|
शुक्ल यजुर्वेदः - सप्तदशोऽध्यायः
अश्मन्नूर्जं पर्वते शिश्रियाणामद्भ्यऽ ओषधीभ्यो वनस्पतिभ्योऽ अधि सम्भृतं पयः । तां नऽइषमूर्जं धत्त मरुतः सँरराणाऽअश्मँस्ते क्षुन्मयि तऽ ऊर्ग्यं द्विष्मस्तं ते शुगृच्छतु ॥ १ ॥
इमा मेऽअग्नऽइष्टका धेनवः सन्त्वेका च दश च दश च शतं च शतं च सहस्रं च सहस्रं चायुतं चायुतं च नियुतं च नियुतं च प्रयुतं चार्बुदं च न्यर्बुदं च समुद्रश्च मध्यं चांतश्च परार्धश्चैता मे ऽ अग्नऽइष्टका धेनवः सन्त्वमुत्रामुष्मिँल्लोके ॥ २ ॥
ऋतव स्थ ऽ ऋतावृध ऽ ऋतुष्ठा स्थ ऽ ऋतावृधः । घृतश्चुतो मधुश्चुतो विराजो नाम कामदुघा ऽ अक्षीयमाणाः ॥ ३ ॥
समुद्रस्य त्वावकयाग्ने परिव्ययामसि । पावकोऽअस्मभ्यँ शिवो भव ॥ ४ ॥
हिमस्य त्वा जरायुणाग्ने परिव्ययामसि । पावकोऽअस्मभ्यँ शिवो भव ॥ ५ ॥
उप ज्मन्नुप वेतसेऽवतर नदीष्वा । अग्ने पित्तमपामसि मण्डूकि ताभिरागहि सेमं नो यज्ञं पावकवर्णँ शिवं कृधि ॥ ६ ॥
अपामिदं न्ययनँ समुद्रस्य निवेशनम् । अन्याँस्तेऽअस्मत्तपन्तु हेतयः पावकोऽअस्मभ्यँ शिवो भव ॥ ७ ॥
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान्वक्षि यक्षि च ॥ ८ ॥
स नः पावक दीदिवोऽग्ने देवाँ२ऽ इहावह । उप यज्ञँ हविश्च नः ॥ ९ ॥
पावकया यश्चितयन्त्या कृपा क्षामन् रुरुचऽउषसो न भानुना । तूर्वन्न यामन्नेतशस्य नू रणऽआ यो घृणे न ततृषाणोऽ अजरः ॥ १० ॥
नमस्ते हरसे शोचिषे नमस्तेऽ अस्त्वर्चिषे ।अन्याँस्ते अस्मत्तपन्तु हेतयः पावकोऽअस्मभ्यँ शिवो भव ॥ ११ ॥ नृपदे वेडप्सुषदे वेड् बर्हिषदे वेड् वनसदे वेट् स्वर्विदे वेट् ॥ १२ ॥
ये देवा देवानां यज्ञिया यज्ञियानाँ संवत्सरीणमुप भागमासते । अहुतादो हविषो यज्ञेऽ अस्मिन्त्स्वयं पिबन्तु मधुनो घृतस्य ॥ १३ ॥
ये देवा देवष्वधि देवत्वमायन्ये ब्रह्मणः पुरऽ एतारोऽ अस्य । येभ्यो नऽ ऋते पवते धाम किञ्चन न ते दिवो न पृथिव्याऽ अधि स्नुषु ॥ १४ ॥
प्राणदाऽ अपानदा व्यानदा वर्चोदा वरिवोदाः । अन्याँस्तेऽ अस्मत्तपन्तु हेतयः पावकोऽअस्मभ्यँ शिवो भव ॥ १५ ॥
अग्निस्तिग्मेन शोचिषा यासद्विश्वं न्यत्रिणम् । अग्निर्नो वनते रयिम् ॥ १६ ॥
यऽ इमा विश्वा भुवनानि जुह्वदृपिर्होता न्यसीदत्पिता नः । सऽ आशिषा द्रविणमिच्छमानः प्रथमच्छदवराँ२ऽ आविवेश ॥ १७ ॥
किँस्विदासीदधिष्ठानमारम्भणं कतमस्वित्कथासीत् । यतो भूमिं जनयन्विश्वकर्मा वि द्यामौर्णोन्महिना विश्वचक्षाः ॥ १८ ॥
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन्देवऽ एकः ॥ १९ ॥
किँस्विद्वनं कऽ उ स वृक्षऽ आस यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेदु तद्यदध्यतिष्ठद्भुवनानि धारयन् ॥ २० ॥
या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्नुतेमा । शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं वृधानः ॥ २१ ॥
विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व पृथिवीमुत द्याम् । मुह्यन्त्वन्येऽ अभितः सपत्नाऽ इहास्माकं मघवा सूरिरस्तु ॥ २२ ॥
वाचस्पतिं विश्वकर्माणमूतये मनोजुवं वाजेऽ अद्या हुवेम । स नो विश्वानि हवनानि जोषद्विश्वम्भूरवसे साधुकर्मा ॥ २३ ॥
विश्वकर्मन् हविषा वर्धनेन त्रातारमिन्द्रमकृणोरवध्यम् । तस्मै विशः समनमन्त पूर्वीरयमुग्रो विहव्यो यथासत् ॥ २४ ॥
चक्षुषः पिता मनसा हि धीरो घृतमेनेऽ अजनन्नम्नमाने । यदेदन्ताऽ अददृहन्त पूर्वऽ आदिद्द्यावापृथिवीऽ अप्रथेताम् ॥ २५ ॥
विश्वकर्मा विमनाऽ आद्विहाया धाता विधाता परमोत सन्दृक् । तेषामिष्टानि समिषा मदन्ति यत्रा सप्तऽ ऋषीन्परऽ एकमाहुः ॥ २६ ॥
यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा । यो देवानां नामधाऽ एकऽ एव तँ सम्प्रश्नं भुवना यन्त्यन्या ॥ २७ ॥
तऽ आयजन्त द्रविणँ समस्माऽ ऋषयः पूर्वे जरितारो न भूना । असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्निमानि ॥ २८ ॥
परो दिवा परऽ एना पृथिव्या परो देवेभिरसुरैर्यदस्ति । कँस्विद् गर्भं प्रथमं दध्रऽ आपो यत्र देवाः समपश्यन्त पूर्वे ॥ २९ ॥
तमिद्गर्भं प्रथमं दध्रऽ आपो यत्र देवाः समगच्छन्त विश्वे । अजस्य नाभावध्येकमर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः ॥ ३० ॥
न तं विदाथ यऽ इमा जजानान्यद्युष्माकमन्तरं बभूव । नीहारेण प्रावृता जल्प्या चासुतृपऽ उक्थशासश्चरन्ति ॥ ३१ ॥
विश्वकर्मा ह्यजनिष्ट देवऽ आदिद्गन्धर्वोऽ अभावद् द्वितीयः । तृतीयः पिता जनितौषधीनामपां गर्भं व्यदधात्पुरुत्रा ॥ ३२ ॥
आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् । संक्रन्दनोऽनिमिषऽ एकवीरः शतँ सेनाऽ अजयत्साकमिद्रः ॥ ३३ ॥
संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । तदिन्द्रेण जयत तत्सहध्वं युधो नरऽ इषुहस्तेन वृष्णा ॥ ३४ ॥
सऽ इषुहस्तैः स निषङ्गिभिर्वशी सँस्रष्टा स युधऽ इन्द्रो गणेन । सँसृष्टजित्सोमपा बाहुशर्ध्युग्रधन्वा प्रतिहिताभिरस्ता ॥ ३५ ॥
बृहस्पते परिदीया रथेन रक्षोहामित्राँ२ऽ अपबाधमानः । प्रभञ्जन्त्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम् ॥ ३६ ॥
बलविज्ञाय स्थविरः प्रवीरः सहस्वान् वाजी सहमानऽ उग्रः । अभिवीरोऽ अभिसत्वा सहोजा जैत्रमिन्द्र रथमातिष्ठ गोवित् ॥ ३७ ॥
गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणंतमोजसा । इमँ सजाताऽ अनु वीरयध्वमिन्द्रँ सखायोऽ अनु सँरभध्वम् ॥ ३८ ॥
अभि गोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः । दुश्च्यवनः पृतनाषाडयुध्योऽस्माकँ सेनाऽ अवतु प्र युत्सु ॥ ३९ ॥
इन्द्रऽ आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुरऽ एतु सोमः । देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् ॥ ४० ॥
इंद्रस्य वृष्णो वरुणस्य राज्ञऽ आदित्यानां मरुताँ शर्धऽ उग्रम् । महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥ ४१ ॥
उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनाँसि । उद्वृत्रहन् वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः ॥ ४२ ॥
अस्माकमिंद्रः समृतेषु ध्वजेष्वस्माकं याऽ इषवस्ता जयन्तु । अस्माकं वीराऽ उत्तरे भवन्त्वस्माँ२ऽ उ देवाऽ अवता हवेषु ॥ ४३ ॥
अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि । अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम् ॥ ४४ ॥
अवसृष्टा परातप शरव्ये ब्रह्मसँशिते । गच्छामित्रान्प्रपद्यस्व मामीषां कञ्चनोच्छिषः ॥ ४५ ॥
प्रेता जयता नरऽ इन्द्रोवः शर्म यच्छतु । उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ ॥ ४६ ॥
असौ या सेना मरुतः परेषामभ्यैति नऽ ओजसा स्पर्धमाना । तां गूहत तमसापव्रतेन यथामीऽ अन्योऽ अन्यं न जानन् ॥ ४७ ॥
यत्र बाणाः सम्पतन्ति कुमारा विशिखाऽ इव । तन्नऽ इन्द्रो बृहस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥ ४८ ॥
मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानुवस्ताम् । उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥ ४९ ॥
उदेनमुत्तरां नयाग्ने घृतेनाहुत । रायस्पोषेण सँसृज प्रजया च बहुं कृधि ॥ ५० ॥
इन्द्रेमं प्रतरां नय सजातानामसद्वशी । समेनं वर्चसा सृज देवानां भागदाऽ असत् ॥ ५१ ॥
यस्य कुर्मो गृहे हविस्तमग्ने वर्धया त्वम् ॥ तस्मै देवाऽ अधिब्रुवन्नयं च ब्रह्मणस्पतिः ॥ ५२ ॥
उदु त्वा विश्वे देवाऽ अग्ने भरन्तु चित्तिभिः । स नो भव शिवस्त्वँ सुप्रतीको विभावसुः ॥ ५३ ॥
पञ्च दिशो दैवीर्यज्ञमवन्तु देवीरपामतिं दुर्मतिं बाधमानाः । रायस्पोषे यज्ञपतिमाभजन्ती रायस्पोषेऽ अधि यज्ञोऽ अस्थात् ॥ ५४ ॥
समिद्धेऽ अग्नावधि मामहानऽ उक्थपत्रऽ ईड्यो गृभीतः । तप्तं घर्मं परिगृह्यायजन्तोर्जा यद्यज्ञमयजन्त देवाः ॥ ५५ ॥
दैव्याय धर्त्रे जोष्ट्रे देवश्रीः श्रीमनाः शतपयाः । परिगृह्य देवा यज्ञमायन् देवा देवेभ्योऽ अध्वर्यन्तोऽ अस्थुः ॥ ५६ ॥
वीतँ हविः शमितँ शमिता यजध्यै तुरियो यज्ञो यत्र हव्यमेति । ततो वाकाऽ आशिषो नो जुषन्ताम् ॥ ५७ ॥
सूर्यरश्मिर्हरिकेशः पुरस्तात्सविता ज्योतिरुदयाँ२ऽ अजस्रम् । तस्य पूषा प्रसवे याति विद्वान्त्सम्पश्यन्विश्वा भुवनानि गोपाः ॥ ५८ ॥
विमानऽ एष दिवो मध्यऽ आस्तऽ आपप्रिवात्रोदसीऽ अन्तरिक्षम् । स विश्वाचीरभिचष्टे घृताचीरन्तरा पूर्वमपरं च केतुम् ॥ ५९ ॥
उक्षा समुद्रोऽ अरुणः सुपर्णः पूर्वस्य योनिं पितुराविवेश । मध्ये दिवो निहितः पृश्निरश्मा विचक्रमे रजसस्पात्यन्तौ ॥ ६० ॥
इन्द्रं विश्वाऽ अवीवृधन्त्समुद्रव्यचसं गिरः । रथीतमँ रथीनां वाजानाँ सत्पतिं पतिम् ॥ ६१ ॥
देवहूर्यज्ञऽ आ च वक्षत्सुम्नहूर्यज्ञऽ आ च वक्षत् । यक्षदग्निर्देवो देवाँ२ऽ आ च वक्षत् ॥ ६२ ॥
वाजस्य मा प्रसवऽ उद्ग्राभेणोदग्रभीत् । अधा सपत्नानिन्द्रो मे निग्राभेणाधराँ२ऽ अकः ॥ ६३ ॥
उद्ग्राभं च निग्राभं च ब्रह्म देवाऽ अवीवृधन् । अधा सपत्नानिन्द्राग्नी मे विषूचीनाव्यस्यताम् ॥ ६४ ॥
क्रमध्वमग्निना नाकमुख्यँ हस्तेषु बिभ्रतः । दिवस्पृष्ठँ स्वर्गत्वा मिश्रा देवेभिराध्वम् ॥ ६५ ॥
प्राचीमनु प्रदिशं प्रेहि विद्वानग्नेरग्ने पुरोऽ अग्निर्भवेह । विश्वाऽ आशा दीद्यानो विभाह्यूर्जं नो धेहि द्विपदे चतुष्पदे ॥ ६६ ॥
पृथिव्याऽ अहमुदन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहम् । दिवो नाकस्य पृष्ठात् स्वर्ज्योतिरगामहम् ॥ ६७ ॥
स्वर्यन्तो नापेक्षन्तऽ आ द्याँ रोहन्ति रोदसी । यज्ञं ये विश्वतोधारँ सुविद्वाँसो वितेनिरे ॥ ६८ ॥
अग्ने प्रेहि प्रथमो देवयतां चक्षुर्देवानामुत मर्त्यानाम् । इयक्षमाणा भृगुभिः सजोषाः स्वर्यन्तु यजमानाः स्वस्ति ॥ ६९ ॥
नक्तोषासा समनसा विरूपे घापयेते शिशुमेकँ समीची । द्यावाक्षामा रुक्मोऽ अन्तर्विभाति देवाऽ अग्निं धारयन् द्रविणोदाः ॥ ७० ॥
अग्ने सहस्राक्ष शतमूर्धञ्छतं ते प्राणाः सहस्रं व्यानाः । त्वँ साहस्रस्य रायऽ ईशिषे तस्मै ते विधेम वाजाय स्वाहा ॥ ७१ ॥
सुपर्णोऽसि गरुत्मान् पृष्ठे पृथिव्याः सीद । भासान्तरिक्षमापृण ज्योतिषा दिवमुत्तभान तेजसा दिशऽ उद्दृँह ॥ ७२ ॥
आजुह्वानः सुप्रतीकः पुरस्तादग्ने स्वं योनिमासीद साधुया । अस्मिन्त्सधस्थेऽ अध्युत्तरस्मिन्विश्वे देवा यजमानश्च सीदत ॥ ७३ ॥
ताँ सवितुर्वरेण्यस्य चित्रामाहं वृणे सुमतिं विश्वजन्याम् । यामस्य कण्वोऽ अदुहत्प्रपीनाँ सहस्रधारां पयसा महीं गाम् ॥ ७४ ॥
विधेम ते परमे जन्मन्नग्ने विधेम स्तोमैरवरे सधस्थे । यस्माद्योनेरुदारिथा यजे तं प्र त्वे हवीँषि जुहुरे समिद्धे ॥ ७५ ॥
प्रेद्धोऽ अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । त्वाँ शश्वन्तऽ उपयन्ति वाजाः ॥ ७६ ॥
अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रँ हृदिस्पृशम् । ऋध्यामा तऽ ओहैः ॥ ७७ ॥
चित्तिं जुहोमि मनसा घृतेन यथा देवाऽ इहागमन्वीतिहोत्राऽ ऋतावृधः ।
पत्ये विश्वस्य भूमनो जुहोमि विश्वकर्मणे विश्वाहादाभ्यँ हविः ॥ ७८ ॥
सप्त तेऽ अग्ने समिधः सप्त जिह्वाः सप्तऽ ऋषयः सप्त धाम प्रियाणि ।
सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीरापृणस्व घृतेन स्वाहा ॥ ७९ ॥
शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्माँश्च । शुक्रश्चऽ ऋतपाश्चात्यँहाः ॥ ८० ॥
ईदृङ् चान्यादृङ् च सदृङ् च प्रतिसदृङ् च । मितश्च सम्मितश्च सभराः ॥ ८१ ॥
ऋतश्च सत्यश्च ध्रुवश्च धरुणश्च । धर्ता च विधर्ता च विधारयः ॥ ८२ ॥
ऋतजिच्च सत्यजिच्च सेनजिच्च सुषेणश्च । अन्तिमित्रश्च दूरेऽ अमित्रश्च गणः ॥ ८३ ॥
ईदृक्षासऽ एतादृक्षासऽ ऊ षु णः सदृक्षासः प्रतिसदृक्षासऽ एतन ।
मितासश्च सम्मितासो नोऽ अद्य सभरसो मरुतो यज्ञेऽ अस्मिन् ॥ ८४ ॥
स्वतवाँश्च प्रघासी च सान्तपनश्च गृहमेधी च । क्रीडी च शाकी चोज्जेषी ॥ ८५ ॥
इन्द्रं दैवीर्विशो मरुतोऽनुवर्त्मानोऽभवन्यथेन्द्रं दैवीर्विशो मरुतोऽनुवर्त्मानोऽभवन् । एवमिमं यजमानं दैवीश्च विशो मानुषीश्चानुवर्त्मानो भवन्तु ॥ ८६ ॥
इमँ स्तनमूर्जस्वन्तं धयापां प्रपीनमग्ने सरिरस्य मध्ये । उत्सं जुषस्वमधुमन्तमर्वन्त्समुद्रियँ सदनमाविशस्व ॥ ८७ ॥
घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम । अनुष्वधमावह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥ ८८ ॥
समुद्रादूर्मिर्मधुमाँ२ऽ उदारदुपाँशुना सममृतत्वमानट् । घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः ॥ ८९ ॥
वयं नाम प्रब्रवामा घृतस्यास्मिन् यज्ञे धारयामा नमोभिः । उप ब्रह्मा शृणवच्छस्यमानं चतुःशृङ्गोऽवमीद्गौरऽ एतत् ॥ ९० ॥
चत्वारि शृङ्गा त्रयोऽ अस्य पादा द्वे शीर्षे सप्त हस्तासोऽ अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ२ऽ आविवेश ॥ ९१ ॥
त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविन्दन् । इन्द्रऽ एकँ सूर्यऽ एकं जजान वेनादेकँ स्वधया निष्टतक्षुः ॥ ९२ ॥
एताऽ अर्षन्ति हृद्यात्समुद्रच्छतव्रजा रिपुणा नावचक्षे । घृतस्य धाराऽ अभिचाकशीमि हिरण्ययो वेतसो मध्यऽ आसाम् ॥ ९३ ॥
सम्यक् स्रवन्ति सरितो न धेनाऽ अन्तर्हृदा मनसा पूयमानाः । एतेऽ अर्षन्त्यूर्मयो घृतस्य मृगाऽ इव क्षिपणोरीषमाणाः ॥ ९४ ॥
सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः । घृतस्य धाराऽ अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः ॥ ९५ ॥
अभिप्रवन्त समनेव योषाः कल्याण्यः स्मयमानासोऽ अग्निम् । घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ॥ ९६ ॥
कन्याऽ इव वहतुमेतवाऽ उऽ अञ्ज्यञ्जानाऽ अभिचाकशीमि । यत्र सोमः सूयते यत्र यज्ञो घृतस्य धाराऽ अभि तत्पवन्ते ॥ ९७ ॥
अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त । इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ते ॥ ९८ ॥
धामं ते विश्वं भुवनमधि श्रितमन्तः समुद्रे हृद्यन्तरायुषि । अपामनीके समिथे यऽ आभृतस्तमश्याम मधुमन्तं तऽ ऊर्मिम् ॥ ९९ ॥
॥ इति सप्तदशोऽध्यायः ॥
ॐ तत् सत् |