|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
श्रीशिवपुराणमाहात्म्यम् ॥ द्वितीयोऽध्यायः ॥ ॥ देवराजमुक्तिवर्णनम् ॥ [ Right click to 'save audio as' for downloading Audio ]
शौनक उवाच -
सूत सूत महाभाग धन्यस्त्वं परमार्थवित् । अद्भुतेयं कथा दिव्या श्राविता कृपया हि नः ॥ १ ॥ अघौघविध्वंसकरी मनःशुद्धिविधायिनी । शिवसन्तोषजननी कथेय नः श्रुताऽद्भुता ॥ २ ॥ एतत्कथासमानं न भुवि किञ्चित्परात्परम् । निश्चयेनेति विज्ञातमस्माभिः कृपया तव ॥ ३ ॥ के के विशुद्ध्यन्त्यनया कथया पापिनः कलौ । वद तान्कृपया सूत कृतार्थं भुवनं कुरु ॥ ४ ॥ सूत उवाच - ये मानवाः पापकृतो दुराचाररताः खलाः । कामादिनिरता नित्यं तेऽपि शुद्ध्यन्त्यनेन वै ॥ ५ ॥ ज्ञानयज्ञः परोऽयं वै भुक्तिमुक्तिप्रदः सदा । शोधनः सर्वपापानां शिवसन्तोषकारकः ॥ ६ ॥ तृष्णाकुलाः सत्यहीनाः पितृमातृविदूषकाः । दाम्भिका हिंसका ये च तेऽपि शुद्ध्यन्त्यनेन वै ॥ ७ ॥ स्ववर्णाश्रमधर्मेभ्यो वर्जिता मत्सरान्विताः । ज्ञानयज्ञेन तेऽनेन सम्पुनन्ति कलावपि ॥ ८ ॥ छलच्छद्मकरा ये च ये च क्रूराः सुनिर्दयाः । ज्ञानयज्ञेन तेऽनेन सम्पुनन्ति कलावपि ॥ ९ ॥ ब्रह्मस्वपुष्टाः सततं व्यभिचाररताश्च ये । ज्ञानयज्ञेन तेऽनेन सम्पुनन्ति कलावपि ॥ १० ॥ सदा पापरता ये च ये शठाश्च दुराशयाः । ज्ञानयज्ञेन तेऽनेन सम्पुनन्ति कलावपि ॥ ११ ॥ मलिना दुर्धिर्योऽशान्ता देवताद्रव्यभोजिनः । ज्ञानयज्ञेन तेऽनेन सम्पुनन्ति कलावपि ॥ १२ ॥ पुराणस्यास्य पुण्यं सन्महापातकनाशनम् । भुक्तिमुक्तिप्रदं चैव शिवसन्तोषहेतुकम् ॥ १३ ॥ अत्रैवोदाहरन्तीममितिहासं पुरातनम् । यस्य श्रवणमात्रेण पापहानिर्भवत्यलम् ॥ १४ ॥ आसीत्किरातनगरे ब्राह्मणो ज्ञानदुर्बलः । दरिद्रो रसविक्रेता देवधर्मपराङ्मुखः ॥ १५ ॥ सन्ध्यास्नानपरिभ्रष्टो वैश्यवृत्तिपरायणः । देवराज इति ख्यातो विश्वस्तजनवञ्चकः ॥ १६ ॥ स विप्रान्क्षत्रियान्वैश्याञ्छूद्रांश्चापि तथापरान् । हत्वा नानामिषेणैव तत्तद्धनमपाहरत् ॥ १७ ॥ अधर्माद्बहुवित्तानि पश्चात्तेनार्जितानि वै । न धर्माय धनं तस्य स्वल्पञ्चापीह पापिनः ॥ १८ ॥ एकदैकतडागे स स्नातुं यातो महीसुरः । वेश्यां शोभावतीं नाम दृष्ट्वा तत्रातिविह्वलः ॥ १९ ॥ स्ववशं धनिनं विप्रं ज्ञात्वा हृष्टाऽथ सुन्दरी । वार्तालापेन तच्चित्तं प्रीतिमत्समजायत ॥ २० ॥
स्त्रियं कर्तुं स ताम्मेने पतिं कर्तुं च सा तथा । एवं कामवशौ भूत्वा बहुकालं विजह्रतुः ॥ २१ ॥ आसने शयने पाने भोजने क्रीडने तथा । दम्पतीव सदा द्वौ तु ववृताते परस्परम् ॥ २२ ॥ मात्रा पित्रा तथा पत्न्या वारितोऽपि पुनः पुनः । नामन्यत वचस्तेषां पापवृत्तिपरायणः ॥ २३ ॥ एकदेर्ष्यावशाद्रात्रौ मातरं पितरं वधूम् । प्रसुप्तान्न्यवधीद्दृष्टो धनन्तेषान्तथाऽहरत् ॥ २४ ॥ आत्मनीनं धनं यच्च पित्रादीनां तथा धनम् । वेश्यायै दत्तवान्सर्वं कामी तद्गतमानसः ॥ २५ ॥ सोऽभक्ष्यभक्षकः पापी मदिरापानलालसः । एकपात्रे सदाऽभौक्षीत्सवेश्यो ब्राह्मणाधमः ॥ २६ ॥ कदाचिद्दैवयोगेन प्रतिष्ठानमुपागतः । शिवालयं ददर्शाऽसौ तत्र साधुजनावृतम् ॥ २७ ॥ स्थित्वा तत्र च विप्रोऽसौ ज्वरेणातिप्रपीडितः । शुश्राव सततं शैवीं कथां विप्रमुखोद्गताम् ॥ २८ ॥ देवराजश्च मासान्ते ज्वरेणापीडितो मृतः । बद्धो यमभटैः पाशैर्नीतो यमपुरम्बलात् ॥ २९ ॥ तावच्छिवगणाः शुभ्रास्त्रिशूलाञ्चितपाणयः । भस्मभासितसर्वाङ्गा रुद्राक्षाञ्चितविग्रहाः ॥ ३० ॥ शिवलोकात्समागत्य क्रुद्धा यमपुरीं ययुः । ताडयित्वा तु तदूतांस्तर्जयित्वा पुनः पुनः ॥ ३ १ ॥ देवराजं समामोच्य विमाने परमाद्भुते । उपवेश्य यदा दूताः कैलासं गन्तुमुत्सुकाः ॥ ३२ ॥ तदा यमपुरीमध्ये महाकोलाहलोऽभवत् । धर्मराजस्तु तं श्रुत्वा स्वालयाद्बहिरागमत् ॥ ३३ ॥ दृष्ट्वाऽथ चतुरो दूतान्साक्षाद्रुद्रानिवापरान् । पूजयामास धर्मज्ञो धर्मराजो यथाविथि ॥ ३४ ॥ ज्ञानेन चक्षुषा सर्वं वृत्तान्तं ज्ञातवान्यमः । न भयात्पृष्टवान्किञ्चिच्छम्भोर्दूतान्महात्मनः ॥ ३५ ॥ पूजिता प्रार्थितास्ते वै कैलासमगमंस्तदा । ददुश्शिवाय साम्बाय तं दयावारिराशये ॥ ३६ ॥ धन्या शिवपुराणस्य कथा परमपावनी । यस्याः श्रवणमात्रेण पापीयानपि मुक्तिभाक् ॥ ३७ ॥ सदाशिवमहास्थानं परं धाम परम्पदम् । यदाऽऽहुर्वेदविद्वांसः सर्वलोकोपरि स्थितम् ॥ ३८ ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा अन्येऽपि प्राणिनः । हिंसिता धनलोभेन बहवो येन पापिना ॥ ३९ ॥ मातृपितृवधूहन्ता वेश्यागामी च मद्यपः । देवराजो द्विजस्तत्र गत्वा मुक्तोऽभवत्क्षणात् ॥ ४० ॥ इति श्रीस्कान्दे महापुराणे शिवपुराणमाहाम्ये देवराजमुक्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥ श्रीगौरीशंकरार्पणमस्तु |