं न वाचमास्यऽ उषाभ्यां दधुरिन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥ ५० ॥ देवी जोष्ट्री सरस्वत्यश्विनेन्द्रमवर्धयन् । श्रोत्रं न कर्णयोर्यशो जोष्ट्रीभ्यां दधुरिन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज्ञ ॥ ५१ ॥ देवीऽ ऊर्जाहुती दुघे सुदुघेन्द्रे सरस्वत्यश्विना भिषजावतः । शुक्रं न ज्योति स्तनयोराहुती धत्तऽ इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥ ५२ ॥ देवा देवानां भिषजा होताराविन्द्रमश्विना । वषट्कारैः सरस्वती त्विषिं न हृदये मतिँ होतृभ्यां दधुरिन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥ ५३ ॥ देवीस्तिस्रस्तिस्रो देवीरश्विनेडा सरस्वती । शूषं न मध्ये नाभ्यामिन्द्राय दधुरिन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥ ५४ ॥ देवऽ इन्द्रो नराशँसस्त्रिवरूथः सरस्वत्यश्विभ्यामीयते रथः । रेतो न रूपममृतं जनित्रमिन्द्राय त्वष्टा दधदिन्द्रियाणि वसुवने वसुधेयस्य व्यन्तु यज ॥ ५५ ॥ देवो देवैर्वनस्पतिर्हिरण्यपर्णोऽ अश्विभ्याँ सरस्वत्या सुपिप्पलऽ इन्द्राय पच्यते मधु । ओजो न जूतिर्‍ऋषभो न भामं वनस्पतिर्नो दधदिन्द्रियाणि वसुवने वसुधेयस्य व्यन्तु यज ॥ ५६ ॥ देवं बर्हिर्वारितीनामध्वरे स्तीर्णमश्विभ्यामूर्णम्रदाः सरस्वत्या स्योनमिन्द्र ते सदः । ईशायै मन्युँ राजानं बर्हिषा दधुरिन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥ ५७ ॥ देवोऽ अग्निः स्विष्टकृद्देवान्यक्षद्यथायथँ होताराविन्द्रमश्विना वाचा वाचँ सरस्वतीमग्निँ सोमँ स्विष्टकृत् स्विष्टऽ इन्द्रः सुत्रामा सविता वरुणो भिषगिष्टो देवो वनस्पतिः स्विष्टा देवाऽ आज्यपाः स्विष्टोऽ अग्निरग्निना होता होत्रे स्विष्टकृद्यशो न दधदिन्द्रियमूर्जपचितिँ स्वधां वसुवने वसुधेयस्य व्यन्तु यज्ञ ॥ ५८ ॥ अग्निमद्य होतारमवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशान् बध्नन्नश्विभ्यां छागँ सरस्वत्यै मेषमिन्द्रायऽ ऋषभं सुन्वन्नश्विभ्याँ सरस्वत्याऽ इन्द्राय सुत्राम्णे सुरासोमान् ॥ ५९ ॥ सूपस्थाऽ अद्य देवो वनस्पतिरभवदश्विभ्यां छागेन सरस्वत्यै मेषेणेन्द्रायऽ ऋषभेणाक्षँस्तान् मेदस्तः प्रति पचतागृभीषतावीवृधन्त पुरोडाशैरपुरश्विना सरस्वतीन्द्रः सुत्रामा सुरासोमान् ॥ ६० ॥ त्वामद्यऽ ऋषऽ आर्षेयऽ ऋषीणां नपादवृणीतायं यजमानो बहुभ्यऽ आ सङ्‍गतेभ्यऽ एष मे देवेषु वसु वार्यायक्ष्यतऽ इति ता या देवा देव दानान्यदुस्तान्यस्माऽ आ च शास्वा च गुरस्वेषितश्च होतरसि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि ॥ ६१ ॥ ॥ इति एकविंशोऽध्यायः ॥


ॐ तत् सत्



GO TOP