|
शुक्ल यजुर्वेद - नवमोऽध्यायः
देव॑ सवितः॒ प्रसु॑व य॒ज्ञं स्प्रसु॑व य॒ज्ञपतिं॒ भगा॑य । दि॒व्यो ग॑न्ध॒र्वः के॑त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाजं॑ नः स्वदतु॒ स्वाहा॑ ॥ १ ॥
ध्रुव॒सदं॑ त्वा नृ॒षदं॑ मनःसदमुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्तं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् । अ॒प्सु॒षदं॑ त्वा घृत॒सदं॑ व्योम॒सद॑मुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्तं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् । पृ॒थि॒वि॒सदं॑ त्वाऽन्तरिक्ष॒सदं॑ दिवि॒सदं॑ देव॒सदं॑ नाक॒सदौपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्तं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ॥ २ ॥
अ॒पाँ रस॒मुद्व॑यसँ॒ सूर्ये॒ सन्तँ॑ स॒माहि॑तम् । अ॒पाँ रस॑स्य॒ यो रस॒तं वो॑ गृह्णाम्युत्त॒ममुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्तं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ॥ ३ ॥
ग्रहा॑ ऊर्जाहुतयो॒ व्यन्तो॒ विप्रा॑य म॒तिम् । तेषां॒ विशि॑प्रियाणां वो॒ऽहमिष॒मूर्जँ॒ सम॑ग्रभौपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्तं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् स॒म्पृचौ॑ स्थः॒ सं मा॑ भ॒द्रेण॑ पृङ्क्तं वि॒पृचौ॑ स्थो॒ वि मा॑ पा॒प्मना॑ पृङ्क्तम् ॥ ४ ॥
इन्द्र॑स्य॒ वज्रो॑ऽसि वाज॒सास्त्वया॒यं वाजँ॑ सेत् । वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तीं॒ नाम॒ वच॑सा करामहि । यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां॑ नो दे॒वः स॑वि॒ता धर्म॑ साविषत् ॥ ५ ॥
अ॑प्स्वन्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्ति॒ष्वश्वा॒ भव॑त वा॒जिनः॑ । देवी॑रापो॒ यो व॒ ऊ॒र्मिः प्रतू॑र्तिः क॒कुन्मा॑न् वाज॒सास्तेना॒यं वाजँ॑ सेत् ॥ ६ ॥
वातो॑ वा॒ मनो॑ वा गन्ध॒र्वाः स॒प्तविँ॑शतिः । ते अग्रेऽश्व॑मयुञ्जँ॒स्ते अ॑स्मिञ्ज॒वमा द॑धुः ॥ ७ ॥
वात॑रँहा भव वाजिन्यु॒ज्यमा॑न॒ इन्द्र॑स्येव॒ दक्षि॑णः श्रि॒यैधि॑ । यु॒ञ्जन्तु॑ वा म॒रुतो॑ वि॒श्ववे॑दस॒ आ ते॒ त्वष्टा॑ प॒त्सु ज॒वं द॑धातु ॥ ८ ॥
ज॒वो यस्ते॑ वाजि॒न्निहि॑तो॒ गुहा॒ यः श्ये॒ने परी॑त्तो॒ अच॑रच्च॒ वाते॑ । तेन॑ नो वाजि॒न् बल॑वा॒न् बले॑न वाज॒जिच्च॒ भव॒ सम॑ने च पारयि॒ष्णुः । वाजि॑नो वाजजितो॒ वाजँ॑ सरि॒ष्यन्तो॒ बृह॒स्पते॑र्भा॒वमव॑जिघ्रत ॥ ९ ॥
दे॒वस्या॒हँ स॑वि॒तुः स॒वे स॒त्यस॑वसो इन्द्र॑स्योत्त॒मं नाकँ॑ रुहेयम् । दे॒वस्या॒हँ स॑वि॒तुः स॒वे स॒त्यस॑वसो बृह॒स्पतेरुत्त॒मं नाकँ॑ रुहेयम् । दे॒वस्या॒हँ स॑वि॒तुः स॒वे स॒त्यस॑वसो बृह॒स्पतेरुत्त॒मं नाकँ॑ नाक॑मरुहम् । दे॒वस्या॒हँ स॑वि॒तुः स॒वे स॒त्यस॑वसो इन्द्र॑स्योत्त॒मं नाकँ॑ रुहेयम् ॥ १० ॥
बृह॑स्पते॒ वाजं॑ जय॒ बृह॒स्पत॑ये॒ वाचं॑ वदत॒ बृह॒स्पतिं॒ वाजं॑ जापयत । इन्द्र॒ वाजं॑ ज॒येन्द्रा॑य॒ वाचं॑ वद॒तेन्द्रं॒ वाजं॑ जापयत ॥ ११ ॥
ए॒षा वः॒ सा स॒त्या सं॒वाग॑भू॒द्यया॒ बृह॒स्पतिं॒ वाज॒मजी॑जप॒ताजी॑जपत॒ बृह॒स्पतिं॒ वाजं॒ वन॑स्पतयो॒ विमु॑च्यध्वम् । ए॒षा वः॒ सा स॒त्या सं॒वाग॑भूद्ययेन्द्रं॒ वाज॒मजी॑जप॒ताजी॑जप॒तेन्द्रं॒ वाजं॒ वन॑स्पतयो॒ विमु॑च्यध्वम् ॥ १२ ॥
दे॒वस्या॒हँ स॑वि॒तुः स॒वे स॒त्यप्र॑सवसो॒ बृ॒हस्पते॑र्वाज॒जितो॒ वाजं॑ जेषम् । वाजि॑नो वाजजि॒तोऽध्व॑न स्कभ्नु॒वन्तो॒ योज॑ना॒ मिमा॑नाः॒ काष्ठां॑ गच्छत ॥ १३ ॥
ए॒ष स्य वा॒जि क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां॑ ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ । क्रतुं॑ दधि॒क्रा अनु॑ सँ॒सनि॑ष्यदत्प॒थामङ्काँ॒स्यन्व॒अपनी॑फण॒त् स्वाहा॑ ॥ १४ ॥
उ॒त स्मा॑स्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णं न वेरनु॑वाति प्रग॒र्धिनः॑ । श्ये॒नस्ये॑व॒ ध्रज॑तो अङ्क॒सं परि॑ दधि॒क्राव्णः॑ स॒होर्जा तरि॑त्रतः॒ स्वहा॑ ॥ १५ ॥
शं नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः । ज॒म्भय॒न्तोऽहिं॒ वृकँ॒ रक्षाँ॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वः ॥ १६ ॥
ते नो॒ अर्वन्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिनो॑ मि॒तद्र॑वः । स॒हस्र॒धा मे॒धसा॑ता सनि॒ष्यवो॑ म॒हो ये धनँ॑ समि॒थेषु॑ जभ्रि॒रे ॥ १७ ॥
वाजे॑-वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः । अ॑स्य मध्वः॑ पिबतः मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑ ॥ १८ ॥
आ मा॒ वाज॑स्य प्रस॒वो जगम्या॒देमे द्यावा॑पृथि॒वी विश्व॑रूपे ।
आ मा॑ गन्ता पि॒तरा॑ मा॒तरा॒ चा मा॒ सोमो॑ अमृत॒त्त्वेन॑ गम्यात् ।
वाजि॑नो वाजजितो॒ वाजँ॑ ससृ॒वा@ंसो॒ बृह॒स्पते॑र्भा॒गमव॑जिघ्रत निमृजा॒नाः ॥ १९ ॥
आ॒पये॒ स्वाहा॑ स्वा॒पये॒ स्वाहा॑ ऽपि॒जाय॒ स्वाहा॑ कत॑वे॒ स्वाहा॑ वस॑वे॒ स्वाहा॑ ऽह॒र्पत॑ये॒ स्वाहा॑ऽ न्हे॑ मु॒घ्धाय॒ स्वाहा॑ मु॒ग्ध्याय॑ वैनँशि॒न्याय॒ स्वाहा॑ विनयँ॒शिन॑ आन्त्याय॒नाय॒ स्वाहा॑ ऽन्त्या॑य भौव॒नाय॒ स्वाहा॑ भुव॑नस्य॒ पत॑ये॒ स्वाहा॑ ऽधि॑पतये॒ स्वाहा॑ ॥ २० ॥
आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒द्न्येन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पताँ॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां पृ॒ष्ठं य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पतां प्र॒जाप॑तेः प्र॒जा अ॑भूम॒ स्व॒र्देवा अगन्मा॒मृता॑ अभूम ॥ २१ ॥
अ॒स्मे वो॑ अस्त्विन्द्रि॒यम॒स्मे नृ॒म्णमु॒त क्रतु॑र॒स्मे वर्चाँसि सन्तु वः । नमो॑ मा॒त्रे पृ॑थि॒व्यै नमो॑ मा॒त्रे पृ॑थि॒व्या इ॒यं ते॒ राड् य॒न्तासि॒ यम॑नो ध्रु॒वो॒ऽसि ध॒रुणः॑ । कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा र॒य्यै त्वा॒ पोषा॑य त्वा ॥ २२ ॥
वाज॑स्ये॒मं प्र॑स॒वः सु॑षु॒वेऽग्रे॒ सोमँ॒ राजा॑न॒मोष॑धीष्व॒प्सु । ता अ॒स्मभ्यं॒ मधु॑मतिर्भवन्तु व॒यँ रा॒श्ट्रे जा॑गृयाम पु॒रोहि॑तः॒ स्वाहा॑ ॥ २३ ॥
वाज॑स्ये॒मं प्र॑स॒वः शि॑श्रिये॒ दिव॑मि॒मा च॒ विश्वा॒ भुव॑नानि स॒म्राट् । अदि॑त्सन्तं दापयति प्रजा॒नन्त्स नो॑ र॒यिँ सर्व॑वीरं॒ नि य॑॑च्छतु॒ स्वाहा॑ ॥ २४ ॥
वाज॑स्य॒ नु प्र॑स॒व आ ब॑भूवे॒मा च॒ विश्वा॒ भुव॑नानि स॒र्वतः॑ । सने॑मि॒ राजा॒ परि॑ याति वि॒द्वान् प्र॒जां पुष्टिं॑ व॒र्धय॑मानो अ॒स्मे स्वहा॑ ॥ २५ ॥
सोम॒ङ् राज॑न॒मव॑से॒ऽग्निम॒न्वार॑भामहे । आ॒दि॒त्यान्विष्णुँ॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पतिं॒ स्वाहा॑ ॥ २६ ॥
अ॒र्यमणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय । चाचं॒ विष्णुं॒ सर॑स्वतिं सवि॒तारं च वा॒जिनं॒ स्वाहा॑ ॥ २७ ॥
अग्ने॒ अच्छा॑ वदे॒ह नः॒ प्रति॑ नः सु॒मना॑ भव । प्र नो॑ यच्छ सहस्रजि॒त्त्वँ हि ध॑न॒दा असि॒ स्वाहा॑ ॥ २८ ॥
प्र नो॑ य च्छत्वर्य॒मा प्र पूषा प्र भ्रुह॒स्पतिः॑ । प्र वाग्दे॒वी द॑दातु॒ नः॒ स्वाहा॑ ॥ २९ ॥
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पूष्णो हस्ता॑भ्याम् । सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रिये॑ दधामि॒ बृह॒स्पते॑ष्ट्वा॒ साम्रा॑ज्येना॒भि षि॑ञ्चाम्यसौ ॥ ३० ॥
अ॒ग्निरेका॑क्षरेण प्रा॒णमुद॑जय॒त्तमुज्जे॑षम॒श्विनौ॒ द्व्य॒क्षरेण द्वि॒पदो॑ मनु॒ष्यानुद॑जयतां॒ तानुज्जे॑षं॒विष्णु॒स्त्र्य॒क्षरेण॒ त्रीँल्लो॒कद॑जय॒त्तनुज्जे॑षँ॒ सोम॒श्चतु॑रक्षरेण॒ चतु॑ष्पदः प॒शूनुद॑जय॒त्तनुज्जे॑षम् ॥ ३१ ॥
पू॒षा पञ्चा॑क्षरेण॒ पञ्च॒ दिश॒ उद॑जय॒त्त उज्जे॑षँ स्वि॒ता षड॑क्षरेण॒ षडृ॒तूनुद॑जय॒त्तनुज्जे॑षं म॒रुतः॑ स॒प्ता॒क्ष॑रेण स॒प्त ग्रा॒म्यान् प॒शूनुद॑जयँ॒त्तनुज्जे॑षं॒ बृह॒स्पति॑र॒ष्टाक्ष्॑अरेण गाय॒त्रीमुद॑जय॒त्तनुज्जे॑षम् ॥ ३२ ॥
मि॒त्रो नवा॑क्षरेण त्रि॒वृतँ॒ स्तोम॒मुद॑जय॒त्तमुज्जे॑षं॒ वरु॑णो॒ दशा॑क्षरेण वि॒राज॒मुद॑जय॒त्तनुज्जे॑ष॒मिन्द्र॒ एका॑दशाक्षरेण त्रि॒ष्टुभ॒मुद॑जय॒त्तनुज्जे॑षं॒ विश्वे॑ दे॒वा द्वाद॑शाक्षरेण॒ जग॑ती॒मुद॑जयँ॒स्तमुज्जे॑षम् ॥ ३३ ॥ वस॑व॒स्त्रयो॑दशाक्षरेण त्रयोद॒शँ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑षँ रु॒द्राश्चतु॑र्दशाक्षरेण चतुर्द॒शँ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑षमादि॒त्या पञ्च॒दशाक्षरेण पञ्चद॒शँ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑ष॒मदि॑तिः॒ षोड॑शाक्षरेण षोड॒शँ स्तोम॑मुद॒जय॒त्तमुज्जे॑षं प्र॒जाप॑तिः स॒प्तद॑शाक्षरेण सप्तद॒शँ स्तोम॒मुद॑जय॒त्तमुज्जे॑षम् ॥ ३४ ॥
ए॒ष ते॑ निरृते भा॒गस्तं जु॑षस्व॒ स्वाहा॒ ऽग्निने॑त्रेभ्यो दे॒वेभ्यः॑ पुरः॒सद्भ्यः॒ स्वाहा॑ य॒मने॑त्रेभ्यो दे॒वेभ्यो॑ दक्षिणा॒सद्भ्यः॑ स्वाहा॑ वि॒श्वदे॑वनेत्रेभ्यो दे॒वेभ्यः॑ पश्चा॒त्सद्भ्यः॒ स्वाहा॑ मि॒त्रावरु॑णनेत्रेभ्यो वा म॒रुन्ने॑त्रेभ्यो वा दे॒वेभ्य॑ उत्तरा॒सद्भ्यः॒ स्वाहा॒ सोम॑नेत्रेभ्यो दे॒वेभ्य॑ उपरि॒सद्ब्यो॒ दुव॑स्वद्भ्यः॒ स्वहा॑ ॥ ३५ ॥
ये दे॒वा अ॒ग्निने॑त्राः पुरः॒सद॒स्तेभ्यः॒ स्वाहा॒ ये दे॒वा य॒मने॑त्रा दक्षिणा॒सद॒स्तेभ्यः॒ स्वाहा॒ ये दे॒वा वि॒श्वदे॑वनेत्राः पश्चा॒त्सद॒स्तेभ्यः॒ स्वाहा॒ ये दे॒वा मित्रा॒वरु॑णनेत्रा वा म॒रुन्ने॑त्रा वोर्ररा॒सद॒स्तेभ्यः॒ स्वाहा॒ ये दे॒वाः सोम॑नेत्रा उपरि॒सदो॒ दुव॑स्वन्त॒स्तेभ्यः॒ स्वाहा॑ ॥ ३६ ॥
अग्ने॒ सह॑स्व॒ पृत॑ना अ॒भिमा॑ती॒रपा॑स्य । दुष्टर॒स्तर॒न्नुरा॑ती॒र्वर्चो॑ धा य॒ज्ञवा॑हसि ॥ ३७ ॥
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । उ॒पाँ॒शोर्वी॒र्ये॒ण जुहोमि ह॒तँ रक्षः॒ स्वाहा॒ रक्ष॑सां त्वा व॒धायाव॑धिष्म॒ रक्षोऽव॑धिष्मा॒मुम॒सौ ह॒तः ॥ ३८ ॥
स॒वि॒ता त्वा॑ स॒वानाँ॑ सुवताम॑ग्निर्गृ॒हप॑तीनां॒ सोमो॒ वन॒स्पती॑नाम् । बृ॒ह॒स्पतिर्वा॒च इन्द्रो॒ ज्यैष्ठा॑य रु॒द्रः प॒शुभ्यो॑ मि॒त्रः स॒त्यो वरु॑णो॒ धर्म॑पतीनाम् ॥ ३९ ॥
इ॒मं दे॑वा असप॒त्नँ सु॑वध्वं मह॒ते क्ष॒त्राय॑ मह॒ते ज्यैष्ट्या॑य मह॒ते जान॑राज्या॒येन्द्र॑स्येन्द्रि॒याय॑ । इ॒मम॒मुष्य॑ पु॒त्रम॒मुष्यै॑ पु॒त्रम॑स्यै वि॒श ए॒ष वो॑म्ऽमी॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णानाँ॒ राजा॑ ॥ ४० ॥
॥ इति नवमोऽध्यायः ॥
ॐ तत् सत् |