|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥
विद्येश्वरसंहिता
॥ पञ्चमोऽध्यायः ॥ ॥ शिवलिङ्गमहिमा ॥
सूत उवाच
श्रवणादित्रिकेऽशक्तो लिङ्गं वेरं च शाङ्करम् । संस्थाप्य नित्यमभ्यर्च्य तरेत् संसारसागरम् ॥ १ ॥ अपि द्रव्यं वहेदेव यथाबलमवञ्चयन् । अर्पयेल्लिङ्गवेरार्थमर्चयेदपि सन्ततम् ॥ २ ॥ मंडपं गोपुरं तीर्थं मठं क्षेत्रं तथोत्सवम् । वस्त्रं गन्धं च माल्यं च धूपं दीपं च भक्तितः ॥ ३ ॥ विविधान्नं च नैवेद्यमपूपव्यञ्जनैर्युतम् । छत्रं ध्वजं च व्यजनं चामरं चापि साङ्गकम् ॥ ४ ॥ राजोपचारवत्सर्वं धारयेल्लिङ्गवेरयोः । प्रदक्षिणां नमस्कारं यथाशक्ति जपं तथा ॥ ५ ॥ आवाहनादिसर्गान्तं नित्यं कुर्यात् सुभक्तितः । इत्थमभ्यर्च्ययन् देवं लिङ्गे वेरे च शाङ्करे ॥ ६ ॥ सिद्धिमेति शिवप्रीत्या हित्वाऽपि श्रवणादिकम् । लिङ्गवेरार्चनामात्रान्मुक्ताः पुर्वे महाजनाः ॥ ७ ॥ मुनय ऊचुः वेरमात्रे तु सर्वत्र पूज्यन्ते देवतागणाः । लिङ्गे वेरे च सर्वत्र कथं सम्पूज्यते शिवः ॥ ८ ॥ सूत उवाच अहो मुनीश्वराः पुण्यं प्रश्नमेतन्महाद्भुतम् । अत्र वक्ता महादेवो नान्योऽस्ति पुरुषः क्वचित् ॥ ९ ॥ शिवेनोक्तं प्रवक्ष्यामि क्रमाद्गुरुमुखाच्छ्रुतम् । शिवैको ब्रह्मरूपत्वान्निष्कलः परिकीर्तितः ॥ १० ॥ रूपित्वात्सकलस्तद्वत्तस्मात्सकलनिष्कलः । निष्कलत्वान्निराकारं लिङ्गं तस्य समागतम् ॥ ११ ॥ सकलत्वात् तथा वेरं साकारं तस्य सङ्गतम् । सकलाकलरूपत्वाद् ब्रह्म शब्दाभिधः परः ॥ १२ ॥ अपि लिङ्गे च वेरे च नित्यमभ्यर्च्यते जनैः । अब्रह्मत्वात् तदन्येषां निष्कलत्वं न हि क्वचित् ॥ १३ ॥ तस्मात् ते निष्कले लिङ्गे नाराध्यन्ते सुरेश्वराः । अब्रह्मत्वाच्च जीवत्वात् तथान्ये देवतागणाः ॥ १४ ॥ तूष्णीं सकलमात्रत्वादर्च्यन्ते वेरमात्रके । जीवत्वं शङ्करान्येषां ब्रह्मत्वं शङ्करस्य च ॥ १५ ॥ वेदान्तसारसंसिद्धं प्रणवार्थे प्रकाशनात् । एवमेव पुरा पृष्टो मन्दरे नन्दिकेश्वरः ॥ १६ ॥
सनत्कुमारमुनिना ब्रह्मपुत्रेण धीमता । सनत्कुमार उवाच शिवान्यदेववश्यानां सर्वेषामपि सर्वतः ॥ १७ ॥ वेरमात्रं च पूजार्थं श्रुतं दृष्टं च भूरिशः । शिवमात्रस्य पूजायां लिङ्गं वेरञ्च दृश्यते ॥ १८ ॥ अतस्तद् ब्रूहि कल्याण तत्त्वं मे साधुबोधनम् । नन्दिकेश्वर उवाच अनुत्तरमिमं प्रश्नं रहस्यं ब्रह्मलक्षणम् ॥ १९ ॥ कथयामि शिवेनोक्तं भक्तियुक्तस्य तेऽनघ । शिवस्य ब्रह्मरूपत्वान्निष्कलत्वाच्च निष्कलम् ॥ २० ॥ लिङ्गं तस्यैव पूजायां सर्ववेदेषु संमतम् । तस्यैव सकलत्वाच्च तथा सकलनिष्कलम् ॥ २१ ॥ सकलं च तथा वेरं पूजायां लोकसंमतम् । शिवान्येषां च जीवत्वात् सकलत्वाच्च सर्वतः ॥ २२ ॥ वेरमात्रं च पूजायां संमतं वेदनिर्णये । स्वाविर्भावे च देवानां सकलं रूपमेव हि ॥ २३ ॥ शिवस्य लिङ्गं वेरं च दर्शने दृश्यते खलु । सनत्कुमार उवाच उक्तं त्वया महाभाग लिङ्गवेरप्रचारणम् ॥ २४ ॥ शिवस्य च तदन्येषां विभज्य परमार्थतः । तस्मात्तदेव परमं लिङ्गवेरादिसम्भवम् ॥ २५ ॥ श्रोतुमिच्छामि योगीन्द्र लिङ्गाविर्भावलक्षणम् । नन्दिकेश्वर उवाच शृणु वत्स भवत्प्रीत्या वक्ष्यामि परमार्थतः ॥ २६ ॥ पुरा कल्पे महाकाले प्रपन्ने लोकविश्रुते । आयुध्येतां महात्मानौ ब्रह्मविष्णू परस्परम् ॥ २७ ॥ तयोर्मानं निराकर्तुं तन्मध्ये परमेश्वरः । निष्कलस्तम्भरूपेण स्वरूपं समदर्शयत् ॥ २८ ॥ ततः स्वलिङ्गचिह्नत्वात् स्तम्भतो निष्कलं शिवः । स्वलिङ्गं दर्शयामास जगतां हितकाम्यया ॥ २९ ॥ तदाप्रभृति लोकेषु निष्कलं लिङ्गमैश्वरम् । सकलं च तथा वेरं शिवस्यैव प्रकल्पितम् ॥ ३० ॥ शिवान्येषः तु देवानां वेरमात्रं प्रकल्पितम् । तत्तद्वेरं तु देवानां तत्तद्भोगप्रदं शुभम् । शिवस्य लिङ्गवेरत्वं भोगमोक्षप्रदं शुभम् ॥ ३१ ॥ इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां शिवल्लिङ्गमहिमवर्णनं नाम पञ्चमोऽध्यायः श्रीगौरीशंकरार्पणमस्तु |