|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे
द्विपञ्चाशत्तमोऽध्यायः
हिमालयगृहेवरपक्षीयभोजनवर्णनम्
ब्रह्मोवाच
अथ शैलवरस्तात हिमवान्भाग्यसत्तमः । प्राङ्गणं रचयामास भोजनार्थं विचक्षणः ॥ १ ॥ मार्जनं लेपनं सम्यक्कारयामास तस्य सः । स सुगन्धैरलञ्चक्रे नानावस्तुभिरादरात् ॥ २ ॥ अथ शैलः सुरान् सर्वानन्यानपि च सेश्वरान् । भोजनायाह्वयामास पुत्रैः शैलैः परैरपि ॥ ३ ॥ शैलाह्वानमथाकर्ण्य स प्रभुः साच्युतो मुने । सर्वैःसुरादिभिस्तत्र भोजनाय ययौ मुदा ॥ ४ ॥ गिरिः प्रभुं च सर्वांस्तान्सुसत्कृत्य यथाविधि । मुदोपवेशयामास सत्पीठेषु गृहान्तरे ॥ ५ ॥ नानासुभोज्यवस्तूनि परिविष्य च तत्पुनः । साञ्चलिर्भोजनायाज्ञां चक्रे विज्ञप्तिमानतः ॥ ६ ॥ अथ सम्मानितास्तत्र देवा विष्णुपुरोगमाः । सदाशिवं पुरस्कृत्य बुभुजुः सकलाश्च ते ॥ ७ ॥ तदा सर्वे हि मिलिता ऐकपद्येन सर्वशः । पङ्क्तिभूताश्च बुभुजुर्विहसन्तः पृथक्पृथक् ॥ ८ ॥ नन्दिभृङ्गिवीरभद्रवीरभद्रगणाः पृथक् । बुभुजुस्ते महाभागाः कुतूहलसमन्विताः ॥ ९ ॥ देवाः सेन्द्रा लोकपाला नानाशोभासमन्विताः । बुभुजुस्ते महाभागा नानाहास्यरसैःसह ॥ १० ॥ सर्वे च मुनयो विप्रा भृग्वाद्या ऋषयस्तथा । बुभुजु प्रीतितः सर्वे पृथक् पङ्क्तिगतास्तदा ॥ ११ ॥ तथा चण्डीगणाः सर्वे बुभुजुः कृतभाजनाः । कुतूहलं प्रकुर्वन्तो नानाहास्यकरा मुदा ॥ १२ ॥ एवं ते भुक्तवन्तश्चाचम्य सर्वे मुदान्विताः । विश्रामार्थं गताः प्रीत्या विष्ण्वाद्याः स्वं स्वमाश्रमम् ॥ १३ ॥ मेनाज्ञया स्त्रियः साध्व्यः शिवं सम्प्रार्थ्य भक्तितः । गेहे निवासयामासुर्वासाख्ये परमोत्सवे ॥ १४ ॥ रत्नसिंहासने शम्भुः मेनादत्ते मनोहरे । सन्निधाय मुदा युक्तो ददृशे वासमन्दिरम् ॥ १५ ॥ रत्नप्रदीपशतकैर्ज्वलद्भिर्ज्वलितं श्रिया । रत्नपात्रघटाकीर्णं मुक्तामणिविराजितम् ॥ १६ ॥ रत्नदर्प्पणशोभाढ्यं मण्डितं श्वेतचामरैः । मुक्तामणिसुमालाभिर्वेष्टितं परमर्द्धिमत् ॥ १७ ॥ अनौपम्यं महादिव्यं विचित्रं सुमनोहरम् । चित्ताह्लादकरं नानारचनारचितस्थलम् ॥ १८ ॥ शिवदत्तवरस्यैव प्रभावमतुलं परम् । दर्शयन्तं समुल्लासि शिवलोकाभिधानकम् ॥ १९ ॥ नानासुगन्धसद्द्रव्यैर्वासितं सुप्रकाशकम् । चन्दनागुरुसंयुक्तं पुष्पशयासमन्वितम् ॥ २० ॥ नानाचित्रविचित्राढ्यं निर्मितं विश्वकर्मणा । रत्नेन्द्रसाररचितैराचितं हारकैर्वरैः ॥ २१ ॥
कुत्रचित्सुरनिर्माणं वैकुण्ठं सुमनोहरम् । कुत्रचिच्च ब्रह्मलोकं लोकपालपुरं क्वचित् ॥ २२ ॥ कैलासं कुत्रचिद्रम्यं कुत्रचिच्छक्रमन्दिरम् । कुत्रचिच्छिवलोकं च सर्वोपरि विराजितम् ॥ २३ ॥ एतादृशगृहं सर्वं दृष्टाश्चर्यं महेश्वरः । प्रशंसन् हिमशैलेशं परितुष्टो बभूव ह ॥ २४ ॥ तत्रातिरमणीये च रत्नपर्यङ्क उत्तमे । अशयिष्ट मुदा युक्तो लीलया परमेश्वरः ॥ २५ ॥ हिमाचलश्च स्वभ्रातॄन्भोजयामास कृत्स्नशः । सर्वानन्यांश्च सुप्रीत्या शेषकृत्यं चकार ह ॥ २६ ॥ एवं कुर्वति शैलेशे स्वपति प्रेष्ठ ईश्वरे । व्यतीता रजनी सर्वा प्रातःकालो बभूव ह ॥ २७ ॥ अथ प्रभातकाले च धृत्युत्साहपरायणाः । नानाप्रकारवाद्यानि वादयाञ्चक्रिरे जनाः ॥ २८ ॥ सर्वे सुराःसमुत्तस्थुर्विष्ण्वाद्याः सुमुदान्विताः । स्वेष्टं संस्मृत्य देवेशं सज्जिभूताः ससम्भ्रमाः ॥ २९ ॥ स्ववाहनानि सज्जानि कैलासं गन्तुमुत्सुकाः । कृत्वा सम्प्रेषयामासुर्धर्मं शिवसमीपतः ॥ ३० ॥ वासगेहमथागत्य धर्मो नारायणाज्ञया । उवाच शंकरं योगी योगीशं समयोचितम् ॥ ३१ ॥ धर्म उवाच उत्तिष्ठोत्तिष्ठ भद्रन्ते भव नः प्रमथाधिप । जनावासं समागच्छ कृतार्थं कुरु तत्र तान् ॥ ३२ ॥ ब्रह्मोवाच इति धर्मवचः श्रुत्वा विजहास महेश्वरः । ददर्श कृपया दृष्ट्या तल्पमुज्झाञ्चकार ह ॥ ३३ ॥ उवाच विहसन् धर्म त्वमग्रे गच्छ तत्र ह । अहमप्यागमिष्यामि द्रुतमेव न संशयः ॥ ३४ ॥ ब्रह्मोवाच इत्युक्तः शंकरेणाथ जनावासं जगाम सः । स्वयं गन्तुमना आसीत्तत्र शम्भुरपि प्रभुः ॥ ३५ ॥ तज्ज्ञात्वा स्त्रीगणः सोसौ तत्रागच्छन्महोत्सवः । चक्रे मंगलगानं हि पश्यन्शम्भुपदद्वयम् ॥ ३५ ॥ अथ शंम्भुर्भवाचारी प्रातःकृत्यं विधाय च । मेनामामन्त्र्य कुध्रं च जनावासं जगाम सः ॥ ३७ ॥ महोत्सवस्तदा चासीद्वेदध्वनिरभून्मुने । वाद्यानि वादयामासुर्जनाश्चातुर्विधानि च ॥ ३८ ॥ शम्भुरागत्य स्वस्थानं ववन्दे च मुनींस्तदा । हरिं च मां भवाचारात् वन्दितोऽभूत्सुरादिभिः ॥ ३९ ॥ जयशब्दो बभूवाथ नमः शब्दस्तथैव च । वेदध्वनिश्च शुभदो महाकोलाहलोऽभवत् ॥ ४० ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे वरवर्गभोजनशिवशयनवर्णनं नाम द्विपञ्चाशत्तमोऽ ध्यायः ॥ ५२ ॥ श्रीगौरीशंकरार्पणमस्तु |