|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे
चतुर्दशोऽध्यायः
तारकवज्रांगयोरुपत्तिस्तत्तपोवर्णनञ्च
नारद उवाच
विष्णुशिष्य महाशैव सम्यगुक्तं त्वया विधे । चरितं परमं ह्येतच्छिवायाश्च शिवस्य च ॥ १ ॥ कस्तारकासुरो ब्रह्मन्येन देवाः प्रपीडिताः । कस्य पुत्रस्य वै ब्रूहि तत्कथां च शिवाश्रयाम् ॥ २ ॥ भस्मी चकार स कथं शंकरश्च स्मरं वशी । तदपि ब्रूहि सुप्रीत्याऽद्भुतं तच्चरितं विभोः ॥ ३ ॥ कथं शिवा तपोऽत्युग्रं चकार सुखहेतवे । कथं प्राप पतिं शम्भुमादिशक्तिर्जगत्परा ॥ ४ ॥ एतत्सर्वमशेषेण विशेषेण महाबुध । ब्रूहि मे श्रद्दधानाय स्वपुत्राय शिवात्मने ॥ ५ ॥ ब्रह्मोवाच - पुत्रवर्य महाप्राज्ञ सुरर्षे शंसितव्रतः । वच्म्यहं शंकरं स्मृत्वा सर्वं तच्चरितं शृणु ॥ ६ ॥ प्रथमं तारकस्यैव भवं संशृणु नारद । यद्वधार्थं महा यत्नः कृतो दैवैः शिवाश्रयैः ॥ ७ ॥ मम पुत्रो मरीचिर्यः कश्यपस्तस्य चात्मजः । त्रयोदशमितास्तस्य स्त्रियो दक्षसुताश्च याः ॥ ८ ॥ दितिर्ज्येष्ठा च तत्स्त्री हि सुषुवे सा सुतद्वयम् । हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः ॥ ९ ॥ तौ हतौ विष्णुना दैत्यौ नृसिंहक्रोडरूपतः । सुदुःखदौ ततो देवाः सुखमापुश्च निर्भयाः ॥ १ ० ॥ दितिश्च दुःखिताऽऽसीत्सा कश्यपं शरणं गता । पुनःसंसेव्य तं भक्त्या गर्भमाधत्त सुव्रता ॥ ११ ॥ तद्विज्ञाय महेन्द्रोऽपि लब्धच्छिद्रो महोद्यमी । तद्गर्भं व्यच्छिनत्तत्र प्रविश्य पविना मुहुः ॥ १२ ॥ तद्व्रतस्य प्रभावेण न तद्गर्भो ममार ह । स्वपन्त्या दैवयोगेन सप्त सप्ताभवन्सुताः ॥ १३ ॥ देवा आसन्सुतास्ते च नामतो मरुतोऽखिलाः । स्वर्गं ययुस्तदेन्द्रेण देवराजात्मसात्कृताः ॥ १४ ॥ पुनर्दितिः पतिं भेजेऽनुतप्ता निजकर्मतः । चकार सुप्रसन्नं तं मुनिं परमसेवया ऽ १५ ॥ कश्यप उवाच - तपः कुरु शुचिर्भूत्वा ब्रह्मणश्चायुतं समाः । चेद्भविष्यति तत्पूर्वं भविता ते सुतस्तदा ॥ १६ ॥ तथा दित्या कृतं पूर्णं तत्तपःश्रद्धया मुने । ततः पत्युः प्राप्य गर्भं सुषुवे तादृशं सुतम् ॥ १७ ॥ वज्राङ्गनामा सोऽभूद्वै दितिपुत्रोऽमरोपमः । नामतुल्यतनुर्वीरः सुप्रताप्युद्भवाद्बली ॥ १८ ॥ जननीशासनात्सद्यः स सुतो निर्जराधिपम् । बलाद्धृत्वा ददौ दण्डं विविधं निर्जरानपि ॥ १९ ॥ दितिः सुखमतीवाप दृष्ट्वा शक्रादिदुर्दशाम् । अमरा अपि शक्राद्या जग्मुर्दुःखं स्वकर्मतः ॥ २० ॥ तदाहं कश्यपेनाशु तत्रागत्य सुसामगीः । देवानत्याजयंस्तस्मात्सदा देवहिते रतः ॥ २१ ॥ देवान्मुक्त्वा स वज्राङ्गस्ततः प्रोवाच सादरम् । शिवभक्तोऽतिशुद्धात्मा निर्विकारः प्रसन्नधीः ॥ २२ ॥ वज्राङ्ग उवाच - इन्द्रो दुष्टः प्रजाघाती मातुर्मे स्वार्थसाधकः । स फलं प्राप्तवानद्य स्वराज्यं हि करोतु सः ॥ २३ ॥
मातुराज्ञावशाद्ब्रह्मन्कृतमेतन्मयाखिलम् । न मे भोगाभिलाषो वै कस्यचिद्भुवनस्य हि ॥ २४ ॥ तत्त्वसारं विधे ब्रूहि मह्यं वेदविदांवर । येन स्यां सुसुखी नित्यं निर्विकारः प्रसन्नधीः ॥ २५ ॥ तच्छ्रुत्वाहं मुनेऽवोचं सात्त्विको भाव उच्यते । तत्त्वसार इति प्रीत्या सृजाम्येकां वरां स्त्रियम् ॥ २६ ॥ वराङ्गीं नाम तां दत्त्वा तस्मै दितिसुताय वै । अयां स्वधाम सुप्रीतः कश्यपस्तत्पितापि च ॥ २७ ॥ ततो दैत्यः स वज्राङ्गः सात्विकं भावमाश्रितः । आसुरं भावमुत्सृज्य निर्वैरः सुखमाप्तवान् ॥ २८ ॥ न बभूव वराङ्ग्या हि हृदि भावोथ सात्विकः । सकामा स्वपतिं भेजे श्रद्धया विविधं सती ॥ २९ ॥ अथ तत्सेवनादाशु सन्तुष्टोऽभून्महाप्रभुः । स वज्राङ्गः पतिस्तस्या उवाच वचनं तदा ॥ ३० ॥ वज्राङ्ग उवाच किमिच्छसि प्रिये ब्रूहि किं ते मनसि वर्तते । तच्छ्रुत्वानम्य तं प्राह सा पतिं स्वमनोरथम् ॥ ३१ ॥ वराङ्ग्युवाच चेत् प्रसन्नोऽभवस्त्वं वै सुतं मे देहि सत्पते । महाबलं त्रिलोकस्य जेतारं हरिदुःखदम् ॥ ३२ ॥ ब्रह्मोवाच इति श्रुत्वा प्रियावाक्यं विस्मितोऽभूत्स आकुलः । उवाच हृदि स ज्ञानी सात्विको वैरवर्जितः ॥ ३३ ॥ प्रियेच्छति विरोधं वै सुरैर्मे न हि रोचते । किं कुर्यां हि क्व गच्छेयं कथं नश्ये न मे पणः ॥ ३४ ॥ प्रियामनोरथश्चैव पूर्णः स्यात्त्रिजगद्भवेत् । क्लेशयुङ्नितरां भूयो देवाश्च मुनयस्तथा ॥ ३५ ॥ न पूर्णः स्यात्प्रिया कामस्तदा मे नरको भवेत् । द्विधापि धर्महानिर्वै भवतीत्यनुशुश्रुवान् ॥ ३६ ॥ वज्राङ्ग इत्थं बभ्राम स मुने धर्मसङ्कटे । बलाबलं द्वयोस्तत्र विचिचिन्त च बुद्धितः ॥ ३७ ॥ शिवेच्छया स हि मुने वाक्यं मेने स्त्रियो बुधः । तथास्त्विति वचः प्राह प्रियां प्रति स दैत्यराट् ॥ ३८ ॥ तदर्थमकरोत्तीव्रं तपोन्यद्दुष्करं स तु । मां समुद्दिश्य सुप्रीत्या बहुवर्षं जितेन्द्रियः ॥ ३९ ॥ वरं दातुमगां तस्मै दृष्ट्वाहं तत्तपो महत् । वरं ब्रूहि ह्यवोचं तं सुप्रसन्नेन चेतसा ॥ ४० ॥ वज्राङ्गस्तु तदा प्रीतं मां दृष्ट्वा खे स्थितं विभुम् । सुप्रणम्य बहुस्तुत्वा वरं वव्रे प्रियाहितम् ॥ ४१ ॥ वज्राङ्ग उवाच सुतं देहि स्वमातुर्मे महाहितकरं प्रभो । महाबलं सुप्रतापं सुसमर्थं तपोनिधिम् ॥ ४२ ॥ ब्रह्मोवाच इत्याकर्ण्य च तद्वाक्यं तथास्त्वित्यब्रवं मुने । अया स्वधाम तद्दत्त्वा विमनाः संस्मरच्छिवम् ॥ ४३ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे तारकोत्पत्तौ वज्राङ्गोत्पत्तितपोवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥ श्रीगौरीशंकरार्पणमस्तु |