|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे
षट्त्रिंशोऽध्यायः
हिमालयस्य शिवाय कालीप्रदाननिश्चयवर्णनम्
ब्रह्मोवाच
वसिष्ठस्य वचः श्रुत्वा सगणोपि हिमालयः । विस्मितो भार्यया शैलानुवाच स गिरीश्वरः ॥ १ ॥ हिमालय उवाच हे मेरो गिरिराट् सह्य गन्धमादन मन्दर । मैनाक विन्ध्य शैलेन्द्राःसर्वे शृणुत मद्वचः ॥ २ ॥ वसिष्ठो हि वदत्येवं किं मे कार्यं विचार्यते । यथा तथा च शंसध्वं निर्णीय मनसाखिलम् ॥ ३ ॥ ब्रह्मोवाच तच्छुत्वा वचनं तस्य सुमेरुप्रमुखाश्च ते । प्रोचुर्हिमालयं प्रीत्या सुनिर्णीय महीधराः ॥ ४ ॥ शैला ऊचुः अधुना किं विमर्शेन कृतं कार्यं तथैव हि । उत्पन्नेयं महाभाग देवकार्यार्थमेव हि ॥ ५ ॥ प्रदातव्या शिवायेति शिवस्यार्थेऽवतारिणी । अनयाराधितो रुद्रो रुद्रेण यदि भाषिता ॥ ६ ॥ ब्रह्मोवाच एतच्छ्रुत्वा वचस्तेषाम्मेर्वादीनां हिमाचलः । सुप्रसन्नतरोऽभूद्वै जहास गिरिजा हृदि ॥ ७ ॥ अरुन्धती च तां मेनां बोधयामास कारणात् । नानावाक्यसमूहेनेतिहासैर्विविधैरपि ॥ ८ ॥ अथ सा मेनका शैलपत्नी बुद्ध्वा प्रसन्नधीः । मुनीनरुन्धतीं शैलं भोजयित्वा बुभोज च ॥ ९ ॥ अथ शैलवरो ज्ञानी सुसंसेव्य मुनींश्च ताम् । उवाच साञ्जलिः प्रीत्या प्रसन्नात्मा गतभ्रमः ॥ १० ॥ हिमाचल उवाच सप्तर्षयो महाभागा वचः शृणुत मामकम् । विस्मयो मे गतः सर्वः शिवयोश्चरितं श्रुतम् ॥ ११ ॥ मदीयं च शरीरं वै पत्नी मेना सुता सुताः । ऋद्धिः सिद्धिश्च चान्यद्वै शिवस्यैव न चान्यथा ॥ १२ ॥ ब्रह्मोवाच इत्युक्त्वा स तदा पुत्रीं दृष्ट्वा तत्सादरं च ताम् । भूषयित्वा तदङ्गानि ऋष्युत्सङ्गे न्यवेशयेत् ॥ १३ ॥ उवाच च पुनः प्रीत्या शैलराज ऋषींस्तदा । अयं भागो मया तस्मै दातव्य इति निश्चितम् ॥ १४ ॥ ऋषय ऊचुः शंकरो भिक्षुकस्तेऽथ स्वयं दाता भवान् गिरे । भैक्ष्यञ्च पार्वती देवी किमतः परमुत्तमम् ॥ १५ ॥ हिमवन् शिखराणान्ते यद्धेतोः सदृशी गतिः । धन्यस्त्वं सर्वशैलानामधिपः सर्वतो वरः ॥ १६ ॥ ब्रह्मोवाच एवमुक्त्वा तु कन्यायै मुनयो विमलाशयाः । आशिषं दत्तवन्तस्ते शिवाय सुखदा भव ॥ १७ ॥
स्पृष्ट्वा करेण तां तत्र कल्याणं ते भविष्यति । शुक्लपक्षे यथा चन्द्रो वर्द्धन्तां त्वद्गुणास्तथा ॥ १८ ॥ इत्युक्त्वा मुनयःसर्वे दत्त्वा ते गिरये मुदा । पुष्पाणि फलयुक्तानि प्रत्ययं चक्रिरे तदा ॥ १९ ॥ अरुन्धती तदा तत्र मेनां सा सुसुखी मुदा । गुणैश्च लोभयामास शिवस्य परमा सती ॥ २० ॥ हरिद्राकुङ्कुमैः शैलश्मश्रूणि प्रत्यमार्जयत् । लौकिकाचारमाधाय मंगलायनमुत्तमम् ॥ २१ ॥ ततश्च ते चतुर्थेह्नि सन्धार्य लग्नमुत्तमम् । परस्परं च सन्तुष्य सञ्जग्मुः शिवसन्निधिम् ॥ २२ ॥ तत्र गत्वा शिवं नत्वा स्तुत्वा विविधसूक्तिभिः । ऊचुः सर्वे वसिष्ठाद्या मुनयः परमेश्वरम् ॥ २३ ॥ ऋषय ऊचुः देवदेव महादेव परमेश महाप्रभो । शृण्वस्मद्वचनं प्रीत्या यत्कृतं सेवकैस्तव ॥ २४ ॥ बोधितो गिरिराजश्च मेना विविधसूक्तिभिः । सेतिहासं महेशान प्रबुद्धोसौ न संशयः ॥ २५ ॥ वाक्यदत्ता गिरीन्द्रेण पार्वती ते हि नान्यथा । उद्वाहाय प्रगच्छ त्वं गणैर्देवैश्च संयुतः ॥ २६ ॥ गच्छ शीघ्रं महादेव हिमाचलगृहं प्रभो । विवाहय यथा रीतिः पार्वतीमात्मजन्मने ॥ २७ ॥ ब्रह्मोवाच तच्छ्रुत्वा वचनं तेषां लौकिकाचारतत्परः । प्रहृष्टात्मा महेशानः प्रहस्येदमुवाच सः ॥ २८ ॥ महेश उवाच विवाहो हि महाभागा न दृष्टो न श्रुतो मया । यथा पुरा भवद्भिस्तद्विधिः प्रोच्यो विशेषतः ॥ २९ ॥ ब्रह्मोवाच तदाकर्ण्य महेशस्य लौकिकं वचनं शुभम् । प्रत्यूचुः प्रहसन्तस्ते देवदेवं सदाशिवम् ॥ ३० ॥ ऋषय ऊचुः विष्णुमाहूय वै शीघ्रं ससमाजं विशेषतः । ब्रह्माणं ससुतं प्रीत्या तथा देवं शतक्रतुम् ॥ ३१ ॥ तथा ऋषिगणान्सर्वान् यक्षगन्धर्वकिन्नरान् । सिद्धान् विद्याधरांश्चैव तथा चैवाप्सरोगणान् ॥ ३२ ॥ एतांश्चान्यान्प्रभो सर्वानानयस्वेह सादरम् । सर्वं संसाधयिष्यन्ति त्वत्कार्यं ते न संशयः ॥ ३३ ॥ ब्रह्मोवाच इत्युक्त्वा सप्त ऋषयस्तदाज्ञां प्राप्य ते मुदा । स्वधाम प्रययुः सर्वे शंसन्तः शङ्करीं गतिम् ॥ ३४ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तऋषिवचनं नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥ श्रीगौरीशंकरार्पणमस्तु |