शुक्ल यजुर्वेदः - एकादशोऽध्यायः

शुक्ल यजुर्वेदः - एकादशोऽध्यायः



युन्ञ्जानः प्र॑थ॒मं मन॑स्त॒त्त्वाय॑ सवि॒ता धियः॑ । अ॒ग्नेर्ज्योति॑नि॒चाय्य॑ पृथि॒व्या अध्याऽभ॑रत् ॥ १ ॥ यु॒क्तेन॒ मन॑सा व॒यं दे॒वस्य॑ सवि॒तुः स॒वे । स्व॒र्ग्या॒य॒ शक्त्या॑ ॥ २ ॥ यु॒क्त्वाय॑ सवि॒ता दे॒वान्स्त्स्व॑र्य॒तो धि॒या दिव॑म् । बृ॒हज्ज्योतिः॑ करिष्य॒तः स॑वि॒ता प्रसु॑वाति॒ तान् ॥ ३ ॥ यु॒ञ्जते॒ मन॑ऽ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ । वि होत्रा॑ दधे वयुना॒विदेक॒ऽ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥ ४ ॥ यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वि श्लोक॑ऽ एतु प॒थ्ये॒व सू॒रेः । शृ॒ण्वन्तु॒ विश्वे॑ऽ अ॒मृत॑स्य पु॒त्राऽ आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः ॥ ५ ॥ यस्य॑ प्र॒याण॒मन्व॒न्यऽ इद्य॒युर्देवा॒ दे॒वस्य॑ म॒हिमान॒मोज॑सा । यः पार्थि॑वानि विम॒मे सऽ एत॑शो॒ रजाँ॑सि दे॒वः स॑वि॒ता म॑हित्व॒ना ॥ ६ ॥ देव॑ सवितः॒ प्रसु॑व य॒ज्ञं प्रसु॑व य॒ज्ञप॑तिं॒ भगा॑य । दि॒व्यो ग॑न्ध॒र्वः के॑त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाचं॑ नः स्वदतु ॥ ७ ॥ इ॒मं नो॑ देव सवितर्य॒ज्ञं प्रण॑य देवा॒व्यँ॒ सखि॒विदँ॑ सत्रा॒जितं॑ धन॒जितँ॑ स्व॒र्जित॑म् । ऋ॒चा स्तोमँ॒ सम॑र्धय गाय॒त्रेण॑ रथन्त॒रं बृ॒हद्‍गा॑य॒त्रव॑र्त्तनि॒ स्वाहा॑ ॥ ८ ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आद॑दे गाय॒त्रेण॒ छन्द॑साऽङ्‍गिर॒स्वत्पृ॑थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्यमङ्‍गिर॒स्वदा भर॒ त्रैष्टुभेन॒ छन्दसाऽङ्‍गिर॒स्वत् ॥ ९ ॥ अभ्रि॑रसि॒ नार्य॑सि॒ त्वया॑ व॒यम॒ग्निँ श॑केम॒ खनि॑तुँ स॒धस्थ॒ आ । जाग॑तेन॒ छन्द॑साऽङ्‍गिर॒स्वत् ॥ १० ॥ हस्त॑ऽ आ॒धाय॑ सवि॒ता बिभ्र॒दभ्रिँ॑ हिर॒ण्ययी॑म् । अ॒ग्नेर्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्या अध्याऽभ॑र॒दानु॑ष्टुभेन॒ छन्द॑साऽङ्‍ग्निर॒स्वत् ॥ ११ ॥ प्रतू॑र्तं वाजि॒न्ना द्र॑व॒ वरि॑ष्ठा॒मनु॑ सं॒वत॑म् । दि॒वि ते॒ जन्म॑ पर॒मम॒न्तरि॑क्षे॒ तव॒ नाभिः॑ पृथि॒व्यामधि॒ योनि॒रित् ॥ १२ ॥ यु॒ञ्जाथाँ॒ रास॑भं यु॒वम॒स्मिन् यामे॑ वृषण्वसू । अ॒ग्निं भर॑न्तमस्म॒युम् ॥ १३ ॥ योगे॑-योगे त॒वस्त॑रं॒ वाजे॑-वाजे हवामहे । सखा॑य॒ इन्द्र॑मू॒र्तये॑ ॥ १४ ॥ प्र॒तूर्व॒न्नेह्य॑व॒क्राम॒न्नश॑स्ती रु॒द्रस्य॒ गाण॑पत्यं मयो॒भूरेहि॑ । उ॒र्वन्तरि॑क्षं॒ वी॒हि स्व॒स्तिग॑व्यूति॒रभ॑यानि कृ॒ण्वन् पू॒ष्णा स॒युजा॑ स॒ह ॥ १५ ॥ पृ॒थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॒मङ्‍गिर॒स्वदाभ॑रा॒ग्निं पु॑री॒ष्य॒मङ्‍गिर॒स्वदच्छे॑मो॒ऽग्निं पु॑री॒ष्य॒मङ्‍गिर॒स्वद्‍भ॑रिष्यामः ॥ १६ ॥ अन्व॒ग्निरु॒षसा॒मग्र॑मख्य॒दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः । अनु॒ सूर्य॑स्य पुरु॒त्रा च॑ र॒श्मीननु॒ ध्यावा॑पृथि॒वी आ त॑तन्थ ॥ १७ ॥ आ॒गत्य॑ वा॒ज्यध्वा॑नँ॒ सर्वा॒ मृधो॒ वि धू॑नुते । अ॒ग्निँ स॒धस्थे॑ मह॒ति चक्षु॑षा॒ नि चिकी॑षते ॥ १८ ॥ आ॒क्रम्य॑ वाजिन् पृथि॒वीम॒ग्निमि॑च्छ रु॒चा त्वम् । भूम्या॑ वृ॒त्वाय॑ नो ब्रूहि॒ यतः॒ खने॑म॒ तं व॒यम् ॥ १९ ॥ द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी स॒ध॑स्थमा॒त्माऽन्तरि॑क्षँ समु॒द्रो योनिः॑ । वि॒ख्याय॒ चक्षु॑षा॒ त्वम॒भि ति॑ष्ठ पृतन्य॒तः ॥ २० ॥ उत्क्रा॑म मह॒ते सौभ॑गाया॒स्मादा॒स्थाना॑द् द्रविणो॒दा वा॑जिन् । व॒यँ स्या॑म सुम॒तौ पृ॑थि॒व्याऽ अ॒ग्निं खन॑न्तऽ उ॒पस्थे॑ऽ अस्याः ॥ २१ ॥ उद॑क्रमीद् द्रविणो॒दा वा॒ज्यर्वाकः॒ सुलो॒कँ सुकृ॑तं पृथि॒व्याम् । ततः॑ खनेम सु॒प्रती॑कम॒ग्निँ स्वो॒ रुहा॑णा॒ अधि॒ नाक॑मुत्त॒मम् ॥ २२ ॥ ॑आ त्वा जिघर्मि॒ मन॑सा घृ॒तेन॑ प्रतिक्षि॒यन्तं॒ भुव॑नानि॒ विश्वा॑ । पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒मन्नै॑ रभ॒सं दृशा॑नम् ॥ २३ ॥ आ वि॒श्वतः॑ प्र॒त्यञ्चं॑ जिघर्म्यर॒क्षसा॒ मन॑सा॒ तज्जुषेत । मर्य॑श्री स्पृह॒यद्व॑र्णो अ॒ग्निर्नाभि॒मृशे॑ त॒न्वा जर्भु॑राणः ॥ २४ ॥ परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् । दध॒द्रत्ना॑नि दा॒शुषे॑ ॥ २५ ॥ परि॑ त्वाऽग्ने॒ पुरं॑ व॒यं विप्रँ॑ सहस्य धीमहि । धृ॒षद्व॑र्णं दि॒वे-दि॑वे ह॒न्तारं॑ भङ्‍गु॒राव॑ताम् ॥ २६ ॥ त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वमद्‍भ्यस्त्वम्॒अश्म॑न॒स्परि॑ । त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ॥ २७ ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पूष्णो हस्ता॑भ्याम् । पृ॒थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॒मङ्‍गिर॒स्वत् ख॑नामि । ज्योति॑ष्मन्तं त्वाऽग्ने सु॒प्रती॑क॒मज॑स्रेण भा॒नुना॒ दीद्य॑तम् । शि॒वं प्र॒जाभ्योऽहिँ॑सन्तं पृथि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॒मङ्‍गिर॒स्वत्ख॑नामः ॥ २८ ॥ अ॒पां पृष्ठम॑सि॒ योनि॑र॒ग्नेः स॑मु॒द्रम॒भितः॒ पिन्व॑मानम् । वर्ध॑मानो म॒हाँ२ऽ आ च॒ पुष्क॑रे दि॒वो मात्र॑या वरि॒म्णा प्र॑थस्व ॥ २९ ॥ शर्म॑ च॒ स्थो वर्म॑ च॒ स्थोऽछिद्रे बहु॒ले उ॒भे । व्यच॑स्वती॒ सं व॑साथां भृ॒तम॒ग्निं पु॑री॒ष्य॒म् ॥ ३० ॥ सं व॑साथाँ स्व॒र्विदा॑ स॒मीची॒ उर॑सा॒ त्मना॑ । अ॒ग्निम॒न्तर्भरि॒ष्यन्ती॒ ज्योति॑ष्मन्त॒मज॑स्र॒मित् ॥ ३१ ॥ पु॒री॒ष्यो॒ऽसि वि॒श्वभ॑रा॒ अथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्ने । त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ॥ ३२ ॥ तमु॑ त्वा द॒ध्यङ्‍ङ्‍रुषिः॑ पु॒त्र ई॑धे॒ अथ॑र्वणः । वृत्र॒हणं॑ पुरन्द॒रम् ॥ ३३ ॥ तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् । ध॒न॒ञ्ज॒यँ रणे॑-रणे ॥ ३४ ॥ सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान्त्सा॒दया॑ य॒ज्ञँ सु॑कृ॒तस्य॒ योनौ॑ । दे॒वा॒वीर्दे॒वान्ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ॥ ३५ ॥ नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाँ२ऽ अ॑सदत्सु॒दक्षः॑ । अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठ: सहस्रम्भ॒रः शुचि॑जिह्वोऽ अ॒ग्निः ॥ ३६ ॥ सँसी॑दस्व म॒हाँ२ऽ अ॑सि॒ शोच॑स्व देव॒वीत॑मः वि धू॒मम॑ग्ने अरु॒षं मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒नम् ॥ ३७ ॥ अ॒पो दे॒वीरुप॑ सृज॒ मधु॑मतीरय॒क्ष्माय॑ प्र॒जाभ्यः॑ । तासा॑मा॒स्थाना॒दुज्जि॑हता॒मोष॑धयः सुपिप्प॒लाः ॥ ३८ ॥ सं ते॑ वा॒युर्मात॒रिश्वा॑ दधातूत्ता॒नाया॒ हृद॑यं॒ यद्विक॑स्तम् । यो दे॒वानां॒ चर॑सि प्रा॒णथे॑न॒ कस्मै॑ देव॒ वष॑डस्तु॒ तुभ्य॑म् ॥ ३९ ॥ सुजा॑तो॒ ज्योति॑षा स॒ह शर्म॒ वरू॑थ॒माऽस॑द॒त्स्वः॒ । वासो॑ अग्ने वि॒श्वरू॑पँ॒ सं व्य॑वस्व विभावसो ॥ ४० ॥ उदु॑ तिष्ठ स्वध्व॒रावा॑ नो दे॒व्या धि॒या । दृ॒शे च॑ भा॒सा बृ॑ह॒ता सु॑शु॒क्वनि॒राग्ने॑ याहि सुश॒स्तिभिः॑ ॥ ४१ ॥ ऊ॒र्ध्वऽ ऊ॒ षु ण॑ऽ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता । ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र्वा॒घद्‍भि॑र्वि॒ह्वया॑महे ॥ ४२ ॥ स जा॒तो गर्भो॑ असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु । चि॒त्रः शिशुः॒ परि॒ तमाँ॑स्य॒क्तून्प्र मा॒तृभ्यो॒ऽ अधि॒ कनि॑क्रदग्दाः ॥ ४३ ॥ स्थि॒रो भ॑व वी॒ड्व॒ङ्‍गऽ आ॒शुर्भ॑व वा॒ज्य॒र्वन् । पृ॒थुर्भ॑व सु॒षद॒स्त्वम॒ग्नेः पु॑रीष॒वाह॑णः ॥ ४४ ॥ शि॒वो भ॑व प्र॒जाभ्यो॒ मानु॑षीभ्य॒स्त्वम॑ङ्‍गिरः । मा द्यावा॑पृथि॒वीऽ अ॒भि शो॑ची॒र्मांऽतरि॑क्षं॒ मा वन॒स्पती॑न् ॥ ४५ ॥ प्रैतु॑ वा॒जी कनि॑क्रद॒न्नान॑द॒द्रास॑भः॒ पत्वा॑ । भर॑न्न॒ग्निं पु॑री॒ष्यं मा पा॒द्यायु॑षः पु॒रा । वृषा॒ग्निं वृष॑णं॒ भर॑न्न॒पां गर्भँ॑ समु॒द्रिय॑म् । अग्न॒ऽ आया॑हि वी॒तये॑ ॥ ४६ ॥ ऋ॒तँ स॒त्यमृ॒तँ स॒त्यम॒ग्निं पु॑री॒ष्य॒मङ्‍गिर॒स्वद्‍भ॑रामः । ओष॑धयः॒ प्रति॑मोदध्वम॒ग्निमे॒तँ शि॒वमा॒यन्त॑म॒भ्यत्र॑ यु॒ष्माः । व्यस्य॒न् विश्वा॒ऽ अनि॑रा॒ऽ अमी॑वा नि॒षीद॑न्नो॒ऽ अप॑ दुर्म॒तिं ज॑हि ॥ ४७ ॥ ओष॑धयः॒ प्रति॑गृभ्णीत॒ पुष्प॑वतीः सुपिप्प॒लाः । अ॒यं वो॒ गर्भ॑ ऋ॒त्वियः॑ प्र॒त्नँ स॒धस्थ्॒अमाऽस॑दत् ॥ ४८ ॥ वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी॑वाः । सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒हँ सु॒हव॑स्य॒ प्रणी॑तौ ॥ ४९ ॥ आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥ ५० ॥ यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ॥ ५१ ॥ तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ ५२ ॥ मि॒त्रः सँ॒सृज्य॑ पृथि॒वीं भूमीं॑ च॒ ज्योति॑षा स॒ह । सुजा॑तं जा॒तवे॑दसमय॒क्ष्माय॑ त्वा॒ सँ सृ॑जामि प्र॒जाभ्यः॑ ॥ ५३ ॥ रुद्राः सँ॒सृज्य॑ पृथि॒वीं बृ॒हज्ज्योतिः॒ समी॑धिरे । तेषां भा॒नुरज॑स्र॒ऽ इच्छु॒को दे॒वेषु॑ रोचते ॥ ५४ ॥ सँसृ॑ष्टां॒ वसु॑भी रु॒द्रैर्धीरैः॑ कर्म॒ण्यां मृद॑म् । हस्ता॑भ्यां मृ॒द्वीं कृ॒त्वा सि॑नीवा॒ली कृ॑णोतु॒ ताम् ॥ ५५ ॥ सि॒नी॒वा॒ली सु॑कप॒र्दा सु॑कुरी॒रा स्वौ॑प॒शा । सा तुभ्य॑मदिते म॒ह्योखां द॑धातु॒ हस्त॑योः ॥ ५६ ॥ उ॒खां कृ॑णोतु॒ शक्त्या॑ बा॒हुभ्या॒मदि॑तिर्धि॒या । मा॒ता पु॒त्रं यथो॒पस्थे॒ साऽग्निं बि॑भर्त्तु॒ गर्भ॒ऽ आ । म॒खस्य॒ शिरो॑ऽसि ॥ ५७ ॥ वस॑वस्त्वा कृण्वन्तु गाय॒त्रेण॒ छन्द॑साऽङ्‍गिर॒स्वद्‍ध्रु॒वाऽसि॑ पृथि॒व्य॒सि धा॒रया॒ मयि॑ प्र॒जाँ रा॒यस्पोषं॑ गौप॒त्यं सु॒वीर्यँ॑ सजा॒तान्यज॑मानाय रु॒द्रास्त्वा॑ कृण्वन्तु॒ त्रिष्टु॑भेन॒ छन्द॑साऽङ्‍गिर॒स्वद्‍ध्रु॒वाऽस्य॒न्तरि॑क्षमसि धा॒रया॒ मयि॑ प्र॒जाँ रा॒यस्पोषं॑ गौप॒त्यं सु॒वीर्यँ॑ सजा॒तान्यज॑मानायादि॒त्यास्त्वा॑ कृण्वन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्‍गिर॒स्वद्‍ध्रु॒वाऽसि॒ द्यौर॑सि धा॒रया॒ मयि॑ प्र॒जाँ रा॒यस्पोषं॑ गौप॒त्यं सु॒वीर्यँ॑ सजा॒तान्यज॑मानाय॒ विश्वे॑ त्वा देवा वै॑श्वान॒राः कृ॑ण॒वन्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्‍गिर॒स्वद्‍ध्रु॒वाऽसि॒ दिशो॑ऽसि धा॒रया॒ मयि॑ प्र॒जाँ रा॒यस्पोषं॑ गौप॒त्यं सु॒वीर्यँ॑ सजा॒तान्यज॑मानाय ॥ ५८ ॥ अदि॑त्यै॒ रस्ना॒स्यदि॑तिष्टे॒ बिलं॑ गृभ्णातु । कृत्वाय॒ सा म॒हीमु॒खां मृ॒न्मयीं॒ योनि॑म॒ग्नये॑ । पु॒त्रेभ्यः॒ प्राय॑च्छ॒ददि॑तिः श्र॒पया॒निति॑ ॥ ५९ ॥ वस॑वस्त्वा धूपयन्तु गाय॒त्रेण॒ छन्द॑साऽङ्‍गिर॒स्वद्रुद्रास्त्वा॑ धूपयन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साङ्ऽगिर॒स्वदा॑दि॒त्यास्त्वा॑ धूपयन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्‍गिर॒स्वद्विश्वे॑ त्वा दे॒वा वै॑श्वान॒रा धू॑पय॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्‍गिर॒स्वदिन्द्र॑स्त्वा धूपयतु॒ वरु॑णस्त्वा धूपयतु॒ विष्णु॑स्त्वा धूपयतु ॥ ६० ॥ अदि॑तिष्ट्वा दे॒वी वि॒श्वदे॑व्यावती पृथि॒व्याः स॒धस्थे॑ऽ अङ्‍गिर॒स्वत् ख॑नत्ववट दे॒वानां॑ त्वा॒ पत्नी॑र्दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽ अङ्‍गिर॒स्वद्द॑धतूखे धि॒षणा॑स्त्वा देवीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽ अङ्‍गिर॒स्वद॒भी॒न्धतामुखे वरू॑त्रीष्ट्वा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽ अङ्‍गिर॒स्वच्छ्र॑पयन्तूखे॒ ग्नास्त्वा॑ दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽ अङ्‍गिर॒स्वत्प॑चन्तूखे॒ जन॑य॒स्त्वाछि॑न्नपत्रा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽ अङ्‍गिर॒स्वत्प॑चन्तूखे ॥ ६१ ॥ मि॒त्रस्य॑ चर्षणी॒धृतोऽवो॑ दे॒वस्य॑ सान॒सि । द्यु॒म्नं चि॒त्रश्र॑वस्तमम् ॥ ६२ ॥ दे॒वस्त्वा॑ सवि॒तोद्व॑पतु सुपा॒णिः स्व॑ङ्‍गु॒रिः सु॑बा॒हुरु॒त शक्त्या॑ । अव्य॑थमाना पृथि॒व्यामाशा॒ दिश॒ आऽ पृ॑ण ॥ ६३ ॥ उ॒त्थाय॑ ब्रुह॒ती भ॒वोदु॑ तिष्ठ ध्रु॒वा त्वम् । मित्रै॒तां त॑ऽ उ॒खां परि॑ददा॒म्यभि॑त्याऽ ए॒षा मा भे॑दि ॥ ६४ ॥ वस॑व॒स्त्वाऽऽछृ॑न्दन्तु गाय॒त्रेण॒ छन्द॑साऽङ्‍गिर॒स्वद्रु॒द्रास्त्वाऽऽछृ॑न्दन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्‍गिर॒स्वदा॑दित्यास्त्वाऽऽछृ॑न्दन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्‍गिर॒स्वद्विश्वे॑ त्वा दे॒वा वै॑श्वान॒रा आछृ॑न्द॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्‍गिर॒स्वत् ॥ ६५ ॥ आकू॑तिम॒ग्निं प्र॒युजँ॒ स्वाहा॒ मनो॑ मे॒धाम॒ग्निं प्र॒युजँ॒ स्वाहा॑ चि॒त्तं विज्ञा॑तम॒ग्निं प्र॒युजँ॒ स्वाहा॑ वा॒चो विधृ॑तिम॒ग्निं प्र॒युजँ॒ स्वाहा॑ प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॒ऽग्नये॑ वैश्वान॒राय॒ स्वाहा॑ ॥ ६६ ॥ विश्वो॑ दे॒वस्य॑ ने॒तुर्मतो॑ वुरीत स॒ख्यम् । विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑ ॥ ६७ ॥ मा सु भि॑त्था॒ मा सु रि॒षोऽम्ब॑ धृ॒ष्णु वी॒रय॑स्व॒ सु । अ॒ग्निश्चे॒दं क॑रिष्यथः ॥ ६८ ॥ दृँह॑स्व देवि पृथिवि स्व॒स्तय॑ऽ आसु॒री मा॒या स्व॒धया॑ कृ॒ताऽसि॑ । जुष्टं॑ दे॒वेभ्य॑ इ॒दम॑स्तु ह॒व्यमरि॑ष्टा॒ त्वमुदि॑हि य॒ज्ञेऽ अ॒स्मिन् ॥ ६९ ॥ द्रव॑न्नः स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे॑ण्यः । सह॑सस्पु॒त्रो अद्‍भु॑तः ॥ ७० ॥ पर॑स्या॒ऽ अधि॑ सं॒वतोऽव॑राँ२ऽ अ॒भ्यात॑र । यत्रा॒हमस्मि॒ ताँ२ऽ अ॑व ॥ ७१ ॥ प॒र॒मस्याः॑ परा॒वतो॑ रो॒हिद॑श्व इ॒हाग॑हि । पु॒री॒ष्यः॒ पुरुप्रि॒योऽग्ने॒ त्वं त॑रा॒ मृधः॑ ॥ ७२ ॥ यद॑ग्ने॒ कानि॒ कानि॑ चि॒दा ते॒ दारु॑णि द॒ध्मसि॑ । सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॑षस्व यविष्ठ्य ॥ ७३ ॥ यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति । सर्वं॒ तद॑स्तु ते घृतं तज्जु॑षस्व यविष्ठ्य ॥ ७४ ॥ अह॑रह॒रप्र॑यावं॒ भर॒न्तोऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम॑स्मै । रायस्पोषे॑ण॒ समि॒षा मद॒न्तोऽग्ने॒ मा ते॒ प्रति॑वेशा रिषाम ॥ ७५ ॥ नाभा॑ पृथि॒व्याः स॑मिधा॒ने अ॒ग्नौ रा॒यस्पोषा॑य बृह॒ते ह॑वामहे । इ॒र॒म्म॒दं बृ॒हदु॑क्थं॒ यज॑त्रं॒ जेता॑रम॒ग्निं पूत॑नासु सास॒हिम् ॥ ७६ ॥ याः सेना॑ऽ अ॒भीत्व॑रीराव्या॒धिनी॒रुग॑णाऽ उ॒त । ये स्ते॒ना ये च॒ तस्क॑रा॒स्ताँस्ते॑ऽ अ॒ग्नेऽपि॑दधाम्या॒स्ये॒ ॥ ७७ ॥ दँष्ट्रा॑भ्यां म॒लिम्लू॒ञ्जम्भै॒स्तस्क॑राँ२ऽ उ॒त । हनु॑भ्याँ स्ते॒नान् भ॑गव॒स्ताँस्त्वं खा॑द॒ सुखा॑दितान् ॥ ७८ ॥ ये जने॑षु म॒लिम्ल॑व स्ते॒नास॒स्तस्क॑रा॒ वने॑ । ये कक्षे॑ष्वघा॒यव॒स्ताँस्ते॑ दधामि॒ जम्भ॑योः ॥ ७९ ॥ यो अ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒ द्वेष॑ते॒ जनः॑ । निन्दा॒द्यो अ॒स्मान्धिप्सा॑च्च॒ सर्वं॒ तं म॑स्म॒सा कु॑रु ॥ ८० ॥ सँशि॑तं मे॒ ब्रह्म॒ सँशि॑तं वी॒र्यं बल॑म् । सँशि॑तं क्ष॒त्रं जि॒ष्णु यस्या॒हमस्मि॑ पु॒रोहि॑तः ॥ ८१ ॥ उदे॑षां बा॒हू अ॑तिर॒मुद्वर्चो॒ अथो बल॑म् । क्षि॒णोमि॒ ब्रह्म॑णा॒ऽमित्रा॒नुन्न॑यामि॒ स्वाँ२ऽ अ॒हम् ॥ ८२ ॥ अन्न॑प॒तेऽन्न॑स्य नो देह्यनमी॒वस्य॑ शु॒ष्मिणः॑ । प्र-प्र॑ दा॒तारं॑ तारिष॒ ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ॥ ८३ ॥ इति एकादशोऽध्यायः ॥


ॐ तत् सत्



GO TOP