|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे
पञ्चदशोऽध्यायः
तारकासुरतपोराज्यम्
ब्रह्मोवाच
अथ सा गर्भमाधत्त वराङ्गी तत्पुरादरात् । स ववर्द्धाभ्यन्तरे हि बहुवर्षैः सुतेजसा ॥ १ ॥ ततः सा समये पूर्णे वराङ्गी सुषुवे सुतम् । महाकायं महावीर्यं प्रज्वलन्तं दिशो दश ॥ २ ॥ तदैव च महोत्पाता बभूवुर्दुःखहेतवः । जायमाने सुते तस्मिन्वराङ्ग्याः सुखदुःखदे ॥ ३ ॥ दिवि भुव्यन्तरिक्षे च सर्वलोकभयङ्कराः । अनर्थसूचकास्तात त्रिविधास्तान्ब्रवीम्यहम् ॥ ४ ॥ सोल्काश्चाशनयः पेतुर्महाशब्दा भयङ्कराः । उदयं चक्रुरुत्कृष्टाः केतवो दुःखदायकाः ॥ ५ ॥ चचाल वसुधा साद्रिर्जज्वलुः सकला दिशः । चुक्षुभुः सरितःसर्वाः सागराश्च विशेषतः ॥ ६ ॥ हूत्करानीरयन्घोरान्खरस्पर्शो मरुद्ववौ । उन्मूलयन्महावृक्षान्वात्यानीको रजोध्वजः ॥ ७ ॥ सराह्वोःसूर्य्यविध्वोस्तु मुहुः परिधयोऽभवन् । महाभयस्य विप्रेन्द्र सूचकाःसुखहारकः ॥ ८ ॥ महीध्रविवरेभ्यश्च निर्घाता भयसूचकाः । रथनिर्ह्रादतुल्याश्च जज्ञिरेऽवसरे ततः ॥ ९ ॥ शृगालोलूकटङ्कारैर्वमन्त्यो मुखतोऽनलम् । अन्तर्ग्रामेषु विकटं प्रणेदुरशिवाः शिवाः ॥ १० ॥ यतस्ततो ग्रामसिंहा उन्नमय्य शिरोधराम् । सङ्गीतवद्रोदनवद्व्यमुचन्विविधान्रवान् ॥ ११ ॥ खार्काररभसा मत्ताः सुरैर्घ्नन्तो रसां खराः । वरूथशस्तदा तात पर्यधावन्नितस्ततः ॥ १२ ॥ खगा उदपतन्नीडाद्रासभत्रस्तमानसः । क्रोशन्तो व्यग्रचित्ताश्च स्थितमापुर्न कुत्रचित् ॥ १३ ॥ शकृन्मूत्रमकार्षुश्च गोष्ठेऽरण्ये भयाकुलाः । बभ्रमुः स्थितिमापुर्नो पशवस्ताडिता इव ॥ १४ ॥ गावोऽत्रसन्नसृग्दोहा बाष्पनेत्रा भयाकुलाः । तोयदा अभवंस्तत्र भयदाः पूयवर्षिणः ॥ १५ ॥ व्यरुदन्प्रतिमास्तत्र देवानामुत्पतिष्णवः । विनाऽनिलं द्रुमाः पेतुर्ग्रहयुद्धं बभूव खे ॥ १६ ॥ इत्यादिका बहूत्पाता जज्ञिरे मुनिसत्तम । अज्ञानिनो जनास्तत्र मेनिरे विश्वसंप्लवम् ॥ १७ ॥ अथ प्रजापतिर्नामाकरोत्तस्यासुरस्य वै । तारकेति विचार्यैव कश्यपो हि महौजसः ॥ १८ ॥ महावीरस्य सहसा व्यज्यमानात्मपौरुषः । ववृधेऽत्यश्मसारेण कायेनाद्रिपतिर्यथा ॥ १९ ॥ अथो स तारको दैत्यो महाबलपराक्रमः । तपः कर्तुं जनन्याश्चाज्ञां ययाचे महामनाः ॥ २० ॥ प्राप्ताज्ञः स महामायी मायिनामपि मोहकः । सर्वदेवजयं कर्तुं तपोर्थं मन आदधे ॥ २१ ॥ मधोर्वनमुपागम्य गुर्वाज्ञाप्रतिपालकः । विधिमुद्दिश्य विधिवत्तपस्तेपे सुदारुणम् ॥ २२ ॥ ऊर्ध्वबाहुश्चैकपादो रविं पश्यन्स चक्षुषा । शतवर्षं तपश्चक्रे दृढचित्तो दृढव्रतः ॥ २३ ॥ अङ्गुष्ठेन भुवं स्पृष्ट्वा शत वर्षं च तादृशः । तेपे तपो दृढात्मा स तारकोऽसुरराट् प्रभुः ॥ २४ ॥ शतवर्षं जलं प्राश्नञ्च्छतवर्षं च वायुभुक् । शतवर्ष जले तिष्ठञ्च्छतं च स्थण्डिलेऽतपत् ॥ २५ ॥ शतवर्षं तथा चाग्नौ शतवर्षमधोमुखः । शतवर्षं तु हस्तस्य तलेन च भुवं स्थितः ॥ २६ ॥ शतवर्षं तु वृक्षस्य शाखामालंब्य वै मुने । पादाभ्यां शुचिधूमं हि पिबंश्चाधोमुखस्तथा ॥ २७ ॥ एवं कष्टतरं तेपे सुतपः स तु दैत्यराट् । काममुद्दिश्य विधिवच्छृण्वतामपि दुःसहम् ॥ २८ ॥
तत्रैवं तपतस्तस्य महत्तेजो विनिःसृतम् । शिरसःसर्वसंसर्पि महोपद्रवकृन्मुने ॥ २९ ॥ तेनैव देवलोकास्ते दग्धप्राया बभूविरे । अभितो दुःखमापन्नाःसर्वे देवर्षयो मुने ॥ ३० ॥ इन्द्रश्च भयमापेदे ऽधिकं देवेश्वरस्तदा । तपस्यत्यद्य कश्चिद्वै मत्पदं धर्षयिष्यति ॥ ३१ ॥ अकाण्डे चैव ब्रह्माण्डं संहरिष्यत्ययं प्रभु । इति संशयमापन्ना निश्चयं नोपलेभिरे ॥ ३२ ॥ ततः सर्वे सुसंमन्त्र्य मिथस्ते निर्जरर्षयः । मल्लोकमगमन्भीता दीना मां समुपस्थिताः ॥ ३३ ॥ मां प्रणम्य सुसंस्तूय सर्वे ते क्लिष्टचेतसः । कृतस्वञ्जलयो मह्यं वृत्तं सर्वं न्यवेदयन् ॥ ३४ ॥ अहं सर्वं सुनिश्चित्य कारणं तस्य सद्धिया । वरं दातुं गतस्तत्र यत्र तप्यति सोऽसुरः ॥ ३५ ॥ अवोचं वचनं तं वै वरं ब्रूहीत्यहं मुने । तपस्तप्तं त्वया तीव्रं नादेयं विद्यते तव ॥ ३६ ॥ इत्येवं मद्वचः श्रुत्वा तारकः स महासुरः । मां प्रणम्य सुसंस्तूय वरं वव्रेऽतिदारुणम् ॥ ३७ ॥ तारक उवाच त्वयि प्रसन्ने वरदे किमसाध्यं भवेन्मम । अतो याचे वरं त्वत्तः शृणु तन्मे पितामह ॥ ३८ ॥ यदि प्रसन्नो देवेश यदि देयो वरो मम । देयं वरद्वयं मह्यं कृपां कृत्वा ममोपरि ॥ ३९ ॥ त्वया च निर्मिते लोके सकलेऽस्मिन्महाप्रभो । मत्तुल्यो बलवान्नूनं न भवेत्कोऽपि वै पुमान् ॥ ४० ॥ शिववीर्यसमुत्पन्नः पुत्रःसेनापतिर्यदा । भूत्वा शस्त्रं क्षिपेन्मह्यं तदा मे मरणं भवेत् ॥ ४१ ॥ इत्युक्तोऽथ तदा तेन दैत्येनाहं मुनीश्वर । वरं च तादृशं दत्त्वा स्वलोकमगमं द्रुतम् ॥ ४२ ॥ दैत्योऽपि स वरं लब्ध्वा मनसेप्सितमुत्तमम् । सुप्रसन्नोतरो भूत्वा शोणिताख्यपुरं गतः ॥ ४३ ॥ अभिषिक्तस्तदा राज्ये त्रैलोक्यस्यासुरैःसह । शुक्रेण दैत्यगुरुणाऽऽज्ञया मे स महासुरः ॥ ४४ ॥ ततस्तु स महादैत्योऽभवस्त्रैलोक्यनायकः । स्वाज्ञां प्रवर्तयामास पीडयन्सचराचरम् ॥ ४५ ॥ राज्यं चकार विधिवत्त्रिलोकस्य स तारकः । प्रजाश्च पालयामास पीडयन्निर्जरादिकान् ॥ ४६ ॥ ततः स तारको दैत्यस्तेषां रत्नान्युपाददे । इन्द्रादिलोकपालानां स्वतो दत्तानि तद्भयात् ॥ ४७ ॥ इन्द्रेणैरावतस्तस्य भयात्तस्मै समर्पितः । कुबेरेण तदा दत्ता निधयो नवसङ्ख्यका ॥ ४८ ॥ वरुणेन हयाः शुभ्रा ऋषिभिः कामकृत्तथा । सूर्येणोच्चैःश्रवा दिव्यो भयात्तस्मै समर्पितः ॥ ४९ ॥ यत्र यत्र शुभं वस्तु दृष्टं तेनासुरेण हि । तत्तद्गृहीतं तरसा निःसारस्त्रिभवोऽभवत् ॥ ५० ॥ समुद्राश्च तथा रत्नान्यदुस्तस्मै भयान्मुने । अकृष्टपच्याऽऽसीत्पृथ्वी प्रजाः कामदुघाऽखिलाः ॥ ५१ ॥ सूर्यश्च तपते तद्वत्तद्दुःखं न यथा भवेत् । चन्द्रस्तु प्रभया दृश्यो वायुःसर्वानुकूल्यवान् ॥ ५२ ॥ देवानां चैव यद्द्रव्यं पितॄणां च परस्य च । तत्सर्वं समुपादत्तमसुरेण दुरात्मना ॥ ५३ ॥ वशीकृत्य स लोकांस्त्रीन्स्वयमिन्द्रो बभूव ह । अद्वितीयः प्रभुश्चासीद्राज्यं चक्रेऽद्भुतं वशी ॥ ५४ ॥ निःसार्य सकलान्देवान्दैत्यानस्थापयत्ततः । स्वयं नियोजयामास देवयोनिः स्वकर्मणि ॥ ५५ ॥ अथ तद्बाधिता देवाः सर्वे शक्रपुरोगमाः । मुने मां शरणं जग्मुरनाथा अतिविह्वलाः ॥ ५६ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे तारकासुरतपोराज्यवर्णनंनाम पञ्चदशोऽध्यायः ॥ १५ ॥ श्रीगौरीशंकरार्पणमस्तु |