|
शुक्ल यजुर्वेदः - त्रयोदशोऽध्यायः
मयि॑ गृ॒ह्णा॒म्यग्रे॑ अ॒ग्निँ रायस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य । मामु॑ दे॒वताः॑ सचन्ताम् ॥ १ ॥
अ॒पां पृष्ठम्॑असि॒ योनि॑र॒ग्नेः स॑मु॒द्रम॒भितः॒ पिन्व॑मानम् । वर्ध॑मानो म॒हाँ२ऽ आ च॒ पुष्क॑रे दिवो॒ मात्र॑या वरि॒म्णा प्र॑थस्व ॥ २ ॥
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सुरुचो॑ वे॒न आ॑वः । स बु॒ध्न्या॒ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ ॥ ३ ॥
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ऽ आसीत् । स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ४ ॥
द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । स॒मा॒नं योनि॒मनु॑ स॒ञ्चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ॥ ५ ॥
नमो॑ऽस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑ । येऽ अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥ ६ ॥
याऽ इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पतीँ१ऽ रनु॑ । ये वा॑व॒टेषु॒ शेर॑ते॒ तेभ्य॑ह् स॒र्पेभ्यो॒ नमः॑ ॥ ७ ॥
ये वा॒मी रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ । येषा॑म॒प्सु सद॑स्कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥ ८ ॥
कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वां॒२ऽ इभे॑न । तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑ऽसि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ॥ ९ ॥
तव॑ भ्रमास॑ऽ आशु॒या प॑त॒न्त्यनु॑स्पृश धृष॒ता शोशु॑चानः । तपूँ॑ष्यग्ने जु॒ह्वा॒ पत॒ङ्गानस॑न्दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ॥ १० ॥
प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒श्या अद॑ब्धः । यो नो॑ दू॒रे अ॒घशँ॑सो॒ यो अन्त्यग्ने॒ मा कि॑ष्टे॒ व्यथि॒राद॑धर्षीत् ॥ ११ ॥
उद॑ग्ने तिष्ठ॒ प्रत्या त॑नुष्व॒ न्यमित्राँ॑२ऽ ओषतात्तिग्महेते । यो नो॒ऽ अरा॑तिँ समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्क॑म् ॥ १२ ॥
ऊर्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या॑न्यग्ने । अव॑ स्थि॒रा त॑नुहि यातु॒जूनां॑ जा॒मिमजा॑मिं॒ प्रमृ॑णीहि॒ शत्रू॑न् । अग्नेष्ट्वा॒ तेज॑सा सादयामि ॥ १३ ॥
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अयम् । अ॒पाँ रेताँ॑सि जिन्वति । इन्द्र॑स्य॒ त्वौज॑सा सदयामि ॥ १४ ॥
भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑ । दि॒वि मू॒र्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म् ॥ १५ ॥
ध्रु॒वाऽसि॑ ध॒रुणाऽऽस्तृ॑ता वि॒श्वक॑र्मणा । मा त्वा॑ समु॒द्र उद्व॑धी॒न्मा सू॑प॒र्णोऽव्य॑थमाना पृथि॒वीं दृँ॑ह ॥ १६ ॥
प्र॒जाप॑तिष्ट्वा सादयत्व॒पां पृ॒ष्ठे स॑मु॒द्रस्येम॑न् व्यच॑स्वतीं॒ प्रथ॑स्वतीं॒ प्रथ॑स्व पृथि॒व्य॒सि ॥ १७ ॥
भूर॑सि॒ भूमि॑र॒स्यदि॑तिरसि वि॒श्वधा॑या॒ विश्व॑स्य॒ भुव॑नस्य ध॒र्त्री । पृथि॒वीं य॑च्छ पृथि॒वीं दृँ॑ह पृथि॒वीं मा हिँ॑सीः ॥ १८ ॥
विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य । अ॒ग्निष्ट्वा॒ऽभि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥ १९ ॥
काण्डा॑त्काण्डात्प्र॒रोह॑न्ती॒ परु॑षः-परुष॒स्परि॑ । ए॒वा नो॑ दूर्वे॒ प्र त॑नु स॒हस्रे॑ण श॒तेन॑ च ॥ २० ॥
या श॒तेन॑ प्र॒तनोषि॑ स॒हस्रे॑ण वि॒रोह॑सि । तस्या॑स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम् ॥ २१ ॥
यास्ते॑ अग्ने॒ सूर्ये॒ रुचो॒ दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑ । ताभि॑र्नो अ॒द्य सर्वा॑भी रु॒चे जना॑य नस्कृधि ॥ २२ ॥
या वो॑ देवाः॒ सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑ । इन्द्रा॑ग्नी॒ ताभिः॒ सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते ॥ २३ ॥
वि॒राड्ज्योति॑रधारयत्स्व॒राड्ज्योति॑रधारयत् । प्र॒जाप॑तिष्ट्वा सादयतु पृ॒ष्ठे पृ॑थि॒व्या ज्योति॑ष्मतीम् । विश्व॑स्मै प्र॒णाया॑पा॒नाय॑ व्या॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ । अ॒ग्निष्टेऽधि॑पति॒स्तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रुवा सी॑द ॥ २४ ॥
मधु॑श्च॒ माध॑वश्च॒ वास॑न्तिकावृ॒तू अ॒ग्नेर॑न्तःश्ले॒षो॒ऽसि कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ऽ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ्मम ज्यैष्ठ्या॑य॒ सव्र॑ताः । ये अ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे । वास॑न्तिकावृ॒तू अ॑भि॒कल्प॑माना॒ऽ इन्द्र॑मिव दे॒वा अ॑भि॒संविशन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥ २५ ॥
अषा॑ढाऽसि॒ सह॑माना॒ सह॒स्वारा॑तीः॒ सह॑स्व पृतनाय॒तः । स॒हस्र॑वीर्याऽसि॒ सा मा॑ जिन्व ॥ २६ ॥
मधु॒ वाता॑ऽ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः । मार्ध्वी॑र्नः स॒न्त्वोष॑धीः ॥ २७ ॥
मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्पार्थि॑वँ॒ रजः॑ । मधु॒ द्यौर॑स्तु नः पि॒ता ॥ २८ ॥
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ२ऽ अस्तु॒ सूर्यः॑ । माध्वी॒र्गावो॑ भवन्तु नः ॥ २९ ॥
अ॒पां गम्भ॑न्त्सीद॒ मा त्वा॒ सूर्यो॒ऽभिता॑प्सी॒न्माऽग्निर्वै॑श्वान॒रः । अच्छि॑न्नपत्राः प्र॒जा अ॑नु॒वीक्ष॒स्वानु॑ त्वा दि॒व्या वृष्टिः॑ सचताम् ॥ ३० ॥
त्रीन्त्स॑मु॒द्रान्त्सम॑सृपत् स्व॒र्गान॒पां पति॑र्वृष॒भ इष्ट॑कानाम् । पूरीषं॒ वसा॑नः सुकृ॒तस्य॑ लो॒के तत्र॑ गच्छ॒ यत्र॒ पूर्वे॒ परे॑ताः ॥ ३१ ॥
म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः ॥ ३२ ॥
विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥ ३३ ॥
ध्रु॒वाऽसि॑ ध॒रुणे॒तो ज॑ज्ञे प्रथ॒ममे॒भ्यो योनि॑भ्यो॒ऽ अधि॑ जा॒तवे॑दाः । स गा॑य॒त्र्या त्रि॒ष्टुभा॑ऽनु॒ष्टुभा॑ च दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ॥ ३४ ॥
इ॒षे रा॒ये र॑मस्व॒ सह॑से द्यु॒म्न ऊ॒र्जे अप॑त्याय । स॒म्राड॑सि स्व॒राड॑सि सारस्व॒तौ त्वोत्सौ॒ प्राव॑ताम् ॥ ३५ ॥ अग्ने॑ यु॒क्ष्वा हि ये तवाश्वा॑सो देव सा॒धवः॑ । अरं॒ वह॑न्ति म॒न्यवे॑ ॥ ३६ ॥ यु॒क्ष्वा हि दे॑व॒हूत॑मा@ं२ऽ अश्वाँ॑२ऽ अग्ने र॒थीरि॑व । नि होता॑ पू॒र्व्यः स॑दः ॥ ३७ ॥
स॒म्यक् स्र॑वन्ति स॒रितो॒ न धेना॑ऽ अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः । घृ॒तस्य॒ धारा॑ऽ अ॒भि चा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्ये॑ अ॒ग्नेः ॥ ३८ ॥
ऋ॒चे त्वा॑ रु॒चे त्वा॑ भा॒से त्वा॒ ज्योति॑षे त्वा । अभू॑दि॒दं विश्व॑स्य॒ भुव॑नस्य॒ वाजि॑नम॒ग्नेर्वै॑श्वान॒रस्य॑ च ॥ ३९ ॥
अ॒ग्निर्ज्योति॑षा॒ ज्योति॑ष्मान् रु॒क्मो वर्च॑सा॒ वर्च॑स्वान् । स॒ह॒स्र॒दा अ॑सि स॒हस्रा॑य त्वा ॥ ४० ॥
आ॒दि॒त्यं गर्भं॒ पय॑सा॒ सम॑ङ्धि स॒हस्र॑स्य प्रति॒मां वि॒श्वरू॑पम् । परि॑वृङ्धि॒ हर॑सा॒ माऽभि मँ॑स्थाः श॒तायु॑षं कृणुहि ची॒यमा॑नः ॥ ४१ ॥
वात॑स्य जू॒तिं वरु॑णस्य॒ नाभि॒मश्वं॑ जज्ञा॒नँ स॑रि॒रस्य॒ मध्ये॑ । शिशुं॑ न॒दीनाँ॒ हरि॒मद्रि॑बुध्न॒मग्ने॒ मा हिँ॑सीः पर॒मे व्यो॑मन् ॥ ४२ ॥
अज॑स्र॒मिन्दु॑मरु॒षं भु॑र॒ण्युम॒ग्निमी॑डे पू॒र्वचि॑त्तिं॒ नमो॑भिः । स पर्व॑भिर्ऋतु॒शः कल्प॑मानो॒ गां मा हिँ॑सी॒रदि॑तिं वि॒राज॑म् ॥ ४३ ॥
वरू॑त्रीं॒ त्वष्टु॒र्वरु॑णस्य॒ नाभि॒मविं॑ जज्ञा॒नाँ रज॑सः॒ पर॑स्मात् । म॒हीँ सा॑ह॒स्रीमसु॑रस्य मा॒यामग्ने॒ मा हिँ॑सीः पर॒मे व्यो॑मन् ॥ ४४ ॥
यो अ॒ग्निर॒ग्नेरध्यजा॑यत॒ शोका॑त्पृथि॒व्या उ॒त वा॑ दिव॒स्परि॑ । येन॑ प्र॒जा वि॒श्वक॑र्मा ज॒जान॒ तम॑ग्ने॒ हेडः॒ परि॑ ते वृणक्तु ॥ ४५ ॥
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षँ॒ सूर्य॑ऽ आ॒त्मा जग॑तस्त॒स्थूष॑श्च ॥ ४६ ॥
इ॒मं मा हिँ॑सीर्द्वि॒पादं॑ प॒शुँ स॑हस्रा॒क्षो मेधा॑य ची॒यमा॑नः । म॒युं प॒शुं मेध॑मग्ने जुषस्व॒ तेन॑ चिन्वा॒नस्त॒न्वो निषी॑द । म॒युं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ॥ ४७ ॥
इ॒मं मा हिँ॑सी॒रेक॑शफं प॒शुं क॑निक्र॒दं वा॒जिनं॒ वाजि॑नेषु । गौ॒रमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो निषी॑द । गौ॒रं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ॥ ४८ ॥
इ॒मँ सा॑ह॒स्रँ श॒तधा॑र॒मुत्सं॑ व्य॒च्यमा॑नँ सरि॒रस्य॒ मध्ये॑ । घृ॒तं दुहा॑ना॒मदि॑तिं॒ जना॒याग्ने॒ मा हिँ॑सीः पर॒मे व्यो॑मन् । ग॒व॒यमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो निषी॑द । ग॒व॒यं ते॒ शुगृ॑च्छतु॒ य द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ॥ ४९ ॥
इ॒ममू॑र्णा॒युं वरु॑णस्य॒ नाभिं॒ त्वचं॑ पशू॒नां द्वि॒पदां॒ चतु॑ष्पदाम् । त्वष्टुः॑ प्र॒जानां॑ प्रथ॒मं ज॒नित्र॒मग्ने॒ मा हिँ॑सिः पर॒मे व्यो॑मन् । उष्ट्र॑मार॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो निषी॑द । उष्ट्रं॑ ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ॥ ५० ॥
अ॒जो ह्य॒ग्नेरज॑निष्ट॒ शोका॒त्सोऽ अ॑पश्यज्जनि॒तार॒मग्रे॑ । तेन॑ दे॒वा दे॒वता॒मग्र॑मायँ॒स्तेन॒ रोह॑मय॒न्नुप॒ मेध्या॑सः । श॒र॒भमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो निषी॑द । श॒र॒भं ते॒ शुगृ॑च्छतु॒ य द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ॥ ५१ ॥
त्वं य॑विष्ठ दा॒शुषो॒ नॄँः पा॑हि श्रृणु॒धी गिरः॑ । रक्षा॑ तो॒कमु॒त त्मना॑ ॥ ५२ ॥
अ॒पां त्वेम॑न्त्सादयाम्य॒पां त्वोद्म॑न्त्सादयाम्य॒पां त्वा॒ भस्म॑न्त्सादयाम्य॒पां त्वा॒ ज्योति॑षि सादयाम्य॒पां त्वाऽय॑ने सादयाम्यर्ण॒वे त्वा॒ सद॑ने सादयामि समु॒द्रे त्वा॒ सद॑ने सादयामि सरि॒रे त्वा॒ सद॑ने सादयाम्य॒पां त्वा॒ क्षये॑ सादयाम्य॒पां त्वा॒ सधि॑षि सादयाम्य॒पां त्वा॒ सद॑ने सादयाम्य॒पां त्वा॑ स॒धस्थे॑ सादयाम्य॒पां त्वा॒ योनौ॑ सादयाम्य॒पां त्वा॒ पुरी॑षे सादयाम्य॒पां त्वा॒ पाथ॑सि सादयामि गाय॒त्रे॑ण त्वा॒ छन्द॑सा सादयामि॒ त्रैष्टु॑भेन त्वा॒ छन्द॑सा सादयामि॒ जाग॑तेन त्वा॒ छन्द॑सा सादया॒म्यानु॑ष्टुभेन त्वा॒ छन्द॑सा सादयामि॒ पाङ्क्ते॑न त्वा॒ छन्द॑सा सादयामि ॥ ५३ ॥
अ॒यं पु॒रो भुव॒स्तस्य॑ प्रा॒णो भौ॑वाय॒नो व॑स॒न्तः प्रा॑णाय॒नो गा॑य॒त्री वा॑स॒न्ती गा॑य॒त्रै गा॑य॒त्रं गा॑य॒त्रादु॑पाँ॒शुरु॑पाँ॒शोस्त्रि॒वृत् त्रि॒वृतो॑ रथन्त॒रं वसि॑ष्ठ॒ऽ ऋषिः॑ प्र॒जाप॑तिगृहीतया त्वया॑ प्रा॒णं गृ॑ह्णामि प्रा॒जाभ्यः॑ ॥ ५४ ॥
अ॒यं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॒ मनो॑ वैश्वकर्म॒णं ग्री॒ष्मो मा॑न॒सस्त्रि॒ष्टुब्ग्रैष्मी॑ त्रि॒ष्टुभः॑ स्वा॒रँ स्वा॒रा॑दन्तर्या॒मो॒ऽन्तर्या॒मात्प॑ञ्चद॒शः प॑ञ्चद॒शाद् बृ॒हद् भ॒रद्वा॑ज॒ऽ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ मनो॑ गृह्णामि प्र॒जाभ्यः॑ ॥ ५५ ॥
अ॒यं प॒श्चाद्वि॒श्वव्य॑चा॒स्तस्य॒ चक्षु॑र्वैश्वव्यच॒सं व॒र्षाश्चा॑क्षु॒ष्यो जग॑ती वा॒र्षी जग॑त्या॒ऽ ऋक्स॑म॒मृक्स॑माच्छु॒कः शुक्रात्स॑प्तद॒शः स॑प्तद॒शाद्वै॑रू॒पं ज॒मद॑ग्नि॒र्ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ चक्षु॑र्गृह्णामि प्र॒जाभ्यः॑ ॥ ५६ ॥
इदमु॑त्त॒रात् स्व॒स्तस्य॒ श्रोत्रँ॑ सौ॒वँ श॒रच्छ्रौ॒त्र्य॒नु॒ष्टुप् शा॑र॒द्य॒नु॒ष्टुभ॑ऽ ऐ॒डमै॒डान्म॒न्थी म॒न्थिन॑ऽ एकविँ॒शऽ ए॑कविँ॒शाद्वैरा॒जं वि॒श्वामि॑त्र॒ऽ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ श्रोत्रं॑ गृह्णामि प्र॒जाभ्यः॑ ॥ ५७ ॥
इ॒यमु॒परि॑ म॒तिस्तस्यै॒ वाङ्मा॒त्या हे॑म॒न्तो वा॒च्यः प॒ङ्क्तिर्है॑म॒न्ती प॒ङ्क्त्यै नि॒धन॑वन्नि॒धन॑वतऽ आग्रय॒णऽ आ॑ग्रय॒णात् त्रि॑णवत्रयस्त्रिँ॒शौ त्रि॑णवत्रयस्त्रिँ॒शाभ्याँ॑ शाक्वररैव॒ते वि॒श्वक॑र्म॒ऽ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ वाचं॑ गृह्णामि प्र॒जाभ्यो॑ लो॒कं ताऽ इन्द्र॑म् ॥ ५८ ॥
इति त्रयोदशोऽध्यायः ॥
ॐ तत् सत् |