॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
श्रीशिवपुराणमाहात्म्यम् ॥ प्रथमोऽध्यायः ॥ ॥ शिवपुराणमहत्त्वम् ॥ [ Right click to 'save audio as' for downloading Audio ]
श्रीशौनक उवाच -
हे हे सूत महाप्राज्ञ सर्वसिद्धान्तवित्प्रभो । आख्याहि मे कथासारं पुराणानां विशेषतः ॥ १ ॥ सदाचारश्च सद्भक्तिर्विवेको वर्द्धते कथम् । स्वविकारनिरासश्च सज्जनैः क्रियते कथम् ॥ २ ॥ जीवाश्चासुरतां प्राप्ताः प्रायो घोरे कलाविह । तस्य संशोधने किं हि विद्यते परमायनम् ॥ ३ ॥ यदस्ति वस्तु परमं श्रेयसां श्रेय उत्तमम् । पावनं पावनानां च साधनं तद्वदाधुना ॥ ४ ॥ येन तत्साधनेनाशु शुद्ध्यत्यात्मा विशेषतः । शिवप्राप्तिर्भवेत्तात सदा निर्मलचेतसः ॥ ५ ॥ सूत उवाच - धन्यस्त्वं मुनिशार्दूल श्रवणप्रीतिलालसः । अतो विचार्य सुधिया वच्मि शास्त्रं महोत्तमम् ॥ ६ ॥ सर्वसिद्धान्तनिष्पन्नं भक्त्यादिकविवर्द्धनम् । शिवतोषकरं दिव्यं शृणु वत्स रसायनम् ॥ ७ ॥ कालव्यालमहात्रासविध्वंसकरमुत्तमम् । शैवं पुराण परमं शिवेनोक्तं पुरा मुने ॥ ८ ॥ सनत्कुमारस्य मुनेरुपदेशात्परादरात् । व्यासेनोक्तं तु सङ्क्षेपात्कलिजानां हिताय च ॥ ९ ॥ एतस्मादपरं किञ्चित्पुराणाच्छैवतो मुने । विद्यते न मनःशुद्ध्यै कलिजानां विशेषतः ॥ १० ॥ जन्मान्तरे भवेत्पुण्यं महद्यस्य सुधीमतः । तस्य प्रीतिर्भवेत्तत्र महाभाग्यवतो मुने ॥ ११ ॥ एतच्छिवपुराणं हि परमं शास्त्रमुत्तमम् । शिवरूपं क्षितौ ज्ञेयं सेवनीयं च सर्वथा ॥ १२ ॥ पठनाच्छ्रवणादस्य भक्तिमान्नरसत्तमः । सद्यः शिवपदप्राप्तिं लभते सर्वसाधनात् ॥ १३ ॥ तस्मात्सर्वप्रयत्नेन काङ्क्षितं पठनं नृभिः । तथास्य श्रवणं प्रेम्णा सर्वकामफलप्रदम् ॥ १४ ॥ पुराणश्रवणाच्छम्भोर्निष्पापो जायते नरः । भुक्त्वा भोगान्सुविपुलाञ्छिवलोकमवाप्नुयात् ॥ १५ ॥ राजसूयेन यत्पुण्यमग्निष्टोमशतेन च । तत्पुण्यं लभते शम्भोः कथाश्रवणमात्रतः ॥ १६ ॥ ये शृण्वन्ति मुने शैवं पुराणं शास्त्रमुत्तमम् । ते मनुष्या न मन्तव्या रुद्रा एव न संशयः ॥ १७ ॥ शृण्वतां तत्पुराणं हि तथा कीर्तयतां च तत् । पादाम्बुजरजांस्येव तीर्थानि मुनयो विदुः ॥ १८ ॥ गन्तुं निःश्रेयसं स्थानं येऽभिवाञ्छन्ति देहिनः । शैवंपुराणममलं भक्त्या शृण्वन्तु ते सदा ॥ १९ ॥ सदा श्रोतुं यद्यशक्तो भवेत्स मुनिसत्तम । नियतात्मा प्रतिदिनं शृणुयाद्वा मुहूर्तकम् ॥ २० ॥ यदि प्रतिदिनं श्रोतुमशक्तो मानवो भवेत् । पुण्यामासादिषु मुने श्रूयाच्छिवपुराणकम् ॥ २१ ॥ मुहूर्तं वा तदर्द्धं वा तदर्द्धं वा क्षणं च वा । ये शृण्वन्ति पुराणं तन्न तेषां दुर्गतिर्भवेत् ॥ २२ ॥ तत्पुराणं च शृण्वानः पुरुषो यो मुनीश्वर । स निस्तरति संसारं दग्ध्वा कर्ममहाटवीम् ॥ २३ ॥ तत्पुण्यं सर्वदानेषु सर्वयज्ञेषु वा मुने । शंभोः पुराणश्रवणात्तत्फलं निश्चलं भवेत् ॥ २४ ॥ विशेषतः कलौ शैवपुराणश्रवणादृते । परो धर्मो न पुंसां हि मुक्तिसाधनकृन्मुने ॥ २५ ॥ पुराणश्रवणं शम्भोर्नामसङ्कीर्तनं तथा । कल्पद्रुमफलं सम्यङ्मनुष्याणां न संशयः ॥ २६ ॥
कलौ दुर्मेधसा पुंसां धर्माचारोज्झितात्मनाम् । हिताय विदधे शम्भुः पुराणाख्यं सुधारसम् ॥ २७ ॥ एकोऽजरामरः स्याद्वै पिबन्नेवामृतं पुमान् । शम्भोः कथामृतं कुर्यात्कुलमेवाजरामरम् ॥ २८ ॥ सदा सेव्या सदा सेव्या सदा सेव्या विशेषतः । एतच्छिवपुराणस्य कथा परमपावनी ॥ २९ ॥ एतच्छिवपुराणस्य कथाश्रवणमात्रतः । किं ब्रवीमि फलं तस्य शिवश्चित्तं समाश्रयेत् ॥ ३० ॥ चतुर्विंशतिसाहस्रो ग्रन्थोऽयं सप्तसंहितः । भक्तित्रिकसुसम्पूर्णः शृणुयात् तं परादरात् ॥ ३१ ॥ विद्येश्वरसंहिताऽऽद्या द्वितीया रुद्रसंहिता । तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका ॥ ३२ ॥ पञ्चम्युमासहितोक्ता षष्ठी कैलाससंहिता । सप्तमी वायवीयाख्या सप्तैवं संहिता इह ॥ ३३ ॥ ससप्तसंहितं दिव्यं पुराणं शिवसंज्ञकम् । वरीवर्ति ब्रह्मतुल्यं सर्वोपरिगतिप्रदम् ॥ ३४ ॥ एतच्छिवपुराणं हि सप्तसंहितमादरात् । परिपूर्णं पठेद्यस्तु स जीवन्मुक्त उच्यते ॥ ३५ ॥ पुमानज्ञानतस्तावद्भ्रमतेऽस्मिन्भवे मुने । यावत्कर्णगतं नास्ति पुराण शैवमुत्तमम् ॥ ३६ ॥ किं श्रुतैर्बहुभिः शास्त्रंः पुराणैश्च भ्रमावहैः । शैवम्पुराणमेकं हि मुक्तिदानेन गर्जति ॥ ३७ ॥ एतच्छिवपुराणस्य कथा भवति यद्गृहे । तीर्थभूतं हि तद्गेहं वसतां पापनाशनम् ॥ ३८ ॥ अश्वमेधसहस्राणि वाजपेयशतानि च । कलां शिवपुराणस्य नार्हन्ति खलु षोडशीम् ॥ ३९ ॥ तावत्स प्रोच्यते पापी पापकृन्मुनिसत्तम । यावच्छिवपुराणं हि न शृणोति सुभक्तितः ॥ ४० ॥ गङ्गाद्याः पुण्यनद्यश्च सप्तपुर्य्यो गया तथा । एतच्छिवपुराणस्य समतां यान्ति न क्वचित् ॥ ४१ ॥ नित्यं शिवपुराणस्य श्लोकं श्लोकार्द्धमेव च । स्वमुखेन पठेद्भक्त्या यदीच्छेत्परमां गतिम् ॥ ४२ ॥ एतच्छिवपुराणं यो वाचयेदर्थतोऽनिशम् । पठेद्वा प्रीतितो नित्यं स पुण्यात्मा न संशयः ॥ ४३ ॥ अन्तकाले हि यश्चैनं शृणुयाद्भक्तितः सुधीः । सुप्रसन्नो महेशानस्तस्मै यच्छति स्वं पदम् ॥ ४४ ॥ एतच्छिवपुराणं यः पूजयेन्नित्यमादरात् । स भुक्त्वेहाखिलान्कामानन्ते शिवपदं लभेत् ॥ ४५ ॥ एतच्छिवपुराणस्य कुर्वन्नित्यमतन्द्रितः । पट्टवस्त्रादिना सम्यक् सत्कारं स सुखी सदा ॥ ४६ ॥ शैवं पुराणममलं शैवसर्वस्वमादरात् । सेवनीयं प्रयत्नेन परत्रेहसुखेप्सुना ॥ ४७ ॥ चतुर्वर्गप्रदं शैवं पुराणममलं परम् । श्रोतव्यं सर्वदा प्रीत्या पठितव्यं विशेषतः ॥ ४८ ॥ वेदेतिहासशास्त्रेषु परं श्रेयस्करं महत् । शैवं पुराणं विज्ञेयं सर्वथा हि मुमुक्षुभिः ॥ ४९ ॥ शैवं पुराणमिदमात्मविदां वरिष्ठं सेव्यं सदा परमवस्तु सता समर्च्यम् । तापत्रयाभिशमनं सुखदं सदैव प्राणप्रियं विधिहरीशमुखामराणाम् ॥ ५० ॥ वन्दे शिवपुराणं हि सर्वदाऽहं प्रसन्नधीः । शिवः प्रसन्नतां यायाद्दद्यात्स्वपदयो रतिम् ॥ ५१ ॥ इति श्रीस्कान्दे महापुराणे शिवपुराणमाहात्म्ये तन्महिमवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥ श्रीगौरीशंकरार्पणमस्तु |