शुक्ल यजुर्वेदः - द्वादशोऽध्यायः

शुक्ल यजुर्वेदः - द्वादशोऽध्यायः



दृ॒शा॒नो रुक्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः । अग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौरज॑नयत्सु॒रेताः॑ ॥ १ ॥ नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेकँ॑ समी॒ची । द्यावा॒क्षामा॑ रु॒क्मो अ॒न्तर्विभा॑ति दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाः ॥ २ ॥ विश्वा॑ रू॒पाणि॒ प्रति॑मुञ्चते क॒विः प्रासा॑वीद्‍भ॒द्रं॒ द्वि॒पदे॒ चतु॑ष्पदे । वि नाक॑मख्यत्सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ वि रा॑जति ॥ ३ ॥ सु॒प॒र्णो॒ऽसि ग॒रुत्माँ॑स्त्रि॒वृत्ते॒ शिरो॑ गाय॒त्रं चक्षु॑र्बृहद्रथन्त॒रे प॒क्षौ । स्तोम॑ आ॒त्मा छन्दाँ॒स्यङ्‍गा॑नि॒ यजूँ॑षि॒ नाम॑ । साम॑ ते त॒नूर्वा॑मदे॒व्यं य॑ज्ञाय॒ज्ञियं॒ पुच्छं॒ धिष्ण्याः॑ श॒फाः । सु॒प॒र्णो॒ऽसि ग॒रुत्मा॒न्दिवं॑ गच्छ॒ स्वः॒ पत ॥ ४ ॥ विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा गा॑य॒त्रं छन्द॒ऽ आरो॑ह पृथि॒वीमनु॒ विक्र॑मस्व॒ विष्णोः॒ क्रमो॑ऽस्यभिमाति॒हा त्रै॑ष्टुभं॒ छन्द॒ऽ आ रो॑हा॒न्तरि॑क्ष॒मनु॒ विक्र॑मस्व॒ विष्णोः॒ क्रमो॑ऽस्यरातीय॒तो ह॒न्ता जाग॑तं॒ छन्द॒ऽ आरो॑ह॒ दिव॒मनु॒ विक्र॑मस्व॒ विष्णोः॒ क्रमो॑ऽसि शत्रूय॒तो ह॒न्ताऽऽनु॑ष्टुभं॒ छन्द॒ऽ आरो॑ह॒ दिशोऽनु॒ विक्र॑मस्व ॥ ५ ॥ अक्र॑न्दद॒ग्नि स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन् । स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भान्त्य॒न्तः ॥ ६ ॥ अग्ने॑ऽभ्यावर्त्तिन्न॒भि मा॒ निव॑र्त॒स्वायु॑षा॒ वर्च॑सा प्र॒जया॒ धने॑न । स॒न्या मे॒धया॑ र॒य्या पोषे॑ण ॥ ७ ॥ अग्ने॑ अङ्‍गिरः श॒तं ते॑ सन्त्वा॒वृतः॑ स॒हस्रं॑ त उपा॒वृतः॑ । अधा पोष॑स्य॒ पोषे॑ण॒ पुन॑र्नो न॒ष्टमाकृ॑धि॒ पुन॑र्नो र॒यिमाकृ॑धि ॥ ८ ॥ पुन॑रू॒र्जा नि व॑र्त्तस्व॒ पुन॑रग्न इ॒षाऽऽयु॑षा । पुन॑र्नः पा॒ह्यँह॑सः ॥ ९ ॥ स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वप्स्न्या॑ वि॒श्वत॒स्परि॑ ॥ १० ॥ आ त्वा॑ऽहार्षम॒न्तर॑भूर्ध्रु॒वस्ति॒ष्ठावि॑चाचलिः । विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑भ्रशत् ॥ ११ ॥ उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मँ श्र॑थाय । अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥ १२ ॥ अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग॒न्वान् तम॑सो॒ ज्योति॒षाऽऽगा॑त् । अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्‍ग॒ आ जा॒तो विश्वा॒ सद्मा॑न्यप्राः ॥ १३ ॥ हँ॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता वेदि॒षदति॑थिर्दुरोण॒सत् । नृ॒षद्व॑र॒सदृ॑त॒सद् व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ॥ १४ ॥ सीद॒ त्वं मा॒तुर॒स्या उ॒पस्थे॒ विश्वा॑न्यग्ने व॒युना॑नि वि॒द्वान् । मैनां॒ तप॑सा॒ माऽर्चिषा॒ऽभि शो॑चीर॒न्तर॑स्याँ शु॒क्रज्योति॒॑र्विभा॑हि ॥ १५ ॥ अ॒न्तर॑ग्ने रु॒चा त्वमु॒खायाः॒ सद॑ने॒ स्वे । तस्या॒स्त्वँ हर॑सा॒ तप॒ञ्जात॑वेदः शि॒वो भ॑व ॥ १६ ॥ शि॒वो भू॒त्वा मह्य॑मग्ने॒ अथो॑ सीद शि॒वस्त्वम् । शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वं योनि॑मि॒हास॑दः ॥ १७ ॥ दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद् द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः । तृ॒तीय॑म॒प्सु नृ॒मणा॒ अज॑स्र॒मिन्धा॑न एनं जरते स्वा॒धीः ॥ १८ ॥ वि॒द्मा ते॑ऽ अग्ने त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ धाम॒ विभृ॑ता पुरु॒त्रा । वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्वि॒द्मा तमुत्सं॒ यत॑ऽ आज॒गन्थ॑ ॥ १९ ॥ स॒मुद्रे त्वा॑ नृ॒मणा॑ऽ अ॒प्स्वन्तर्नृ॒चक्षा॑ऽ ईधे दि॒वो अ॑ग्न॒ऽ ऊध॑न् । तृ॒तीये॑ त्वा॒ रज॑सि तस्थि॒वाँस॑म॒पामु॒पस्थे॑ महि॒षा अ॑वर्धन् ॥ २० ॥ अक्र॑न्दद॒ग्नि स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन् । स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धोऽ अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ॥ २१ ॥ श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णां म॑नी॒षाणां॒ प्रार्प॑णः॒ सोम॑गोपाः । वसुः॑ सू॒नुः सह॑सो अ॒प्सु राजा॒ विभा॒त्यग्र॑ऽ उ॒षसा॑मिधा॒नः ॥ २२ ॥ विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ऽ आ रोद॑सी अपृणा॒ज्जाय॑मानः । वी॒डुं चि॒दद्रि॑मभिनत् परा॒यञ्जना॒ यद॒ग्निमय॑जन्त॒ पञ्च॑ ॥ २३ ॥ उ॒शिक्पा॑व॒को अ॑र॒तिः सु॑मे॒धा मर्त्ये॑ष्व॒ग्निर॒मृतो॒ नि धा॑यि । इय॑र्त्ति धू॒मम॑रु॒षं भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षन् ॥ २४ ॥ दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः । अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौरज॑नयत्सु॒रेताः॑ ॥ २५ ॥ यस्ते॑ अ॒द्य कृ॒णव॑द्‍भद्रशोचेऽपू॒पं दे॑व घृ॒तव॑न्तमग्ने । प्र तं न॑य प्रत॒रं वस्यो॒ऽ अच्छा॒भि सु॒म्नं दे॒वभ॑क्तं यविष्ठः ॥ २६ ॥ आ तं भ॑ज सौश्रव॒सेष्व॑ग्न उ॒क्थ उ॑क्थ॒ आ भ॑ज श॒स्यमा॑ने । प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॒दुज्जनि॑त्वैः ॥ २७ ॥ त्वाम॑ग्ने॒ यज॑माना॒ऽ अनु॒ द्यून् विश्वा॒ वसु॑ दधिरे॒ वार्या॑णि । त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जं गोम॑न्तमु॒शिजो॒ विव॑व्रुः ॥ २८ ॥ अस्ता॑व्य॒ग्निर्न॒राँ सु॒शेवो॑ वैश्वान॒र ऋषि॑भिः॒ सोम॑गोपाः । अ॒द्वे॒षे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीर॑म् ॥ २९ ॥ स॒मिधा॒ऽग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम् । आऽस्मि॑न् ह॒व्या जु॑होतन ॥ ३० ॥ उदु॑ त्वा॒ विश्वे॑ दे॒वा अग्ने॒ भर॑न्तु॒ चित्ति॑भिः । स नो॑ भव शि॒वस्त्वँ सु॒प्रती॑को वि॒भाव॑सुः ॥ ३१ ॥ प्रेद॑ग्ने॒ ज्योति॑ष्मान् याहि शि॒वेभि॑र॒र्चिभि॒ष्ट्वम् । बृ॒हद्‍भि॑र्भा॒नुभि॒र्भास॒न्मा हिँ॑सीस्त॒न्वा॒ प्र॒जाः ॥ ३२ ॥ अक्र॑न्दद॒ग्नि स्त॒नय॑ग्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन् । स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ॥ ३३ ॥ प्र-प्रा॒यम॒ग्निर्भ॑र॒तस्य॑ श्रृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्‍भाः । अ॒भि यः पू॒रं पृत॑नासु त॒स्थौ दी॒दाय॒ दैव्यो॒ऽ अति॑थि शि॒वो नः॑ ॥ ३४ ॥ आपो॑ देवीः॒ प्रति॑गृभ्णीत॒ भस्मै॒तत्स्यो॒ने कृ॑णुध्वँ सुर॒भा उ॑ लो॒के । तस्मै॑ नमतां॒ जन॑यः सु॒पत्नी॑र्मा॒तेव॑ पु॒त्रं बि॑भृता॒प्स्वे॒नत् ॥ ३५ ॥ अ॒प्स्व॒ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे । गर्भे॒ सञ्जा॑यसे॒ पुनः॑ ॥ ३६ ॥ गर्भो॑ अ॒स्योष॑धीनां॒ गर्भो॒ वन॒स्पती॑नाम् । गर्भो॒ विश्व॑स्य भू॒तस्याग्ने॒ गर्भो॑ अ॒पाम॑सि ॥ ३७ ॥ प्र॒सह्य॒ भस्म॑ना॒ योनि॑म॒पश्च॑ पृथि॒वीम॑ग्ने । सँ॒सृज्य॑ मा॒तृभि॒ष्ट्वं ज्योति॑ष्मा॒न् पुन॒रा ऽस॑दः ॥ ३८ ॥ पुन॑रा॒सद्य॒ सद॑नम॒पश्च॑ पृथि॒वीम॑ग्ने । शेषे॑ मा॒तुर्यथो॒पस्थे॒ऽन्तर॑स्याँ शि॒वत॑मः ॥ ३९ ॥ पुन॑रू॒र्जा नि व॑र्तस्व॒ पुन॑रग्न इ॒षाऽऽयु॑षा । पुन॑र्नः पा॒ह्यँह॑सः ॥ ४० ॥ स॒ह र॒य्या नि व॑र्त्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वप्स्न्या॑ वि॒श्वत॒स्परि॑ ॥ ४१ ॥ बोधा॑ मे अ॒स्य वच॑सो यविष्ठ॒ मँहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः । पीय॑ति त्वो॒ अनु॑ त्वो गृणाति व॒न्दारु॑ष्टे त॒न्वं॒ वन्देऽ अग्ने ॥ ४२ ॥ स बो॑धि सू॒रिर्म॒घवा॒ वसु॑पते॒ वसु॑दावन् । यु॒यो॒ध्यस्मद् द्वेषाँ॑सि वि॒श्वक॑र्मणे॒ स्वाहा३ ॥ ४३ ॥ पुन॑स्त्वाऽऽदि॒त्या रु॒द्रा वस॑वः॒ समिन्ध॒तां पुन॑र्ब्र॒ह्माणो॑ वसुनीथ य॒ज्ञैः । घृतेन॒ त्वं त॒न्वं॒ वर्धयस्व स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः॑ ॥ ४४ ॥ अपे॑त॒ वी॒त॒ वि च॑ सर्प॒तातो॒ येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः । अदा॑द्य॒मो॒ऽव॒सानं॑ पृथि॒व्या अक्र॑न्नि॒मं पि॒तरो॑ लो॒कम॑स्मै ॥ ४५ ॥ सं॒ज्ञान॑मसि काम॒धर॑णं॒ मयि॑ ते काम॒धर॑णं भूयात् । अ॒ग्नेर्भस्मा॑स्य॒ग्नेः पुरी॑षमसि॒ चित॑ स्थ परि॒चित॑ ऊर्ध्व॒चितः॑ श्रयध्वम् ॥ ४६ ॥ अ॒यँ सो अ॒ग्निर्यस्मि॒न्त्सोम॒मिन्द्रः॑ सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः । स॒ह॒स्रियं॒ वाज॒मत्यं॒ न सप्तिँ॑ सस॒वान्त्सन्त्स्तू॑यसे जातवेदः ॥ ४७ ॥ अग्ने॒ यत्ते॑ दि॒वि वर्चः॑ पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र । येना॒न्तरि॑क्षमु॒र्वा॒त॒तन्थ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षाः॑ ॥ ४८ ॥ अग्ने॑ दि॒वो अर्ण॒मच्छा॑ जिगा॒स्यच्छा॑ दे॒वाँ२ऽ ऊ॑चिषे॒ धिष्ण्या॒ ये । या रो॑च॒ने प॒रस्ता॒त् सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त॒ऽ आपः॑ ॥ ४९ ॥ पुरी॒ष्या॒सोऽ अ॒ग्नयः॑ प्राव॒णेभिः॑ स॒जोष॑सः । जु॒षन्तां॑ य॒ज्ञम॒द्रुहो॑ऽनमी॒वा इषो॑ म॒हीः ॥ ५० ॥ इडा॑मग्ने पुरु॒दँसँ॑ स॒निं गोः श॑श्वत्त॒मँ हव॑मानाय साध । स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥ ५१ ॥ अ॒यं ते॒ योनि॑र्‍ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ॥ ५२ ॥ चिद॑सि॒ तया॑ दे॒वतयाऽङ्‍गिर॒स्वद् ध्रु॒वा सी॑द परि॒चिद॑सि॒ तया॑ दे॒वत॑याऽङ्‍गिर॒स्वद् ध्रु॒वा सी॑द ॥ ५३ ॥ लो॒कं पृ॑ण छि॒द्रं पृ॒णाथो॑ सीद ध्रु॒वा त्वम् । इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पति॑र॒स्मिन् योना॑वसीषदन् ॥ ५४ ॥ ता अ॑स्य॒ सूद॑दोहसः॒ सोमँ॑ श्रीणन्ति॒ पृश्न॑यः । जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ॥ ५५ ॥ इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिरः॑ । र॒थीत॑मँ र॒थीनां॒ वाजा॑नाँ॒ सत्प॑तिं॒ पति॑म् ॥ ५६ ॥ समि॑तँ॒ संक॑ल्पेथाँ॒ संप्रि॑यौ रोचि॒ष्णू सु॑मन॒स्यमानौ । इष॒मूर्ज॑म॒भि सं॒वसा॑नौ ॥ ५७ ॥ सं वां॒ मनाँ॑सि॒ सं व्र॒ता समु॑ चि॒त्तान्याक॑रम् । अग्ने॑ पुरीष्याधि॒पा भ॑व॒ त्वं न॒ इष॒मूर्जं॒ यज॑मानाय धेहि ॥ ५८ ॥ अग्ने॒ त्वं पु॑री॒ष्यो॒ रयि॒मान् पु॑ष्टि॒माँ२ऽ अ॑सि । शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वं योनि॑मि॒हाऽस॑दः ॥ ५९ ॥ भव॑तं नः॒ सम॑नसौ॒ सचे॑तसावरे॒पसौ॑ । मा य॒ज्ञँ हिँ॑सिष्टं॒ मा य॒ज्ञप॑तिं जातवेदसौ शि॒वौ भ॑वतम॒द्य नः॑ ॥ ६० ॥ मा॒तेव॑ पुत्रं पृ॑थिवी पु॑री॒ष्य॒म॒ग्निँ स्वे योना॑वभारु॒खा । तां विश्वै॑दे॒वैर्‍ऋ॒तुभिः॑ संविदा॒नः प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ वि मु॑ञ्चतु ॥ ६१ ॥ असु॑न्वन्त॒मय॑जमानमिच्छ स्ते॒नस्ये॒त्यामन्वि॑हि॒ तस्क॑रस्य । अ॒न्यमस्म॒दि॑च्छ॒ सा त॑ऽ इ॒त्या नमो॑ देवि निर्‍ऋते॒ तुभ्य॑मस्तु ॥ ६२ ॥ नमः॒ सु ते॑ निर्‍ऋते तिग्मतेजोऽय॒स्मयं॒ विचृ॑ता ब॒न्धमे॒॑तम् । य॒मेन॒ त्वं य॒म्या सं॑विदा॒नोत्त॒मे नाके॒ अधि॑रोहयैनम् ॥ ६३ ॥ यस्या॑स्ते घोर आ॒सञ्जु॒होम्ये॒षां ब॒न्धाना॑मव॒सर्ज॑नाय । यां त्वा॒ जनो॒ भूमि॒रिति॑ प्र॒मन्द॑ते॒ निर्‍ऋ॑तिं त्वा॒ऽहं परि॑वेद वि॒श्वतः॑ ॥ ६४ ॥ यं ते॑ दे॒वी निर्‍ऋ॑तिराब॒बन्ध॒ पाशं॑ ग्री॒वास्व॑विचृ॒त्यम् । तं ते॒ विष्या॒म्यायु॑षो॒ न मध्या॒दथै॒तं पि॒तुम॑द्धि॒ प्रसू॑तः । नमो॒ भूत्यै॒ येदं च॒कार॑ ॥ ६५ ॥ नि॒वेश॑नः स॒ङ्‍गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाऽभिच॑ष्टे॒ शची॑भिः । दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे प्॑अथी॒नाम् ॥ ६६ ॥ सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वित॑न्वते॒ पृथ॑क् । धीरा॑ दे॒वेषु॑ सुम्न॒या ॥ ६७ ॥ यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नुध्वं कृ॒ते योनौ॑ वपते॒ह बीज॑म् । गि॒रा च॑ श्रु॒ष्टि सभ॑रा॒ऽ अस॑न्नो॒ नेदी॑य॒ऽ इत्सृण्यः॒ प॒क्वमेया॑त् ॥ ६८ ॥ शु॒नँ सु फाला॒ वि कृ॑षन्तु॒ भूमिँ॑ शु॒नं की॒नाशा॑ऽ अ॒भिय॑न्तु वा॒हैः । शुना॑सीरा ह॒विषा॒ तोश॑माना सुपिप्प॒लाऽ ओष॑धीः कर्तना॒स्मै ॥ ६९ ॥ घृतेन॒ सीता॒ मधु॑ना॒ सम॑ज्यतां॒ विश्वै॑र्दे॒वैरनु॑मता म॒रुद्‍भिः॑ । ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒स्मान्त्सी॑ते॒ पय॑सा॒ऽभ्याव॑वृत्स्व ॥ ७० ॥ लाङ्‍ग॑लं॒ पवीरवत्सु॒शेवँ॑ सोम॒पित्स॑रु । तदुद्व॑पति॒ गामाविं॑ प्रफ॒र्व्यं॒ च॒ पीव॑रीं प्र॒स्थाव॑द्रथ॒वाह॑णम् ॥ ७१ ॥ कामं॑ कामदुधे धुक्ष्व मि॒त्राय॒ वरु॑णाय च । इन्द्रा॑या॒श्विभ्यां॑ पू॒ष्णे प्र॒जाभ्य॒ऽ ओष॑धीभ्यः ॥ ७२ ॥ विमु॑च्यध्वमघ्न्या देवयाना॒ऽ अग॑न्म॒ तम॑सस्पा॒रम॒स्य । ज्योति॑रापाम ॥ ७३ ॥ स॒जूरब्दो॒ऽ अय॑वोभिः स॒जूरु॒षा अरु॑णीभिः । स॒जोष॑साव॒श्विना॒ दँसो॑भिः स॒जूः सूर॒ऽ एत॑शेन स॒जूर्वै॑श्वान॒र इड॑या घृतेन॒ स्वाहा॑ ॥ ७४ ॥ या ओष॑धीः॒ पूर्वा॑ जा॒ता दे॒वभ्य॑स्त्रियु॒गम् पु॒रा । मनै॒ नु ब॒भ्रूणा॑म॒हँ श॒तं धामा॑नि स॒प्त च॑ ॥ ७५ ॥ श॒तं वो॑ अम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुहः॑ । अधा॑ शतक्रत्वो यूयमि॒मं मे॑ अग॒दं कृ॑त ॥ ७६ ॥ ओष॑धीः॒ प्रति॑मोदध्वं॒ पुष्प॑वतिः प्र॒सूव॑रीः । अश्वा॑ इव स॒जित्व॑रीर्वीरु॒धः॑ पारयि॒ष्णवः॒ ॥ ७७ ॥ ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ब्रुवे । स॒नेय॒मश्वं॒ गां वास॑ऽ आ॒त्मानं॒ तव॑ पूरुष ॥ ७८ ॥ अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता । गोभाज॒ऽ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ॥ ७९ ॥ यत्रोष॑धीः स॒मग्म॑त॒ राजा॑नः॒ समि॑ताविव । विप्रः॒ स उ॑च्यते भि॒षग्र॑क्षो॒हामी॑व॒चात॑नः ॥ ८० ॥ अ॒श्वा॒व॒तीँ सो॑माव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम् । आऽवि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ॥ ८१ ॥ उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते । धनँ॑ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष ॥ ८२ ॥ इष्कृ॑ति॒र्नाम॑ वो मा॒ताऽथो॑ यू॒यं स्थ॒ निष्कृ॑तीः । सी॒राः प॑त॒त्रिणी॑ स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ॥ ८३ ॥ अति॒ विश्वाः॑ परि॒ष्ठा स्ते॒न इ॑व व्र॒जम॑क्रमुः । ओष॑धीः॒ प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो रपः॑ ॥ ८४ ॥ यदि॒मा वा॒जय॑न्न॒हमोष॑धी॒र्हस्त॑ऽ आद॒धे । आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ॥ ८५ ॥ यस्यौ॑षधीः प्र॒सर्प॒थाङ्‍ग॑मङ्‍गं॒ परु॑ष्परुः । ततो॒ यक्ष्मं॒ वि बा॑धध्व उ॒ग्रो म॑ध्यम॒शीरि॑व ॥ ८६ ॥ सा॒कं य॑क्ष्म॒ प्रप॑त॒ चाषे॑ण किकिदी॒विना॑ । सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ॥ ८७ ॥ अ॒न्या वो॑ऽ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत । ताः सर्वाः॑ संविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वचः॑ ॥ ८८ ॥ याः फ॒लिनी॒र्याऽ अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः॑ । बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वँह॑सः ॥ ८९ ॥ मु॒ञ्चन्तु॑ मा शप॒थ्यादथो॑ वरु॒ण्या॒दु॒त । अथो॑ य॒मस्य॒ पड्वी॑शा॒त्सर्व॑स्माद्देवकिल्बि॒षात् ॥ ९० ॥ अ॒व॒पत॑न्तीरवदन्दि॒व ओष॑धय॒स्परि॑ । यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥ ९१ ॥ याऽ ओष॑धीः॒ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः । तासा॑म॒सि त्वमु॑त्त॒मारं॒ कामा॑य॒ शँ हृ॒दे ॥ ९२ ॥ या ओष॑धीः॒ सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑ । बृह॒स्पति॑प्रसूता अ॒स्यै संद॑त्त वीर्य॒म् ॥ ९३ ॥ याश्चे॒दमु॑पशृण्वन्ति॒ याश्च॑ दू॒रं परा॑गताः । सर्वाः॑ सं॒गत्य॑ वीरुधो॒ऽस्यै संद॑त्त वी॒र्य॒म् ॥ ९४ ॥ मा वो॑ रिषत् खनि॒ता यस्मै॑ चा॒हं खना॑मि वः । द्वि॒पाच्चतु॑ष्पाद॒स्माकँ॒ सर्व॑मस्त्वनातु॒रम् ॥ ९५ ॥ ओष॑धयः॒ सम॑वदन्त॒ सोमे॑न स॒ह राज्ञा॑ । यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्तँ रा॑जन् पारयामसि ॥ ९६ ॥ ना॒श॒यि॒त्री ब॒लास॒स्यार्श॑स उप॒चिता॑मसि । अथो॑ श॒तस्य॒ यक्ष्मा॑णां पाका॒रोर॑सि॒ नाश॑नी ॥ ९७ ॥ त्वां ग॑न्ध॒र्वा अ॑खनँ॒स्त्वामिन्द्र॒स्त्वाः बृह॒स्पतिः॑ । त्वामो॑षधे॒ सोमो॒ राजा॑ वि॒द्वान् यक्ष्मा॑दमुच्यत ॥ ९८ ॥ सहस्व मे॒ अरा॑तीः॒ सह॑स्व पृतनाय॒तः । सह॑स्व॒ सर्वं॑ पा॒प्मानँ॒ सह॑मानास्योषधे ॥ ९९ ॥ दी॒र्घायु॑स्त ओषधे खनि॒ता यस्मै॑ च त्वा॒ खना॑म्य॒हम् । अथो॒ त्वं दी॒र्घायु॑र्भू॒त्वा श॒तव॑ल्शा॒ विरो॑हतात् ॥ १०० ॥ त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षा उप॑स्तयः । उप॑स्तिरस्तु॒ सोऽस्माकं॒ यो अ॒स्माँ२ऽ अ॑भि॒दास॑ति ॥ १०१ ॥ मा मा॑ हिँसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवँ॑ स॒त्यध॑र्मा॒ व्यान॑ट् । यश्चा॒पश्च॒न्द्राः प्र॑थ॒मो ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ १०२ ॥ अ॒भ्या व॑र्तस्व पृथिवि य॒ज्ञेन॒ पय॑सा स॒ह । व॒पां ते॑ऽ अ॒ग्निरि॑षि॒तो अ॑रोहत् ॥ १०३ ॥ अग्ने॒ यत्ते॑ शु॒क्रं यच्च॒न्द्रं यत्पू॒तं यच्च॑ य॒ज्ञिय॑म् । तद्दे॒वेभ्यो॑ भरामसि ॥ १०४ ॥ इष॒मूर्ज॑म॒हमि॒त आद॑मृ॒तस्य॒ योनिं॑ महि॒षस्य॒ धारा॑म् । आ मा॒ गोषु॑ विश॒त्वा त॒नूषु॒ जहा॑मि से॒दिमनि॑रा॒ममी॑वाम् ॥ १०५ ॥ अग्ने॒ तव॒ श्रवो॒ वयो महि॑ भ्राजन्ते अ॒र्चयो॑ विभावसो । बृह॑द्‍भानो॒ शव॑सा॒ वाज॑मु॒क्थ्यं दधा॑सि दा॒शुषे॑ कवे ॥ १०६ ॥ पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒ अनू॑नवर्चा॒ऽ उदि॑यर्षि भा॒नुना॑ । पु॒त्रो मा॒तरा॑ वि॒चर॒न्नुपा॑वसि पृ॒णक्षि॒ रोद॑सीऽ उ॒भे ॥ १०७ ॥ ऊर्जो॑ नपाज्जातवेदः सुश॒स्तिभि॒र्मन्द॑स्व धी॒तिभि॑र्हि॒तः । त्वे इषः॒ सन्द॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑यो वा॒मज॑ताः ॥ १०८ ॥ इ॒र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो॑ऽ अमर्त्य । स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सानाअसिं क्रतु॑म् ॥ १०९ ॥ इ॒ष्क॒र्तार॑मध्व॒रस्य॒ प्रचे॑तसं॒ क्षय॑न्तँ॒ राध॑सो म॒हः । रा॒तिं वा॒मस्य॑ सु॒भगां॑ म॒हीमिषं॒ दधा॑सि सान॒सिँ र॒यिम् ॥ ११० ॥ ऋ॒तावा॑नं महि॒षं वि॒श्वद॑र्शतम॒ग्निँ सु॒म्नाय॑ दधिरे पु॒रो जनाः॑ । श्रुत्क॑र्णँ स॒प्रथ॑स्तमं त्वा गि॒रा दैव्यं॒ मानु॑षा यु॒गा ॥ १११ ॥ आ प्याय॑स्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्ण्य॑म् । भवा॒ वाज॑स्य सङ्‍ग॒थे ॥ ११२ ॥ सं ते॒ पयाँ॑सि॒ समु॑ यन्तु॒ वाजाः॒ सं वृष्ण्या॑न्यभिमाति॒षाहः॑ । आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवाँ॑स्युत्त॒मानि॑ धिष्व ॥ ११३ ॥ आप्या॑यस्व मदिन्तम॒ सोम॒विश्वे॑भिरँ॒शुभिः॑ । भवा॑ नः स॒प्रथ॑स्तमः॒ सखा॑ वृ॒धे ॥ ११४ ॥ आ ते॑ व॒त्सो मनो॑ यमत्पर॒माच्चि॑त्स॒धस्था॑त् । अग्ने॒ त्वाङ्‍का॑मया गि॒रा ॥ ११५ ॥ तुभ्यं॒ ता अ॑ङ्‍गिरस्तम॒ विश्वाः॑ सुक्षि॒तयः॒ पृथ॑क् । अग्ने॒ कामा॑य येमिरे ॥ ११६ ॥ अ॒ग्निः प्रि॒येषु॒ धाम॑सु॒ कामो॑ भू॒तस्य॒ भव्य॑स्य । स॒म्राडेको॒ विरा॑जति ॥ ११७ ॥ इति द्वादशोऽध्यायः ॥


ॐ तत् सत्



GO TOP