|
शुक्ल यजुर्वेद - अष्टमोऽध्यायः
उ॒प॒या॒गृ॑हीतोऽस्यादि॒त्येभ्य॑स्त्वा । विष्ण॑ उरुगायै॒ष ते॒ सोम॒स्तँ र॑क्षस्व॒ मा त्वा॒ दभन् ॥ १ ॥
क॒द च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ । उपो॒पेन्नु म॑घव॒न् भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यत आदि॒त्येभ्य॑स्त्वा ॥ २ ॥
क॒दा च॒न प्र यु॑च्छस्यु॒भे नि पा॑सि॒ जन्म॑नी । तुरी॑यादित्य॒ सव॑नं त इन्द्रि॒यमात॑स्थाव॒मृतं॑ दि॒व्या॒दि॒त्येभ्य॑स्त्वा ॥ ३ ॥
य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑ । आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्यादँ॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑दादि॒त्येभ्य॑स्त्वा ॥ ४ ॥
विव॑स्वन्नादित्यै॒ष ते॑ सोमपी॒थस्तस्मि॑न् मत्स्व । शद॑स्मै नरो॒ वर्च॑से दधातन॒ यदा॑शी॒र्दा दम्प॑ती वा॒मम॑श्नुतः । पुमा॑न् पु॒त्रो जा॑यते वि॒न्दते॒ वस्वधा॑ वि॒श्वाहा॑र॒प ए॑धते गृहे ॥ ५ ॥
वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वे दि॑वे वा॒मम॒स्मभ्यँ॑ सावीः । वा॒मस्य॒ हि क्षय॑स्य देव॒ भुरे॑र॒या धि॒या वा॑म॒भाजः॑ स्याम ॥ ६ ॥
उ॒प॒या॒गृ॑हीतोऽसि सावि॒त्रो॒ऽसि चनो॒धाश्च॑नो॒धा अ॑सि॒ चनो॒ मयि॑ धेहि जिन्व॑ य॒ज्ञं जिन्व॑ य॒ज्ञपतिं॒ भगा॑य दे॒वाय॑ त्वा सवि॒त्रे ॥ ७ ॥
उ॒प॒या॒गृ॑हीतोऽसि सु॒शर्मा॑ऽसि सुप्रतिष्ठा॒नो बृ॒हदु॑क्षाय॒ नमः॑ । विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र्विश्वे॑ब्यस्त्वा दे॒वेध्यः॑ ॥ ८ ॥
उ॒प॒या॒मगृ॑हीतोऽसि॒ बृह॒स्पति॑सुतस्य देव सोम त॒ इन्द्रो॑रिन्द्रि॒याव॑तः॒ पत्नी॑वतो॒ ग्रहाँ॑२ ऋध्यासम् । अहं प॒रस्ता॑द॒हम्॒अवस्ता॒द्यद॒न्तरि॑क्षं॒ तदु॑ मे पिताऽभू॑त् । अ॒हँ सूर्य॑मुभ॒यतो॑ ददर्शा॒हं देवानां॑ पर॒मं गुहा॒ यत् ॥ ९ ॥
अग्ना३इ पत्नी॑वन्त्स॒जूर्दे॒वेन॒ त्वष्ट्रा सोमं॑ पिब॒ स्वाहा॑ । प्र॒जाप॑ति॒र्वृषा॑ऽसि रेतो॒धा रेतो॒ मयि॑ धेहि प्र॒जाप॑तेस्ते॒ वृष्णो॑ रेतो॒धसो॑ रेतो॒धाम॑शीय ॥ १० ॥
उ॒प॒या॒मगृ॑हीतोऽसि॒ हरि॑रसि हारियोज॒नो हरि॑भ्यां त्वा । हर्यो॑र्धा॒ना स्थ॑ स॒हसो॑मा॒ इन्द्रा॑य ॥ ११ ॥
यस्ते॑ अश्व॒सनि॑र्भ॒क्षो यो गो॒सनि॒स्तस्य॑ त इ॒ष्टय॑जुष स्तु॒तस्तो॑मस्य श॒स्तोक्थ॒स्योप॑हूत॒स्योप॑हूतो भक्षयामि ॥ १२ ॥
दे॒वकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि मनु॒ष्य॒कृत॒स्यैन॑सोऽव॒यज॑नमसि पि॒तृकृ॑त॒स्यैन॑सोऽव॒यज॑नमस्या॒त्मकृत॒स्यैन॑सोऽव॒यज॑नम॒स्येन॑स एनसोऽव॒यज॑नमसि । यच्चा॒हमेनो॑ वि॒द्वाँश्च॒कार॒ यच्चवि॑द्वाँ॒स्तस्य॒ सर्व॒सयिन॑सोऽव॒यज॑नमसि ॥ १३ ॥
सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सँ शि॒वेन॑ । त्वष्टा॑ सु॒दत्रो॒ वि द॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो यद्विलि॑ष्टम् ॥ १४ ॥
समि॑न्द्रो णो॒ मन॑सा नेषि॒ गोभिः॒ सँ सू॒रिभि॑र्मघव॒न्सँ स्व॒स्त्या । सं ब्रह्म॑णा दे॒व्कृ॑तं॒ यदस्ति॒ सं दे॒वानाँ॑ सुम॒तौ य॒ज्ञिया॑नाँ॒ स्वाहा॑ ॥ १५ ॥
सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सँ शि॒वेन॑ त्वष्टा॑ सु॒दत्रो॒ वि द॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो यद्विलि॑ष्टम् ॥ १६ ॥
धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्तां प्र॒जाप॑तिर्निधि॒पा दे॒वो अ॒ग्निः । त्वष्टा॒ विष्णुः॑ प्र॒जया॑ सँररा॒णा यज॑मानाय॒ द्रवि॑णं दधात॒ स्वाहा॑ ॥ १७ ॥
सु॒गा वो॑ देवाः॒ सद॑ना अकर्म॒ य आ॑ज॒ग्मेदँ सव॑नं जुषा॒णाः । भर॑माणा॒ वह॑माना ह॒वीँष्य॒स्मे ध॑त्त वसवो॒ वसू॑नि॒ स्वहा॑ ॥ १८ ॥
याङ् आऽव॑ह उश॒तो दे॑व दे॒वाँस्तान् प्रेर॑य॒ स्वे अ॑ग्ने स॒धस्थे॑ । ज॒क्षि॒वाँसः॑ पपि॒वाँस॑श्च॒ विश्वेऽसुं॑ घ॒र्मँ स्व॒राति॑ष्ठ॒तानु॒ स्वाहा॑ ॥ १९ ॥
व॒यँ हि त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्नग्ने॒ होता॑र॒मवृ॑णीमही॒ह । ऋध॑गया॒ ऋध॑गु॒ताश॑मिष्ठाः प्रजा॒नन् य॒ज्ञमुप॑ याहि वि॒द्वान्स्त्वाहा॑ ॥ २० ॥
देवा॑ गारुविदो गा॒तुं वि॒त्त्वा गा॒तुमि॑त । मन॑सस्पत इ॒मं दे॑व य॒ज्ञँ स्वाहा॒ वाते॑ धाः ॥ २१ ॥
यज्ञ॑ य॒ज्ञं ग॑च्छ य॒ज्ञप॑तिं गच्छ॒ स्वां योनिं गच्छ॒ स्वाहा॑ । ए॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसू॑क्तवाकः॒ सर्व॑वीर॒स्तं जु॑षस्व॒ स्वाहा॑ ॥ २२ ॥
माहि॑र्भु॒र्मा पृदा॑कुः । उ॒रुँ हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वा उ॑ । अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् । नमो॒ व॑रुणाया॒भिष्ठि॑तो॒ वरु॑णस्य॒ पाशः॑ ॥ २३ ॥
अ॒ग्नेरनी॑कम॒प आ वि॑वेशा॒पां नपा॑त् प्रति॒रक्ष॑न्नसू॒र्य॒म् । दमे॑दमे स॒मिधं॑ यक्ष्यग्ने॒ प्रति॑ ते जि॒ह्वा घृतमुच्च॑रण्य॒त् स्वाहा॑ ॥ २४ ॥
स॒मुद्रे ते॒ हृद॑यम॒प्स्वन्तः सं त्वा॑ विश॒न्त्वोष॑धीरु॒तापः॑ । य॒ज्ञस्य॑ त्वा यज्ञपते सूक्तोक्तौ॑ नमोवा॒के वि॑धेम॒ यत् स्वाहा॑ ॥ २५ ॥
देवी॑राप ए॒ष वो॒ गर्भ॒स्तँ सुप्री॑तँ॒ सुभृ॑तं बिभ्ह्रुत । देव॑ सोमै॒ष ते॑ लो॒कस्तस्मि॒ञ्छं च॒ वक्ष्व॒ परि॑ च वक्ष्व ॥ २६ ॥
अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पु॒णः । अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽयासिष॒मव॒ मत्र्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि । दे॒वानाँ॑ स॒मिद॑सि ॥ २७ ॥
एज॑तु॒ दश॑मास्यो॒ गर्भो॑ ज॒रायु॑णा स॒ह । यथा॒ऽयं व॒युरेज॑ति॒ यथा॑ समुद्र एज॑ति । ए॒वायं दश्॑अमास्यो॒ अस्र॑ज्ज॒रायु॑णा स॒ह ॥ २८ ॥
यस्यै॑ ते य॒ज्ञियो॒ गर्भो॒ यस्यै॒ योनि॑र्हिरण्ययी॑ । अङ्गा॒न्यह्रु॑ता॒ यस्य॒ तं मा॒त्रा सम॑जीगमँ॒ स्वाहा॑ ॥ २९ ॥
पुरु॒द॒स्मो विषु॑रूप॒ इन्दु॑र॒न्तर्म॑हि॒मान॑मानञ्ज॒ धीरः॑ । एक॑पदिं द्वि॒पदिं॑ त्रि॒पदीं॒ चतु॒ष्पदीम॒ष्टाप॑दीं॒ भ्व॒नानु॑ प्रथन्ताँ॒ स्वहा॑ ॥ ३० ॥
मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महस्ः । स सु॑गो॒पात॑मो॒ जनः॑ ॥ ३१ ॥
म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः ॥ ३२ ॥
आ ति॑ष्ट वृत्रह॒न्रथं॑ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी॑ । अ॒र्वा॒चीनं॒ सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना । उ॒प॒या॒मगृ॑हीतोऽसीन्द्रा॑य त्वा षड॒शिन॑ । ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ॥ ३३ ॥
यु॒क्ष्वा हि के॒शिना॒ हरी॒ वृष॑णा कक्ष्य॒प्रा । अथा॑ न इन्द्र सोमपा गि॒रीमुप॑श्रुतिं चर । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन । ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ॥ ३४ ॥
इन्द्र॒मिद्धरी॑ वह॒तोऽप्र॑तिधृष्टशवसम् । ऋषी॑णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणाम् । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ । ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ॥ ३५ ॥
यस्मा॒न्न जा॒तः परो॑ अ॒न्यो अस्ति॒ य आ॑वि॒वेश॒ भुव॑नानि॒ विश्वा॑ । प्र॒जापतिः॑ प्र॒जया॑ सँररा॒णस्त्रीणि॒ ज्योतीँ॑शि सचते॒ स षो॑ड॒शी ॥ ३६ ॥
इन्द्र॑श्च स॒म्राड् वरु॑णश्च॒ राजा॒ तौ ते॑ भ॒क्षं च॑क्रतु॒रग्र॑ ए॒तम् । तयो॑र॒हमनु॑ भ॒क्षं भ॑क्षयामि॒ वाग्दे॒वी जु॑षा॒णा सोम॑स्य तृप्ततु स॒ह प्रा॒णेन॒ स्वाहा॑ ॥ ३७ ॥
अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य॑म् । दध॑द्र॒यिं मयि॒ पोष॑म् । उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा॒ वर्च॑स ए॒ष ते॒ योनि॑र॒ग्नये॑ त्वा॒ वर्च॑सि । अग्ने॒ वर्चस्वि॒न्वर्च॑स्वाँ॒स्त्वं दे॒वेष्वसि॒ वर्च॑स्वान॒हं म॑नु॒ष्ये॒षु भयासम् ॥ ३८ ॥
उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः । सोम॑मिन्द्र च॒मू सु॒तम् । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य॒ त्वौज॑स ए॒ष ते॒ योनि॑रिन्द्रा॑य॒ त्वौज॑से । इन्द्रौ॑जि॒ष्ठौजि॑ष्ठ॒स्त्वं दे॒वेष्वस्योजि॑ष्ठो॒ऽहं म॑नु॒ष्ये॒षु भूयासम् ॥ ३९ ॥
अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒२ अनु॑ । भ्राज॑न्तो अ॒ग्नयो॑ यथा । उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा भ्रा॒जायैष ते॒ योनिः॒ सूर्या॑य त्वा भ्रा॒जाय॑ । सूर्य॑ भ्राजिष्ठ॒ भ्राजि॑ष्ठ॒स्त्वं दे॒वेष्वसि॒ भ्राजि॑ष्ठो॒ऽहं म॑नुष्ये॒षु भूयासम् ॥ ४० ॥
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य॑म् । उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्य॑य त्वा भ्रा॒जायै॒ष ते॒ योनिः॒ सूर्या॑य त्वा भ्रा॒जाय॑ ॥ ४१ ॥
आ जि॑घ्र क॒लशं॑ म॒ह्या त्वा॑ विश॒न्त्विन्द॑वः । पुन॑रू॒र्जा नि व॑तस्व॒ सा नः॑ स॒हस्रं॑ धुक्ष्वो॒रुधा॑रा॒ पय॑स्वती॒ पुन॒र्मा वि॑शताद्र॒यी ॥ ४२ ॥
इडे॒ रन्ते॒ हव्ये॒ काम्ये॒ चन्द्रे॒ ह्योतेऽदि॑ते॒ सर॑स्वति॒ महि॒ विश्रु॑ति । ए॒ता ते॑ अघ्न्ये॒ नामा॑नि दे॒वेभ्यो॑ मा सु॒कृतं॑ ब्रूतात् ॥ ४३ ॥
वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः । यो अ॒स्माँ२ अ॑भि॒दास॒त्यध॑रं गमया॒ तमः॑ । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒मृध॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒मृधे॑ ॥ ४४ ॥
वाचस्पतिं॑ वि॒श्वक॑र्माणिमू॒तये मनो॒जुवं॒ वाजे॑ अ॒ध्या हु॒वेम । स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒श्वक॑र्मण ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒श्वक॑र्मणे ॥ ४५ ॥
विश्व॑कर्मन् ह॒विषा॒ वर्ध॑नेन त्रा॒तामिन्द्र॑मकृणोरव॒ध्यम् । तस्मै॒ विशः॒ सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो वि॒हव्यो॒ यथाऽस॑त् । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒श्वक॑र्मण ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒श्वक॑र्मणे ॥ ४६ ॥
उ॒प॒या॒मगृ॑हीतो॒ऽस्य॒ग्नये॑ त्वा गाय॒त्रछ॑न्दसं गृह्णा॒मीन्द्रा॑य त्वा त्रि॒ष्टुप्छ॑न्दसं गृह्णामि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्यो॒ जग॑च्छन्दसं गृह्णाम्यनु॒ष्टुप्ते॑ऽभिग॒रः ॥ ४७ ॥
व्रेशी॑नां त्वा॒ पत्म॒न्ना धू॑नोमि कुकू॒नना॑नां त्वा॒ पत्म॒न्ना धू॑नोमि भ॒न्दना॑नां त्वा॒ पत्म॒न्ना धू॑नोमि म॒दिन्त॑मानां त्वा॒ पत्म॒न्ना धू॑नोमि म॒धुन्त॑मानां त्वा॒ पत्म॒न्ना धू॑नोमि शु॒क्रं त्वा॑ शु॒क्र धू॑नो॒म्यह्नो॑ रू॒पे सूर्य॑स्य र॒श्मिषु॑ ॥ ४८ ॥
ककु॒भँ रू॒पं वृ॑ष॒भस्य॑ रोचते बृ॒हच्छु॒क्रः शु॒क्रस्य॑ पुरो॒गाः सोमः॒ सोम॑स्य पुरो॒गाः । यत्ते॑ सो॒मादा॑भ्यं॒ नाम॒ जागृ॑वि॒ तस्मै॑ त्वा गृह्णामि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा॑ ॥ ४९ ॥
उ॒शिक् त्वं दे॑व सोमा॒ग्नेः प्रि॒यं पाथोऽस्]पी॑हि व॒शी त्वं दे॑व सो॒मेन्द्र॑स्य प्रि॒यं पाथूऽपी॑ह्य॒स्मत्स॑खा॒ त्वं दे॑व सोम॒ विश्वे॑षां दे॒वानां॑ प्रि॒यं पाथोऽपी॑हि ॥ ५० ॥
इ॒ह रति॑रि॒ह र॑मध्वमि॒ह धिति॑रि॒ह स्वधृ॑तिः॒ स्वाहा॑ । उ॒प॒सृ॒जन् ध॒रुणं॑ मा॒त्रे धरुणो॑ मा॒र्तरं॒ धय॑न् । रा॒यस्पोष॑म॒स्मासु॑ दीधर॒त् स्वाहा॑ ॥ ५१ ॥
स॒त्रस्य॒ ऋद्धि॑र॒स्यग॑न्म॒ ज्योति॑र॒मृता॑ अभूम । दिवं॑ पृथि॒व्या अध्याऽरु॑हा॒मावि॑दाम दे॒वान्त्स्व॒र्ज्योतिः॑ ॥ ५२ ॥
यु॒वं॑ तमि॑म्द्रापर्वता पु॒रो॒युधा॒ यो नः॑ पृत॒न्यादप॒ तं-त॒मिद्ध॑तं॒ वज्रे॑ण॒ तं- त॒मिद्ध॑तं । दू॒रे च॒त्तय॑ छन्त्स॒द्गह॑नं॒ यदिन॑क्षत् । अ॒स्माकँ॒ शत्रु॒उन्परि॑ शूर वि॒श्वतो॑ द॒र्मा द॑र्षीष्ट वि॒श्वतः॑ । भूर्भुवः॒ स्वः॒ सुप्र॒जाः प्र॒जाभिः स्याम सुवीरा॑ वी॒राइः सुपोषा॒ पोषैः॑ ॥ ५३ ॥
प॒र॒मे॒ष्ठ्यभिधी॑तः प्र॒जाप॑तिर्वा॒चि व्याहृ॑ताया॒मन्धो॒ अच्छे॑तः । सवि॒ता स॒न्यां वि॒श्वक॑र्मा दी॒क्षायां॑ पू॒षा सो॑म॒क्रय॑ण्या॒म् ॥ ५४ ॥
इन्द्र॑श्च म॒रुत॑श्च क्र॒यायो॒पोत्थि॒तो ऽसु॑रः प॒ण्यमा॑नो मि॒त्रः क्री॒तो विष्णुः॑ शिपिवि॒ष्ट उ॒रावास॑न्नो॒ विष्णु॑र्न॒रन्धि॑षः ॥ ५५ ॥
प्रो॒ह्यमा॑णः॒ सोम॒ आग॑तो॒ वरु॑ण आस॒न्द्यामास॑न्नो॒ ऽग्निराग्नी॑ध्र॒ इन्द्रो॑ हवि॒र्धाने ऽथ॑र्वोपावह्रियमा॑णः॒ ॥ ५६ ॥
विश्वे॑ दे॒व अँ॒सुषु॒ न्युप्तो॒ विष्णु॑राप्रीत॒पा आ॑प्या॒य्यमा॒नो य॒मः सूयमा॑नो॒ विष्णुः॑ सम्भ्रि॒यमा॑णो वा॒युः पूयमा॑नः सु॒क्रः पू॒तः शु॒क्रः क्षी॑र॒श्रीर्म॒न्थी स॑क्तु॒श्रीः ॥ ५७ ॥
विश्वे॑ दे॒वाश्च॑म॒सेषून्नि॒तो ऽसुहोमा॒योद्य॑तो रु॒द्रो हूयमा॑नो॒ वातो॒ऽभ्यावृ॑त्तो नृ॒चक्षाः॒ प्रति॑ख्यातो भ॒क्षो भ॒क्ष्यमा॑णः पि॒तरो॑ नाराशँ॒साः ॥ ५८ ॥
स॒न्नः सिन्धु॑रवभृ॒थायोद्य॑तः समु॒द्रो॒ऽभ्यवह्रियमा॑णः सलि॒लः प्र्प्लु॑तो॒ ययो॒रोज॑सा स्कभि॒ता रजाँ॑सि वी॒र्ये॒भिर्वी॒रत॑मा॒ शवि॑ष्ठा । यापत्ये॑ते॒ अप्र॑तीता॒ सहो॑भि॒र्विष्णू॑ अग॒न्वरु॑णा पू॒र्वहू॑तौ ॥ ५९ ॥
दे॒वन्दिव॑मगन्य॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु मनु॒ष्या॒न॒न्तरि॑क्षमगन्य॒॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु पितॄन्पृथिवीमगन्यज्ञस्ततो मा द्रविणमष्टु यं कं च लोकमगन्यज्ञस्ततो मे भद्रमभूत् ॥ ६० ॥
चतु॑स्त्रीँश॒त्तन्त॑वो॒ ये वि॑तत्नि॒रे य इ॒मं य॒ज्ञँ स्व॒धया॒ दद॑न्ते । तेषां॑ छि॒न्नँ सम्वे॒तद्द॑धामि॒ स्वाहा॑ घ॒र्मो अप्ये॑तु दे॒वान् ॥ ६१ ॥
य॒ज्ञस्य॒ दोहो॒ वित॑तः पुरु॒त्रा सो अ॑ष्ट॒धा दिव॑म॒न्वात॑तान । स य॑ज्ञ धूक्ष्व॒ महि॑ मे प्र॒जायाँ॑ रा॒यस्पोषं॒ विश्व॒मायु॑रशीय॒ स्वाहा॑ ॥ ६२ ॥
आ प॑वस्व॒ हिर॑ण्यव॒दश्व॑वस्तोम वी॒रव॑त् । वाजं॒ गोम॑न्त॒मा भ॑र॒ स्वाह॑ ॥ ६३ ॥
॥ इति अष्टमोऽध्यायः ॥
ॐ तत् सत् |