|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे
अष्टत्रिंशोऽध्यायः
विवाहमण्डपादिरचनावर्णनम्
ब्रह्मोवाच
अथ शैलेश्वरः प्रीतो हिमवान्मुनिसत्तम । स्वपुरं रचयामास विचित्रं परमोत्सवम् ॥ १ ॥ सिक्तमार्गं संस्कृतं च शोभितं परमर्द्धिभिः । द्वारि द्वारि च रम्भादि मंगलं द्रव्यसंयुतम् ॥ २ ॥ प्राङ्गणं रचयामास रम्भास्तंभसमन्वितम् । पट्टसूत्रैः संनिबद्धं रसालपल्लवान्वितम् ॥ ३ ॥ मालतीमाल्यसंयुक्तं लसत्तोरणसुप्रभम् । शोभितम्मंगलद्रव्यैश्चतुर्दिक्षु स्थितैः शुभैः ॥ ४ ॥ तथैव सर्वं परया मुदान्वित- श्चक्रे गिरीन्द्रः स्वसुतार्थमेव । गर्गं पुरस्कृत्य महाप्रभावं प्रस्तावयोग्यं च सुमंगलं हि ॥ ५ ॥ आहूय विश्वकर्माणं कारयामास सादरम् । मण्डपं च सुविस्तीर्णं वेदिकादिमनोहरम् ॥ ६ ॥ अयुतेन सुरर्षे तद्योजनानां च विस्तृतम् । अनेकलक्षणोपेतं नानाश्चर्यसमन्वितम् ॥ ७ । स्थावरं जङ्गमं सर्वं सदृशन्तैर्मनोहरम् । सर्वतोऽद्भुतसर्वस्वं नानावस्तुचमत्कृतम् ॥ ८ ॥ जङ्गमं विजितं तत्र स्थावरेण विशेषतः । जङ्गमेन च तत्रासीज्जितं स्थावरमेव हि ॥ ९ ॥ पयसा च जिता तत्र स्थलभूमिर्न चान्यथा । जलं किं हि स्थलं किं हि न विदुः केऽपि कोविदाः ॥ १० ॥ क्वचित्सिंहाः कृत्रिमाश्च क्वचित्सारसपङ्क्तयः । क्वचिच्छिखण्डिनस्तत्र कृत्रिमाश्च मनोहराः ॥ ११ ॥ क्वचित्स्त्रियः कृत्रिमाश्च नृत्यन्त्यः पुरुषैःसह । मोहयन्त्यो जनान्सर्वान्पश्यन्त्यः कृत्रिमास्तथा ॥ १२ ॥ तथा तेनैव विधिना द्वारपाला मनोहराः । हस्तैर्धनूंषि चोद्धृत्य स्थावरा जङ्गमोपमाः ॥ १३ ॥ द्वारि स्थिता महालक्ष्मीः कृत्रिमा रचिताद्भुता । सर्वलक्षणसंयुक्ता गताः साक्षत्पयोर्णवात् ॥ १४ ॥ गजाश्चालङ्कृता ह्यासन्कृत्रिमा अकृतोपमाः । तथाश्वाः सादिभिश्चैव गजाश्च गजसादिभिः ॥ १५ ॥ रथा रथिभिराकृष्टा महाश्चर्यसमन्विताः । वाहनानि तथान्यानि पत्तयः कृत्रिमास्तथा ॥ १६ ॥ एवं विमोहनार्थं तु कृतं वै विश्वकर्मणा । देवानां च मुनीनां च तेन प्रीतात्मना मुने ॥ १७ ॥ महाद्वारि स्थितौ नन्दी कृत्रिमश्च कृतो मुने । शुद्धस्फटिकसङ्काशो यथा नन्दी तथैव सः ॥ १८ ॥ तस्योपरि महादिव्यं पुष्पकं रत्नभूषितम् । राजितं पल्लवैः शुभ्रैश्चामरैश्च सुशोभितम् ॥ १९ ॥ वामपार्श्वे गजौ द्वौ च शुद्धकाश्मीरसन्निभौ । चतुर्दन्तो षष्टिवर्षौ भेदमानौ महाप्रभौ ॥ २० ॥ तथैवार्कनिभौ तेन कृतौ चाश्वौ महाप्रभौ । चामरालङ्कृतौ दिव्यौ दिव्यालङ्कारभूषितौ ॥ २१ ॥
दंशिता वररत्नाढ्या लोकपालास्तथैव च । सर्वे देवा यथार्थं वै कृता वै विश्वकर्मणा ॥ २२ ॥ तथा हि ऋषयःसर्वे भृग्वाद्याश्च तपोधनाः । अन्ये ह्युपसुरास्तद्वत्सिद्धाश्चान्येऽपि वै कृताः ॥ २३ ॥ विष्णुश्च पार्षदैःसर्वैर्गरुडाख्यैः समन्वितः । कृत्रिमो निर्मितस्तद्वत्परमाश्चर्यरूपवान् ॥ २४ ॥ तथैवाहं सुतैवेदैःसिद्धैश्च परिवारितः । कृत्रिमो निर्मितस्तद्वत्पठन्सूक्तानि नारद ॥ २५ ॥ ऐरावतगजारूढः शक्रःस्वदलसंयुतः । कृत्रिमो निर्मितस्तद्वत्परिपूर्णेन्दुसंनिभः ॥ २६ ॥ किं बहूक्तेन देवर्षे सर्वो वै विश्वकर्मणा । हिमागप्रेरितेनाशु क्लृप्तःसुरसमाजकः ॥ २७ ॥ एवंभूतः कृतस्तेन मण्डपो दिव्यरूपवान् । अनेकाश्चर्यसम्भूतो महान्देवविमोहनः ॥ २८ ॥ अथाज्ञप्तो गिरीशेन विश्वकर्मा महामतिः । निवासार्थं सुरादीनां तत्तल्लोकान् हि यत्नतः ॥ २९ ॥ तत्रैव च महामञ्चाः सुप्रभाः परमाद्भुताः । रचिताःसुखदा दिव्यास्तेषां वै विश्वकर्मणा ॥ ३० ॥ तथाप्तसप्तलोकं वै विरेचे क्षणतोऽद्भुतम् । दीप्त्या परमया युक्तं निवासार्थं स्वयम्भुवः ॥ ३१ ॥ तथैव विष्णोस्त्वपरं वैकुण्ठाख्यं महोज्ज्वलम् । विरेचे क्षणतो दिव्यं नानाश्चर्यसमन्वितम् ॥ ३२ ॥ अमरेशगृहं दिव्यं तथैवाद्भुतमुत्तमम् । विरेचे विश्वकर्मासौ सर्वैश्वर्यसमन्वितम् ॥ ३३ ॥ गृहाणि लोकपालानां विरेचे सुन्दराणि च । तद्वत्स प्रीतितो दिव्यान्यद्भुतानि महान्ति च ॥ ३४ ॥ अन्येषाममराणां च सर्वेषां क्रमशस्तथा । सदनानि विचित्राणि रचितानि च तेन वै ॥ ३५ ॥ विश्वकर्मा महाबुद्धिः प्राप्तशम्भुमहावरः । विरेचे क्षणतः सर्वं शिवतुष्ट्यर्थमेव च ॥ ३६ ॥ ं तथैव चित्रं परमं महोज्ज्वलं महाप्रभं देववरैः सुपूजितम् । गिरीशचिह्नं शिवलोकसंस्थितं सुशोभितं शम्भुगृहं चकार ॥ ३७ ॥ एवम्भूता कृता तेन रचना विश्वकर्मणा । विचित्रा शिवतुष्ट्यर्थं पराश्चर्या महोज्ज्वला ॥ ३८ ॥ एवं कृत्वाखिलं चेदं व्यवहारं च लौकिकम् । पर्यैक्षिष्ट मुदा शम्भ्वागमनं स हिमाचलः ॥ ३९ ॥ इति प्रोक्तमशेषेण वृत्तान्तं प्रमुदावहम् । हिमालयस्य देवर्षे किं भूयः श्रोतुमिच्छसि ॥ ४० ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे मण्डपादिरचनावर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥ श्रीगौरीशंकरार्पणमस्तु |