॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

एकत्रिंशोध्यायः ॥

आकाशवाणी


ब्रह्मोवाच
एतस्मिन्नन्तरे तत्र नभोवाणी मुनीश्वर ।
अवोचच्छृण्वतां दक्षसुरादीनां यथार्थतः ॥ १ ॥
व्योमवाण्युवाच
रे रे दक्ष दुराचार दम्भाचारपरायण ।
किं कृतं ते महामूढ कर्म चानर्थकारकम् ॥ २ ॥
न कृतं शैवराजस्य दधीचेर्वचनस्य हि ।
प्रमाणं तत्कृते मूढ सर्वानन्दकरं शुभम् ॥ ३ ॥
निर्गतस्ते मखाद्विप्रः शापं दत्त्वा सुदुःसहम् ।
ततोपि बुद्धं किञ्चिन्नो त्वया मूढेन चेतसि ॥ ४ ॥
ततः कृतः कथं नो वै स्वपुत्र्यास्त्वादरः परः ।
समागतायाः सत्याश्च मंगलाया गृहं स्वतः ॥ ५ ॥
सतीभवौ नार्चितौ हि किमिदं ज्ञानदुर्बल ।
ब्रह्मपुत्र इति वृथा गर्वितोसि विमोहितः ॥ ६ ॥
सा सत्येव सदाराध्या सर्वा पापफलप्रदा ।
त्रिलोकमाता कल्याणी शंकरार्द्धाङ्‌गभागिनी ॥ ७ ॥
सा सत्येवार्चिता नित्यं सर्वसौभाग्यदायिनी ।
माहेश्वरी स्वभक्तानां सर्वमंगलदायिनी ॥ ८ ॥
सा सत्येवार्चिता नित्यं संसारभयनाशिनी ।
मनोऽभीष्टप्रदा दैवी सर्वोपद्रवहारिणी ॥ ९ ॥
सा सत्येवार्चिता नित्यं कीर्तिसम्पत्प्रदायिनी ।
परमा परमेशानी भुक्तिमुक्तिप्रदायिनी ॥ १० ॥
सा सत्येव जगद्धात्री जगद्‌रक्षणकारिणी ।
अनादिशक्तिः कल्पान्ते जगत्संहारकारिणी ॥ ११ ॥
सा सत्येव जगन्माया विष्णुमाता विलासिनी ।
ब्रह्मेन्द्रचन्द्रवह्न्यर्कदेवादिजननी स्मृता ॥ १२ ॥
सा सत्येव तपोधर्मदातादिफलदायिनी ।
शम्भुशक्तिर्महादेवी दुष्टहन्त्री परात्परा ॥ १३ ॥
ईदृग्विधा सती देवी यस्य पत्नी सदा प्रिया ।
तस्यै भागो न दत्तस्ते मूढेन कुविचारिणा ॥ १४ ॥
शम्भुर्हि परमेशानः सर्वस्वामी परात्परः ।
विष्णुब्रह्मादिसंसेव्यः सर्वकल्याणकारकः ॥ १५ ॥
तप्यते हि तपः सिद्धैरेतद्दर्शनकाङ्‌क्षिभिः ।
युज्यते योगिभिर्योगैरेतद्दर्शनकाङ्‌क्षिभिः ॥ १६ ॥
अनन्तधनधान्यानां यागादीनां तथैव च ।
दर्शनं शंकरस्यैव महत्फलमुदाहृतम् ॥ १७ ॥
शिव एव जगद्धाता सर्वविद्यापतिः प्रभुः ।
आदिविद्यावरस्वामी सर्वमंगलमंगलः ॥ १८ ॥
तच्छक्तेर्न कृतो यस्मात्सत्करोऽद्य त्वया खल ।
अतएवाऽध्वरस्यास्य विनाशो हि भविष्यति ॥ १९ ॥
अमंगलं भवत्येव पूजार्हाणामपूजया ।
पूज्यमाना च नासौ हि यतः पूज्यतमा शिवा ॥ २० ॥
सहस्रेणापि शिरसां शेषो यत्पादजं रजः ।
वहत्यहरहः प्रीत्या तस्य शक्तिः शिवा सती ॥ २१ ॥
यत्पादपद्ममनिशं ध्यात्वा सम्पूज्य सादरम् ।
विष्णुविष्णुत्वमापन्नस्तस्य शम्भोः प्रिया सती ॥ २२ ॥
यत्पादपद्ममनिशं ध्यात्वा सम्पूज्य सादरम् ।
ब्रह्मा ब्रह्मत्वमापन्नस्तस्य शम्भोः प्रिया सती ॥ २३ ॥
यत्पादपद्ममनिशं ध्यात्वा सम्पूज्य सादरम् ।
इन्द्रादयो लोकपालाः प्रापुःस्वं स्वं परं पदम् ॥ २४ ॥
जगत्पिता शिवः शक्तिर्जगन्माता च सा सती ।
सत्कृतौ न त्वया मूढ कथं श्रेयो भविष्यति ॥ २५ ॥
दौर्भाग्यं त्वयि सङ्‌क्रान्तं सङ्‌क्रान्तास्त्वयि चापदः ।
यौ चानाराधितौ भक्त्या भवानीशंकरौ च तौ ॥ २६ ॥
अनभ्यर्च्य शिवं शम्भुं कल्याणं प्राप्नुयामिति ।
किमस्ति गर्वो दुर्वारः स गर्वोद्य विनश्यति ॥ २७ ॥
सर्वेशविमुखो भूत्वा देवेष्वेतेषु कस्तव ।
करिष्यति सहायं तं न ते पश्यामि सर्वथा ॥ २८ ॥
यदि देवाः करिष्यन्ति साहाय्यमधुना तव ।
तदा नाशं समाप्स्यन्ति शलभा इव वह्निना ॥ २९ ॥
ज्वलत्वद्य मुखं ते वै यज्ञध्वंसो भवत्वति ।
सहायास्तव यावन्तस्ते ज्वलन्त्वद्य सत्वरम् ॥ ३० ॥
अमराणां च सर्वेषां शपथोऽमंगलाय ते ।
करिष्यन्त्यद्य साहाय्यं यदेतस्य दुरात्मनः ॥ ३१ ॥
निर्गच्छन्त्वमराः स्वोकमेतदध्वरमण्डपात् ।
अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा ॥ ३२ ॥
निर्गच्छन्त्वपरे सर्वे मुनिनागादयो मखात् ।
अन्यथा भवतां नाशो भविष्यत्यद्य सर्वथा ॥ ३३ ॥
निर्गच्छ त्वं हरे शीघ्रमेतदध्वरमण्डपात् ।
अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा ॥ ३४ ॥
निर्गच्छ त्वं विधे शीघ्रमेतदध्वरमण्डपात् ।
अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा ॥ ३५ ॥
ब्रह्मोवाच
इत्युक्त्वाध्वरशालायामखिलायां सुसंस्थितान् ॥
व्यरमत्सा नभोवाणी सर्वकल्याणकारिणी ॥ ३६ ॥
तच्छ्रुत्वा व्योमवचनं सर्वे हर्यादयः सुराः ।
अकार्षुर्विस्मयं तात मुनयश्च तथाऽपरे ॥ ३७ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये
सतीखण्डे सत्युपाख्याने नभोवाणीवर्णनं नामैकत्रिंशोऽध्यायः ॥ ३१ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP