शुक्ल यजुर्वेदः - षोडशोऽध्यायः

शुक्ल यजुर्वेदः - षोडशोऽध्यायः



नम॑स्ते रुद्र मन्यव॑ऽ उतो तऽ इष॑वे नमः॑ । बाहुभ्या॑मुत ते नमः॑ ॥ १ ॥ या ते॑ रुद्र शिवा तनूरघोराऽपा॑पकाशिनी । तया॑ नस्तन्वा शन्त॑मया गिरि॑शंताभिचा॑कशीहि ॥ २ ॥ यामिषुं॑ गिरिशंत हस्ते॑ बिभर्ष्यस्त॑वे । शिवां गि॑रित्र तां कु॑रु मा हिँ॑सीः पुरु॑षं जग॑त् ॥ ३ ॥ शिवेन वच॑सा त्वा गिरिशाच्छा॑ वदामसि । यथा॑ नः सर्वमिज्जग॑दयक्ष्मँ सुमनाऽ अस॑त् ॥ ४ ॥ अध्य॑वोचदधिवक्ता प्र॑थमो दैव्यो॑ भिषक् । अहीँ॑श्च सर्वा॑ञ्जम्भयन्त्सर्वा॑श्च यातुधान्योऽधराचीः परा॑ सुव ॥ ५ ॥ असौ यस्ताम्रोऽ अ॑रुणऽ उत बभ्रुः सु॑मंगलः॑ । ये चै॑नँ रुद्राऽ अभितो॑ दिक्षु श्रिताः स॑हस्रशोऽवै॑षाँ हेड॑ऽ ईमहे ॥ ६ ॥ असौ यो॑ऽवसर्प॑ति नील॑ग्रीवो विलो॑हितः । उतैनं॑ गोपाऽ अ॑दृशन्नदृ॑शन्नुदहार्यः स दृष्टो मृ॑डयाति नः ॥ ७ ॥ नमो॑ऽस्तु नील॑ग्रीवाय सहस्राक्षाय॑ मीढुषे॑ । अथो येऽ अ॑स्य सत्वा॑नोऽहं तेभ्यो॑ऽकरं नमः॑ ॥ ८ ॥ प्रमुं॑च धन्व॑नस्त्वमुभयोरार्त्न्योर्ज्याम् । याश्च॑ ते हस्तऽ इष॑वः परा ता भ॑गवो वप ॥ ९ ॥ विज्यं धनुः॑ कपर्दिनो विश॑ल्यो बाण॑वाँ२ऽ उत । अने॑शन्नस्य याऽ इष॑वऽ आभुर॑स्य निषङ्गधिः ॥ १० ॥ या ते॑ हेतिर्मीढु॑ष्टम हस्ते॑ बभूव॑ ते धनुः॑ । तयाऽस्मान्विश्वतस्त्वम॑यक्ष्मया परि॑ भुज ॥ ११ ॥ परि॑ ते धन्व॑नो हेतिरस्मान्वृणक्तु विश्वतः॑ । अथो यऽ इ॑षुधिस्तवारेऽ अस्मान्नि धे॑हि तम् ॥ १२ ॥ अवतत्य धनुष्ट्वँ सह॑स्राक्ष शते॑शुधे । निशीर्य॑ शल्यानां मुखा॑ शिवो नः॑ सुमना॑ भव ॥ १३ ॥ नम॑स्तेऽ आयु॑धायाना॑तताय धृष्णवे॑ । उभाभ्या॑मुत ते नमो॑ बाहुभ्यां तव धन्व॑ने ॥ १४ ॥ मा नो॑ महान्त॑मुत मा नो॑ऽ अर्भकं मा नऽ उक्ष॑न्तमुत मा न॑ऽ उक्षितम् । मा नो॑ वधीः पितरं मोत मातरं मा नः॑ प्रियास्तन्वो रुद्र रीरीषः ॥ १५ ॥ मा न॑स्तोके तन॑ये मा नऽ आयु॑षि मा नो गोषु मा नोऽ अश्वे॑षु रीरीषः । मा नो॑ वीरान् रु॑द्र भामिनो॑ वधीर्हविष्म॑न्तः सदमित् त्वा॑ हवामहे ॥ १६ ॥ नमो हिर॑ण्यबाहवे सेनान्ये दिशां च पत॑ये नमो नमो॑ वृक्षेभ्यो हरि॑केशेभ्यः पशूनां पत॑ये नमो नमः॑ शष्पिञ्ज॑राय त्विषी॑मते पथीनां पत॑ये नमो नमो हरि॑केशायोपवीतिने॑ पुष्टानां पत॑ये नमो॑ ॥ १७ ॥ नमो॑ बभ्लुशाय॑ व्याधिनेऽन्ना॑नां पत॑ये नमो नमो॑ भवस्य॑ हेत्यै जग॑तां पत॑ये नमो नमो॑ रुद्राया॑ततायिने क्षेत्रा॑णां पत॑ये नमो नमः॑ सूतायाह॑न्त्यै वना॑नां पत॑ये नमः॑ ॥ १८ ॥ नमो रोहि॑ताय स्थपत॑ये वृक्षाणां पत॑ये नमो नमो॑ भुवन्तये॑ वारिवस्कृतायौष॑धीनां पत॑ये नमो नमो॑ मन्त्रिणे॑ वाणिजाय कक्षा॑णां पत॑ये नमो नम॑ऽ उच्चैर्घो॑षायाक्रन्दय॑ते पत्तीनां पत॑ये नमः॑ ॥ १९ ॥ नमः॑ कृत्स्नायतया धाव॑ते सत्व॑नां पत॑ये नमो नमः सह॑मानाय निव्याधिन॑ऽ आव्याधिनी॑नां पत॑ये नमो नमो॑ निषङ्‍गिणे॑ ककुभाय॑ स्तेनानां पत॑ये नमो नमो॑ निचेरवे॑ परिचरायार॑ण्यानां पत॑ये नमः॑ ॥ २० ॥ नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निषङ्‍गिणऽ इषुधिमते तस्कराणां पतये नमो नमः सृकायिभ्यो जिघाँसद्‍भ्यो मुष्णतां पतये नमो नमोऽसिमद्‍भ्यो नक्तञ्चरद्‍भ्यो विकृन्तानां पतये नमः ॥ २१ ॥ नमऽ उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नमऽ इषुमद्भ्यो धन्वायिभ्यश्च वो नमो नमऽ आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नमऽ आयच्छद्भ्यो ऽस्यद्‍भ्यश्च वो नमः ॥ २२ ॥ नमो विसृजद्‍भ्यो विध्यद्‍भ्यश्च वो नमो नमः स्वपद्‍भ्यो जाग्रद्‍भ्यश्च वो नमो नमः शयानेभ्यऽ आसीनेभ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्‍भ्यश्च वो नमः ॥ २३ ॥ नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमोऽश्वेभ्यो ऽश्वपतिभ्यश्च वो नमो नमऽ आव्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नमऽ उगणाभ्यस्तृँहतीभ्यश्च वो नमः ॥ २४ ॥ नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गृत्सेभ्यो ग्रुत्सपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमः ॥ २५ ॥ नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमो रथिभ्योऽ अरथेभ्यश्च वो नमो नमः क्षत्तृभ्यः संग्रहीतृभ्यश्च वो नमो नमो महद्‍भ्योऽ अर्भकेभ्यश्च वो नमः ॥ २६ ॥ नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमो निषादेभ्यः पुञ्जिष्ठेभ्यश्च वो नमो नम श्वनिभ्यो म्रुगयुभ्यश्च वो नमः ॥ २७ ॥ नमः श्वभ्यः श्वपतिभ्यश्च वो नमो नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च ॥ २८ ॥ नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशयाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च ॥ २९ ॥ नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृधे च नमोऽग्ऱ्याय च प्रथमाय च ॥ ३० ॥ नमऽ आशवे चाजिराय च नमः शीघ्र्याय च शीभ्याय च नमऽ ऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीपाय च ॥ ३१ ॥ नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्नियाय च ॥ ३२ ॥ नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः श्लोक्याय चावसान्याय च नमऽ उर्वर्याय च खल्याय च ॥ ३३ ॥ नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमऽ आशुषेणाय चाशुरथाय च नमः शूराय चावभेदिने च ॥ ३४ ॥ नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च ॥ ३५ ॥ नमो धृष्णवे च प्रमृशाय च नमो निषङ्‍गिणे चेषुधिमते च नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च ॥ ३६ ॥ नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च ॥ ३७ ॥ नमः कूप्याय चावट्याय च नमो वीध्र्याय चातप्याय च नमो मेघ्याय च विद्युत्याय च नमो वर्ष्याय चावर्ष्याय च ॥ ३८ ॥ नमो वात्याय च रेष्मियाय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च ॥ ३९ ॥ नमः शङ्‍गवे च पशुपतये च नमऽ उग्राय च भीमाय च नमोऽग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय ॥ ४० ॥ नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥ ४१॥ नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमस्तीर्थ्याय च कूल्याय च नमः शष्प्याय च फेन्याय च ॥ ४२ ॥ नमः सिकत्याय च प्रवाह्याय च नमः किँशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमऽ इरिण्याय च प्रपथ्याय च ॥ ४३ ॥ नमो व्रज्याय च गोष्ठ्याय च नमस्तल्प्याय च गेह्याय च नमो हृदय्याय च निवेष्प्याय च नमः काट्याय च गह्वरेष्ठाय च ॥ ४४ ॥ नमः शुष्क्याय च हरित्याय च नमः पाँसव्याय च रजस्याय च नमो लोप्याय चोलप्याय च नमऽ ऊर्व्याय च सूर्म्याय च ॥ ४५ ॥ नमः पर्ण्याय च पर्णशदाय च नमऽउद्‍गुरमाणाय चाभिघ्नते च नम आखिदते च प्रखिदते च नमऽ इषुकृद्भ्यो धनुष्कृभ्यश्च वो नमो नमो वः किरिकेभ्यो देवानाँ हृदयेभ्यो नमो विचिन्वत्केभ्यो नो विक्षिणत्केभ्यो नमऽ आनिर्हतेभ्यः ॥ ४६ ॥ द्रापेऽ अन्धसस्पते दरिद्र नीललोहित । आसां प्रजानामेषां पशूनां मा भेर्मा रोङ्मो च नः किंचनाममत् ॥ ४७ ॥ इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतीः । यथा शमसद्‍द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामेऽ अस्मिन्ननातुरम् ॥ ४८ ॥ या ते रुद्र शिवा तनूः शिवा विश्वाहा भेषजी । शिवा रुतस्य भेषजी तया नो मृड जीवसे ॥ ४९ ॥ परि नो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः । अव स्थिरा मघवद्‍भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृडय ॥ ५० ॥ मीढुष्टम शिवतम शिवो नः सुमना भव । परमे वृक्षऽ आयुधं निधाय कृत्तिं वसानऽ आचर पिनाकं विभ्रदागहि ॥ ५१ ॥ विकिरिद विलोहित नमस्तेऽ अस्तु भगवः । यास्ते सहस्रँ हेतयोऽन्यमस्मन्निवपन्तु ताः ॥ ५२ ॥ सहस्राणि सहस्रशो बाह्वोस्तव हेतयः । तासामीशानो भगवः पराचीना मुखा कृधि ॥ ५३ ॥ असंख्याता सहस्राणि ये रुद्राऽ अधि भूम्याम् । तेषाँ सहस्रयोजनेऽवधन्वानि तन्मसि ॥ ५४ ॥ अस्मिन् महत्यर्णवेऽन्तरिक्षे भवाऽ अधि । तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ५५ ॥ नीलग्रीवाः शितिकण्ठाः दिवँरुद्राऽ उपश्रिताः । तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ५६ ॥ नीलग्रीवाः शितिकण्ठाः शर्वाऽ अधः क्षमाचराः । तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ५७ ॥ ये वृक्षेषु शष्पिञ्जरा नीलग्रीवा विलोहिताः । तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ५८ ॥ ये भूतानामधिपतयो विशिखासः कपर्दिनः । तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ५९ ॥ ये पथां पथिरक्षयऽ ऐलबृदाऽ आयुर्युधः । तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ६० ॥ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्‍गिणः । तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ६१ ॥ येऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् । तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ६२ ॥ यऽ एतावन्तश्च भूयाँसश्च दिशो रुद्रा वितस्थिरे । तेषाँ सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ६३ ॥ नमोऽस्तु रुद्रेभ्यो ये दिवि येषां वर्षमिषवः । तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वाः । तेभ्यो नमोऽअस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः ॥ ६४ ॥ नमोऽस्तु रुद्रेभ्यो येऽन्तरिक्षे येषां वातऽइषवः । तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वाः । तेभ्यो नमोऽअस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः ॥ ६५ ॥ नमोऽस्तु रुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवः । तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वाः । तेभ्यो नमोऽ अस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः ॥ ६६ ॥ ॥ इति षोडशोऽध्यायः ॥


ॐ तत् सत्



GO TOP