॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

विद्येश्वरसंहिता

॥ द्वितीयोऽध्यायः ॥

॥ मुनिप्रश्नानामुत्तराणि ॥




सूत उवाच
साधुपृष्टं साधवो वस्त्रैलोक्यहितकारकम् ।
गुरुं स्मृत्वा भवत्स्नेहाद्वक्ष्ये तच्छृणुतादरात् ॥ १ ॥
वेदान्तसारसर्वस्वं पुराणं शैवमुत्तमम् ।
सर्वाघौघोद्धारकरं परत्र परमार्थदम् ॥ २ ॥
कलिकल्मषविध्वंसि यस्मिञ्च्छिवयशः परम् ।
विजृम्भते सदा विप्राश्चतुर्वर्गफलप्रदम् ॥ ३ ॥
तस्याध्ययनमात्रेण पुराणस्य द्विजोत्तमाः ।
सर्वोत्तमस्य शैवस्य ते यास्यन्ति सुसद्‌गतिम् ॥ ४ ॥
तावद्विजृम्भते पापं ब्रह्महत्यापुरः सरम् ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ५ ॥
तावत्कलिमहोत्पाताः सञ्चरिष्यन्ति निर्भयाः ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ६ ॥
तावत्सर्वाणि शास्त्राणि विवदन्ते परस्परम् ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ७ ॥
तावत्स्वरूपं दुर्बोधं शिवस्य महतामपि ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ८ ॥
तावद्यमभटाः क्रूराः सञ्चरिष्यन्ति निर्भयाः ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ९ ॥
तावत्सर्वपुराणानि प्रगर्जन्ति महीतले ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ १० ॥
तावत्सर्वाणि तीर्थानि विवदन्ते महीतले ।
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ११ ॥
तावत्सर्वे मुधा मंत्री विवदन्ते महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १२ ॥
तावत्सर्वाणि क्षेत्राणि विवदन्ते महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १३ ॥
तावत्सर्वाणि पीठानि विवदन्ते महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १४ ॥
तावत्सर्वाणि दानानि विवदन्ते महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १५ ॥
तावत्सर्वे च ते देवा विवदन्ते महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १६ ॥
तावत्सर्वे च सिद्धान्ता विवदन्ते महीतले ।
यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १७ ॥
अस्य शैवपुराणस्य कीर्तनश्रवणाद् द्विजाः ।
फलं वक्तुं न शक्नोमि कार्त्स्न्येन मुनिसत्तमाः ॥ १८ ॥
तथापि तस्य माहात्म्यं वक्ष्ये किञ्चित्तु वोऽनघाः ।
चित्तमाधाय शृणुत व्यासेनोक्तं पुरा मम ॥ १९ ॥
एतच्छिवपुराणं हि श्लोकं श्लोकार्धमेव च ।
यः पठेद्‌भक्तिसंयुक्तः स पापान्मुच्यते क्षणात् ॥ २० ॥
एतच्छिवपुराणं हि यः प्रत्यहमतन्द्रितः ।
यथाशक्ति पठेद्‌भक्त्या स जीवन्मुक्त उच्यते ॥ २१ ॥
एतच्छिवपुराणं हि यो भक्त्यार्चयते सदा ।
दिने दिनेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् ॥ २२ ॥
एतच्छिवपुराणं यः साधारणपदेच्छया ।
अन्यतः शृणुयात् सोऽपि मत्तो मुच्येत पातकात् ॥ २३ ॥
एतच्छिवपुराणं यो नमस्कुर्याददूरतः ।
सर्वदेवार्चनफलं स प्राप्नोति न संशयः ॥ २४ ॥
एतच्छिवपुराणं वै लिखित्वा पुस्तकं स्वयम् ।
यो दद्याच्छिवभक्तेभ्यस्तस्य पुण्यफलं शृणु ॥ २५ ॥
अधीतेषु च शास्त्रेषु वेदेषु व्याकृतेषु च ।
यत्फलं दुर्लभं लोके तत्फलं तस्य सम्भवेत् ॥ २६ ॥
एतच्छिवपुराणं हि चतुर्दश्यामुपोषितः ।
शिवभक्तसभायां यो व्याकरोति स उत्तमः ॥ २७ ॥
प्रत्यक्षरं तु गायत्रीपुरश्चर्याफलं लभेत् ।
इह भुक्त्वाखिलान् कामानन्ते निर्वाणतां व्रजेत् ॥ २८ ॥
उपोषितश्चतुर्दश्यां रात्रौ जागरणान्वितः ।
यः पठेच्छृणुयाद्वापि तस्य पुण्यं वदाम्यहम् ॥ २९ ॥
कुरुक्षेत्रादिनिखिलपुण्यतीर्थेष्वनेकशः ।
आत्मतुल्यधनं सूर्यग्रहणे सर्वतोमुखे ॥ ३० ॥
विप्रेभ्यो व्यासमुख्येभ्यो दत्त्वायत्फलमश्नुते ।
तत्फलं सम्भवेत्तस्य सत्यं सत्यं न संशयः ॥ ३१ ॥
एतच्छिवपुराणं हि गायते योऽप्यहर्निशम् ।
आज्ञां तस्य प्रतीक्षेरन् देवा इन्द्रपुरोगमाः ॥ ३२ ॥
एतच्छिवपुराणं यः पठञ्छृण्वन्हि नित्यशः ।
यद्यत्करोति सत्कर्म तत्कोटिगुणितं भवेत् ॥ ३३ ॥
समाहितः पठेद्यस्तु तत्र श्रीरुद्रसंहिताम् ।
स ब्रह्मघ्नोऽपि पूतात्मा त्रिभिरेव दिनैर्भवेत् ॥ ३४ ॥
तां रुद्रसंहितां यस्तु भैरवप्रतिमान्तिके ।
त्रिः पठेत् प्रत्यहं मौनी स कामानखिलांल्लभेत् ॥ ३५ ॥
तां रुद्रसंहितां यस्तु सम्पठेद्‍वटबिल्वयोः ।
प्रदक्षिणां प्रकुर्वाणो ब्रह्महत्या निवर्तते ॥ ३६ ॥
कैलाससंहिता तत्र ततोऽपि परमा स्मृता ।
ब्रह्मस्वरूपिणी साक्षात्प्रणवार्थप्रकाशिका ॥ ३७ ॥
कैलाससंहितायास्तु माहात्म्यं वेत्ति शङ्‌करः ।
कृत्स्नं तदर्धं व्यासश्च तदर्धं वेद्म्यहं द्विजाः ॥ ३८ ॥
तत्र किञ्चित् प्रवक्ष्यामि कृत्स्नं वक्तुं न शक्यते ।
यज्ज्ञात्वा तत्क्षणाल्लोकश्चित्तशुद्धिमवाप्नुयात् ॥ ३९ ॥
न नाशयति यत्पापं सा रौद्री संहिता द्विजाः ।
तन्न पश्याम्यहं लोके मार्गमाणोऽपि सर्वदा ॥ ४० ॥
शिवेनोपनिषत्सिन्धुमन्थनोत्पादितां मुदा ।
कुमारायार्पितां तां वै सुधां पीत्वाऽमरो भवेत् ॥ ४१ ॥
ब्रह्महत्यादिपापानां निष्कृतिं कर्तुमुद्यतः ।
मासमात्रं संहितां तां पठित्वा मुच्यते ततः ॥ ४२ ॥
दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसम्भवम् ।
पापं सकृत्कीर्तनेन संहिता सा विनाशयेत् ॥ ४३ ॥
शिवालये बिल्ववने संहितां तां पठेत्तु यः ।
स यत्फलमवाप्नोति तद्वाचोऽपि न गोचरे ॥ ४४ ॥
संहितां तां पठन्भक्त्या यः श्राद्धे भोजयेद् द्विजान् ।
तस्य ये पितरः सर्वे यान्ति शम्भोः परं पदम् ॥ ४५ ॥
चतुर्दश्यां निराहारो यः पठेत् संहितां च ताम् ।
बिल्वमूले शिवः साक्षात्स देवैश्च प्रपूज्यते ॥ ४६ ॥
अप्यन्याः संहितास्तत्र सर्वकामफलप्रदा ।
उभे विशिष्टे विज्ञेये लीलाविज्ञानपूरिते ॥ ४७ ॥
तदिदं शैवमाख्यातं पुराणं वेदसम्मितम् ।
निर्मितं तच्छिवेनैव प्रथमं ब्रह्मसम्मितम् ॥ ४८ ॥
विद्येशं च तथा रौद्रं वैनायकमथौमिकम् ।
मात्रं रुद्रैकादशकं कैलासं शतरुद्रकम् ॥ ४९ ॥
कोटिरुद्रसहस्राद्यं कोटिरुद्रं तथैव च ।
वायवीयं धर्मसञ्ज्ञं पुराणमिति भेदतः ॥ ५० ॥
संहिता द्वादशमिता महापुण्यतरा मता ।
तासां संख्यां ब्रुवे विप्राः शृणुतादरतोऽखिलम् ॥ ५१ ॥
विद्येशं दशसाहस्रं रुद्रं वैनायकं तथा ।
औमं मातृपुराणाख्यं प्रत्येकाष्टसहस्रकम् ॥ ५२ ॥
त्रयोदशसहस्रं हि रुद्रैकादशकं द्विजाः ।
षट्सहस्रं च कैलासं शतरुद्रं तदर्धकम् ॥ ५३ ॥
कोटिरुद्रं त्रिगुणितमेकादशसहस्रकम् ।
सहस्रकोटिरुद्राख्यमुदितं ग्रंथसंख्यया ॥ ५४ ॥
वायवीयं खाब्धिशतं धर्मं रविसहस्रकम् ।
तदेवं लक्षसंख्याकं शैवं संख्याविभेदतः ॥ ५५ ॥
व्यासेन तत्तु सङ्‌क्षिप्तं चतुर्विंशत्सहस्रकम् ।
शैवं तत्र चतुर्थं वै पुराणं सप्तसंहितम् ॥ ५६ ॥
शिवेन कल्पितं पूर्वं पुराणं ग्रन्थसंख्यया ।
शतकोटिप्रमाणं हि पुरा सृष्टौ सुविस्मृतम् ॥ ५७ ॥
व्यस्तेऽष्टादशधा चैव पुराणे द्वापरादिषु ।
चतुर्लक्षेण सङ्‌क्षिप्ते कृते द्वैपायनादिभिः ॥ ५८ ॥
प्रोक्तं शिवपुराणं हि चतुर्विंशत्सहस्रकम् ।
श्लोकानां संख्यया सप्तसंहितं ब्रह्मसंमितम् ॥ ५९ ॥
विद्येश्वराख्या तत्राद्या रौद्री ज्ञेया द्वितीयिका ।
तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका ॥ ६० ॥
पञ्चमी चैवमौम्याख्या षष्ठी कैलाससंज्ञिका ।
सप्तमी वायवीयाख्या सप्तैवं संहिता मताः ॥ ६१ ॥
ससप्तसंहितं दिव्यं पुराणं शिवसंज्ञकम् ।
वरीवर्ति ब्रह्मतुल्यं सर्वोपरि गतिप्रदम् ॥ ६२ ॥
एतच्छिवपुराणं हि सप्तसंहितमादरात् ।
परिपूर्णं पठेद्यस्तु स जीवन्मुक्त उच्यते ॥ ६३ ॥
श्रुतिस्मृतिपुराणेतिहासागमशतानि च ।
एतच्छिवपुराणस्य नार्हन्त्यल्पां कलामपि ॥ ६४ ॥
शैवं पुराणममलं शिवकीर्तितं त-
     द्‌व्यासेन शैवप्रवणेन च सङ्‌गृहीतम् ।
सङ्‌क्षेपतः सकलजीवगुणोपकारं
     तापत्रयघ्नमतुलं शिवदं सतां हि ॥ ६५ ॥
विकैतवो धर्म इह प्रगीतो
     वेदान्तविज्ञानमयः प्रधानः ।
अमत्सरान्तर्बुधवेद्यवस्तु
     सत्संकॢप्तमंत्रौघत्रिवर्गयुक्तम् ॥ ६६ ॥
शैवं पुराणतिलकं खलु सत्पुराणं
     वेदान्तवेदविलसत्परवस्तुगीतम् ।
यो वै पठेच्च शृणुयात् परमादरेण
     शम्भुप्रियः स हि लभेत्परमां गतिं वै ॥ ६७ ॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां
मुनिप्रश्नोत्तरवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP