|
शुक्ल यजुर्वेदः - विंशोऽध्यायः
क्षत्रस्य योनिरसि क्षत्रस्य नाभिरसि । मा त्वा हिँसीन्मा मा हिँसीः ॥ १ ॥
निषसाद धृतव्रतो वरुणः पस्त्यास्वा । साम्राज्याय सुक्रतुः । मृत्योः पाहि विद्योत्पाहि ॥ २ ॥
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् ।
अश्विनोर्भैषज्येन तेजसे ब्रहवर्चसायाभि पिञ्चामि सरस्वत्यै भैषज्येन
वीर्यायान्नाद्यायाभि षिञ्चामीन्द्रस्येन्द्रियेण बलाय श्रियै यशसेऽभि षिञ्चामि ॥ ३ ॥
कोऽसि कतमोऽसि कस्मै त्वा काय त्वा ।
सुश्लोक सुमङ्गल सत्यराजन् ॥ ४ ॥
शिरो मे श्रीर्यशो मुखं त्विषिः केशाश्च श्मश्रूणि ।
राजा मे प्राणोऽ अमृतँ सम्राट् चक्षुर्विराट् श्रोत्रम् ॥ ५ ॥
जिह्वा मे भद्रं वाङ् महो मनो मन्युः स्वराड् भामः ।
मोदाः प्रमोदाऽ अङ्गुलीरङ्गानि मित्रं मे सहः ॥ ६ ॥
बाहू मे बलमिन्द्रियँ हस्तौ मे कर्म वीर्यम् । आत्मा क्षत्रमुरो मम ॥ ७ ॥
पृष्ठिर्मे राष्ट्रमुदरमँसौ ग्रीवाश्च श्रोणी । ऊरूऽ अरत्नी जानुनी विशो मेऽङ्गानि सर्वतः ॥ ८ ॥
नाभिर्मे चित्तं विज्ञानं पायुर्मेऽपचितिर्भसत् ।
आनन्दनन्दावाण्डौ मे भगः सौभाग्यं पसः ।
जङ्घाभ्यां पद्भ्यां धर्मोऽस्मि विशि राजा प्रतिष्ठितः ॥ ९ ॥
प्रति क्षत्रे प्रति तिष्टामि राष्ट्रे प्रत्यश्वेषु प्रति तिष्ठामि गोषु ।
प्रत्यङ्गेषु प्रति तिष्ठाम्यात्मन् प्रति प्राणेषु प्रति तिष्ठामि पुष्टे प्रति द्यावापृथिव्योः प्रति तिष्टामि यज्ञे ॥ १० ॥
त्रया देवाऽ एकादश त्रयस्रिँशा सुराधसः ।
बृहस्पतिपुरोहिता देवस्य सवितुः सवे । देवा देवैरवन्तु मा ॥ ११ ॥
प्रथमा द्वितीयैर्द्वितीयास्तृतीयैस्तृतीयाः सत्येन सत्यं यज्ञेन यज्ञो यजुर्भिर्यजूँषि ।
सामभिः सामान्यृग्भिर्ऋचः पुरोऽनुवाक्याभिः पुरोऽनुवाक्या याज्याभिर्याज्या
वषट्कारैर्वषट्काराऽ आहुतिभिराहुतयो मे कामान्त्समर्धयन्तु भूः स्वाहा ॥ १२ ॥
लोमानि प्रयतिर्मम त्वङ् मऽ आनतिरागतिः ।
माँसं मऽ उपनतिर्वस्वस्थि मज्जा मऽ आनतिः ॥ १३ ॥
यद्देवा देवहेडनं देवासश्चकृमा वयम् ।
अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वँहसः ॥ १४ ॥
यदि दिवा यदि नक्तमेनाँसि चकृमा वयम् ।
वायुर्मा तस्मादेनसो विश्वान्मुञ्चत्वँहसः ॥ १५ ॥
यदि जाग्रद्यदि स्वप्नऽ एनाँसि चकृमा वयम् ।
सूर्यो मा तस्मादेनसो विश्वान्मुञ्चत्वँहसः ॥ १६ ॥
यद् ग्रामे यदरण्ये यत्सभायां यदिन्द्रिये ।
यच्छूद्रे यदर्ये यदेनश्चकृमा वयं यदेकस्याधि धर्मणि तस्यावयजनमसि ॥ १७ ॥
यदापोऽ अघ्न्याऽ इति वरुणेति शपामहे ततो वरुण नो मुञ्च ।
अवभृथ निचुम्पुण निचेरुरसि निचुम्पुणः ।
अव देवैर्देवकृतमेनोऽयक्ष्यव मर्त्यैमर्त्यकृतं पुरुराव्णो देव रिषस्पाहि ॥ १८ ॥
समुद्रे ते हृदयमप्स्वन्तः सं त्वा विशन्त्वोषधीरुतापः ।
सुमित्रिया नऽ आपऽ ओषधयः सन्तु दुर्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ॥ १९ ॥
द्रुपदादिव मुमुचानः स्विन्नः स्नातो मलादिव ।
पूतं पवित्रेणेवाज्यमापः शुन्धन्तु मैनसः ॥ २० ॥
उद्वयं तमसस्परि स्वः पश्यन्तऽ उत्तरम् ।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥ २१ ॥
अपोऽ अद्यान्वचारिषँ रसेन समसृक्ष्महि ।
पयस्वानग्नऽ आगमं तं मा सँ सृज वर्चसा प्रजया च धनेन च ॥ २२ ॥
एधोऽस्येधिषीमहि समिदसि तेजोऽसि तेजो मयि धेहि ।
समाववर्ति पृथिवी समुषाः समु सूर्यः । समु विश्वमिदं जगत् ।
वैश्वानरज्योतिर्भूयासं विभून्कामान्व्यश्नवै भूः स्वाहा ॥ २३ ॥
अभ्या दधामि समिधमग्ने व्रतपते त्वयि ।
व्रतं च श्रद्धां चोपैमीन्धे त्वा दीक्षितोऽ अहम् ॥ २४ ॥
यत्र ब्रह्म च क्षत्रं च सम्यञ्चौ चरतः सह ।
तँल्लोकं पुण्यं प्रज्ञेषं यत्र देवा सहाग्निना ॥ २५ ॥
यत्रेन्द्रश्च वायुश्च सम्यञ्चौ चरतः सह ।
तँल्लोकं पुण्यं प्रज्ञेषं यत्र सेदिर्न विद्यते ॥ २६ ॥
अँशुना ते अँशुः पृच्यतां परुषा परुः ।
गन्धस्ते सोममवतु मदाय रसोऽ अच्युतः ॥ २७ ॥
सिञ्चति परि षिञ्चन्त्युत्सिञ्चन्ति पुनन्ति च ।
सुरायै बभ्र्वै मदे किन्त्वो वदति किन्त्वः ॥ २८ ॥
धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् । इन्द्र प्रातर्जुषस्व नः ॥ २९ ॥
बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् ।
येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि ॥ ३० ॥
अध्वर्योऽ अद्रिभिः सुतँ सोमं पवित्रऽ आ नय । पुनाहीन्द्राय पातवे ॥ ३१ ॥
यो भूतानामधिपतिर्यस्मिँल्लोकाऽ अधि श्रिताः ।
यऽ ईशे महतो महाँस्तेन गृह्णामि त्वामहं मयि गृह्णामि त्वामहम् ॥ ३२ ॥
उपयामगृहीतोऽस्यश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णऽ
एष ते योनिरश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे ॥ ३३ ॥
प्राणपा मेऽ अपानपाश्चक्षुष्पाः श्रोत्रपाश्च मे ।
वाचो मे विश्वभेषजो मनसोऽसि विलायकः ॥ ३४ ॥
अश्विनकृतस्य ते सरस्वतिकृतस्येन्द्रेण सुत्राम्णा कृतस्य ।
उपहूतऽ उपहूतस्य भक्षयामि ॥ ३५ ॥
समिद्धऽ इन्द्रऽ उपसामनीके पुरोरुचा पूर्वकृद्वावृधानः ।
त्रिभिर्देवैस्त्रिँशता वज्रबाहुर्जघान वृत्रं वि दुरो ववार ॥ ३६ ॥
नराशँसः प्रति शूरो मिमानस्तनूनपात्प्रति यज्ञस्य धाम ।
गोभिर्वपावान्मधुना समञ्जन्हिरण्यैश्चन्द्री यजति प्रचेताः ॥ ३७ ॥
ईडितो देवैर्हरिवाँ २ऽ अभिष्टिराजुह्वानो हविषा शर्धमानः ।
पुरन्दरो गोत्रभिद्वज्रबाहुरा यातु यज्ञमुप नो जुषाणः ॥ ३८ ॥
जुषाणो बर्हिर्हरिवान्नऽ इन्द्रः प्राचिनँ सीदत्प्रदिशा पृथिव्याः ।
उरुप्रथाः प्रथमानँ स्योनमादित्यैरक्तं वसुभिः सजोषाः ॥ ३९ ॥
इन्द्रं दुरः कवष्यो धावमाना वृषाणं यन्तु जनयः सुपत्नीः ।
द्वारो देवीरभितो वि श्रयन्ताँ सुवीरा वीरं प्रथमाना महोभिः ॥ ४० ॥
उषासानक्ता बृहती बृहन्तं पयस्वती सुदुधे शूरमिन्द्रम् ।
तन्तुं ततं पेशसा संवयन्ती देवानां देवं यजतः सुरुक्मे ॥ ४१ ॥
दैव्या मिमाना मनुषः पुरुत्रा होताराविन्द्रं प्रथमा सुवाचा ।
मूर्धन्यज्ञस्य मधुना दधाना प्राचीनं ज्योतिर्हविषा वृधातः ॥ ४२ ॥
तिस्रो देवीर्हविषा वर्धमानाऽ इन्द्रं जुषाणा जनयो न पत्नीः ।
अच्छिन्नं तन्तुं पयसा सरस्वतीडा देवी भारती विश्वतूर्तिः ॥ ४३ ॥
त्वष्टा दधच्छुष्ममिन्द्राय वृष्णेऽपाकोऽचिष्टुर्यशसे पूरूणि ।
वृषा यजन्वृषणं भूरिरेता मूर्धन्यज्ञस्य समनक्तु देवान् ॥ ४४ ॥
वनस्पतिरवसृष्टो न पाशैस्त्मन्या समञ्छमिता न देवः ।
इन्द्रस्य हव्यैर्जठरं पृणानः स्वदाति यज्ञं मधुना घृतेन ॥ ४५ ॥
स्तोकानामिन्दुं प्रति शूरऽ इन्द्रो वृषायमाणो वृषभस्तुराषाट् ।
घृतप्रुषा मनसा मोदमानाः स्वाहा देवाऽ अमृता मादयन्ताम् ॥ ४६ ॥
आ यात्विन्द्रोऽवसऽ उप नऽ इह स्तुतः सधमादस्तु शूरः ।
वावृधानस्तविषीर्यस्य पूर्वीर्द्यौर्न क्षत्रमभिभूति पुष्यात् ॥ ४७ ॥
आ नऽ इन्द्रो दूरादा नऽ आसादभिष्टिकृदवसे यासदुग्रः ।
ओजिष्ठेभिर्नृपतिर्वज्रबाहुः सङ्गे समत्सु तुर्वणिः पृतन्यून् ॥ ४८ ॥
आ न इन्द्रो हरिभिर्यात्वच्छार्वाचीनोऽवसे राधसे च ।
तिष्ठाति वज्री मघवा विरप्शीमं यज्ञमनु नो वाजसातौ ॥ ४९ ॥
त्रातारमिद्रमवितारमिन्द्रँ हवे-हवे सुहवँ शूरमिन्द्रम् ।
ह्वयामि शक्रं पुरुहूतमिन्द्रँ स्वस्ति नो मघवा धात्विन्द्रः ॥ ५० ।
इन्द्रः सुत्रामा स्ववाँ २ऽ अवोभिः सुमृडीको भवतु विश्ववेदाः ।
बाधतां द्वेषो ऽ अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥ ५१ ॥
तस्य वयँ सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।
स सुत्रामा स्ववाँ २ऽ इन्द्रोऽ अस्मेऽ आराच्चिद् द्वेषः सनुतर्युयोतु ॥ ५२ ॥
आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः ।
मा त्वा के चिन्नि यमन्विं न पाशिनोऽति धन्वेव ताँ २ऽ इहि ॥ ५३ ॥
एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासोऽ अभ्यर्चन्त्यर्कैः ।
स न स्तुतो वीरवद्धातु गोमद्यूयं पात स्वस्तिभिः सदा नः ॥ ५४ ॥
समिद्धोऽ अग्निरश्विना तप्तो घर्मो विराट् सुतः ।
दुहे धेनुः सरस्वती सोमँ शुक्रमिहेन्द्रियम् ॥ ५५ ॥
तनूषा भिषजा सुतेऽश्विनोभा सरस्वती ।
मध्या रजाँसीन्द्रियमिन्द्राय पथिभिर्वहान् ॥ ५६ ॥
इन्द्रायेन्दुँ सरस्वती नराशँसेन नग्नहुम् ।
अधातामश्विना मधु भेषजं भिषजा सुते ॥ ५७ ॥
आजुह्वाना सरसवतीन्द्रायेन्द्रियाणि वीर्यम् ।
इडाभिरश्विनाविषँ समूर्जँ सँ रयिं दधुः ॥ ५८ ॥
अश्विना नमुचेः सुतँ सोमँ शुक्रं परिस्रुता ।
सरस्वती तमा भरद्बर्हिषेन्द्राय पातवे ॥ ५९ ॥
कवष्यो न व्यचस्वतीरश्विभ्यां न दुरो दिशः ।
इन्द्रो न रोदसीऽ उभे दुहे कामान्त्सरस्वती ॥ ६० ॥
उषासानक्तमश्विना दिवेन्द्रँ सायमिन्द्रियैः ।
सञ्जानाने सुपेशसा समञ्जाते सरस्वत्या ॥ ६१ ॥
पातं नोऽ अश्विना दिवा पाहि नक्तँ सरस्वति ।
दैव्या होतारा भिषजा पातमिन्द्रँ सचा सुते ॥ ६२ ॥
तिस्रस्त्रेधा सरस्वत्यश्विना भारतीडा ।
तीव्रं परिस्रुता सोममिन्द्राय सुषुवुर्मदम् ॥ ६३ ॥
अश्विना भेषजं मधु भेषजं नः सरस्वती ।
इन्द्रे त्वष्टा यशः श्रियँ रूपँ रूपमधुः सुते ॥ ६४ ॥
ऋतुथेन्द्रो वनस्पतिः शशमानः परिस्रुता ।
कीलालमश्विभ्यां मधु दुहे धेनुः सरस्वती ॥ ६५ ॥
गोभिर्न सोममश्विना मासरेण परिस्रुता ।
समधातँ सरस्वत्या स्वाहेन्द्रे सुतं मधु ॥ ६६ ॥
अश्विना हविरिन्द्रियं नमुचेर्धिया सरस्वती ।
आ शुक्रमासुराद्वसु मघमिन्द्राय जभ्रिरे ॥ ६७ ॥
यमश्विना सरस्वती हविषेन्द्रमवर्धयन् ।
स बिभेद बलं मघं नमुचावासुरे सचा ॥ ६८ ॥
तमिन्द्रं पशवः सचाश्विनोभा सरस्वती ।
दधानाऽ अभ्यनूषत हविषा यज्ञऽ इन्द्रियैः ॥ ६९ ॥
यऽ इन्द्रऽ इन्द्रियं दधुः सविता वरुणो भगः ।
स सुत्रामा हविष्पतिर्यजमानाय सश्चत ॥ ७० ॥
सविता वरुणो दधद्यजमानाय दाशुषे ।
आदत्त नमुचेर्वसु सुत्रामा बलमिन्द्रियम् ॥ ७१ ॥
वरुणः क्षत्रमिन्द्रियं भगेन सविता श्रियम् ।
सुत्रामा यशसा बलं दधाना यज्ञमाशत ॥ ७२ ॥
अश्विना गोभिरिन्द्रियमश्वेभिर्वीर्यं बलम् ।
हविषेन्द्रँ सरस्वति यजमानमवर्धयन् ॥ ७३ ॥
ता नासत्या सुपेशसा हीरण्यवर्तनी नरा ।
सरस्वती हविष्मतीन्द्र कर्मसु नोऽवत ॥ ७४ ॥
ता भिषजा सुकर्मणा सा सुदुधा सरस्वती ।
स वृत्रहा शतक्रतुरिन्द्राय दधुरिन्द्रियम् ॥ ७५ ॥
युवँ सुराममश्विना नमुचावासुरे सचा ।
विपिपानाः सरस्वतीन्द्रं कर्मस्वावत ॥ ७६ ॥
पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दँसनाभिः ।
यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्नभिष्णक् ॥ ७७ ॥
यस्मिन्नश्वासऽ ऋषभासऽ उक्षणो वशा मेषाऽ अवसृष्टासऽ आहुताः ।
कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनय चारुमग्नये ॥ ७८ ॥
अहाव्यग्ने हविरास्ये ते स्रुचीव घृतं चम्वीव सोमः ।
वाजसनिँ रयिमस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम् ॥ ७९ ॥
अश्विना तेजसा चक्षुः प्राणेन सरस्वती वीर्यम् ।
वाचेन्द्रो बलेनेन्द्राय दधुरिन्द्रियम् ॥ ८० ॥
गोमदू षु णासत्याश्वावद्यातमश्विना । वर्त्ती रुद्रा नृपाय्यम् ॥ ८१ ॥
न यत्परो नान्तरऽ आदधर्षद्वृषण्वसू । दुःशँसो मर्त्यो रिपुः ॥ ८२ ॥
ता नऽ आ वोढमश्विना रयिं पिशङ्गसन्दृशम् । धिष्ण्या वरिवोविदम् ॥ ८३ ॥
पावकाः नः सरस्वती वाजेभिर्वाजिनीवती । यज्ञं वष्टु धियावसुः ॥ ८४ ॥
चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । यज्ञं दधे सरस्वती ॥ ८५ ॥
महोऽ अर्णः सरस्वती प्र चेतयति केतुना । धियो विश्वा वि राजति ॥ ८६ ॥
इन्द्रा याहि चित्रभानो सुताऽ इमे त्वायवः । अण्वीभिस्तना पूतासः ॥ ८७ ॥
इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः । उप ब्रह्माणि वाघतः ॥ ८८ ॥
इन्द्रा याहि तूतुजानऽ उप ब्रह्माणि हरिवः । सुते दधिष्व नश्चनः ॥ ८९ ॥
अश्विना पिबतां मधु सरस्वत्या सजोषसा । इन्द्रः सुत्रामा वृत्रहा जुषन्ताँ सोम्यं मधु ॥ ९० ॥
॥ इति विंशोऽध्यायः ॥
ॐ तत् सत् |