मागील अध्याय
पुढील अध्याय

श्रीमद् भगवद्‌गीता
सप्तदशोऽध्यायः

श्रद्धात्रयविभागयोगः


१ त्रिविध श्रद्धेविषयी अर्जुनाचा प्रश्न व भगवानांचे सोदाहरण उत्तर.

भगवानांनी ‘तस्मात् शास्त्रं’ या वचनाने तुला कर्तव्याकर्तव्याचा निर्णय करण्यास शास्त्र प्रमाण आहे, असे सांगितले. ते ऐकून प्रश्नबीज उपलब्ध झाल्यामुळे -

अर्जुन उवाच -
ये शास्त्रविधिमुसृज्य यजन्ते श्रद्धयान्विताः ।
तेषां निष्ठा तु का कृष्ण सत्वमाहो रजस्तमः ॥१॥

अन्वय :

व्याख्या : श्रीः । अतिक्रम्य नरः शास्त्रं यजति श्रद्धयान्वितः । का तन्न्ष्ठा इति जिज्ञासुर्जिष्णुः कृष्णं स पृच्छति । शास्त्रविधिं उत्सृज्य कामकारं श्रद्धया वर्तमानानां किं अधिकारः अस्ति वा नास्ति इति बुभुत्सया पृच्छति । हे कृष्ण ! मम आशयसंशय आकर्षण समर्थ ! ये पुरुषाः शास्त्रविधिं शास्त्रस्य विधिः शास्त्रविधिः तं उत्सृज्य दुःखबुद्ध्या वा आलस्येन अनादृत्य शद्धया आदरेण अन्विताः संतः युक्ताः यजंते अथवा केवलं आचारपरंपरया देवताराधनादौ प्रवर्तमानाः संतः यजंते देवतांतराणि पूजयंति तेषां पुरुषाणां निष्ठा यस्यां नितरां तिष्ठतीति निष्ठा स्थितिः का अस्ति किं सत्त्वं सात्त्विकी देवपूजा वा रजः राजसी पूजा आहो अथवा तमः तामसी पूजा अस्ति इति कथय ॥ १ ॥

अर्थ : अर्जुन - हे कृष्णा, पण जे कित्येक सामान्य लोक श्रुति - स्मृतिरूप शास्त्रविधि सोडून आस्तिक्यबुद्धीने युक्त होत्साते देवादिकांचे यजन, दान व तप करितात म्ह. कोणताहि श्रुति - स्मृतिरूप विधि न जाणता केवल वृद्धांचा व्यवहार म्ह. रूढि पाहून मोठ्या श्रद्धेने त्याप्रमाणे यज्ञादिक आचरितात, देवादिकांची पूजा करितात, त्यांची निष्ठा कोणती ? त्यांच्या पूजेला सात्विकी म्हणावयाचे ? राजसी की तामसी ? [ शास्त्रविधीला जाणत असूनहि त्याचा त्याग करून आपल्या कल्पनेने यज्ञादि करणारे लोक श्रद्धेने युक्त असणे शक्य नाही. यास्तव शास्त्रविधि न जाणता जे श्रद्धेने रूढीला अनुसरतात, त्यांच्या यज्ञादिकांविषयी हा प्रश्न आहे. ]

विवरण :


प्रश्नाचा विषय सामान्य असला तरी त्याचे उत्तर त्याच्या विषयाचा विभाग केल्यावाचून देता येण्यासारखे नाही, म्हणून त्याचे उत्तर विभागपूर्वक देण्यासाठी -

श्रीभगवानुवाच -
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सात्विकी राजसी चैव तामसी चेति तां श्रृणु ॥२॥

अन्वय :

व्याख्या : तत्रोत्तरं विचार्यमाणे श्रद्धा एकैव गुणभेदेन त्रिधा भवति । कालभेदेन आकाश इव इति अभिप्रायेण आह । देहिनां देहाः येषां सन्ति ते देहिनः तेषां देहिनां देहवतां जीवानां स्वभावजा स्वभावात् पूर्वजन्मगुणसंस्कारात् जाता स्वभावजा सा प्रसिद्धा श्रद्धा भक्तिः त्रिविधा त्रिप्रकारं इति त्रिविधा सत्त्वादि गुणत्रयभिन्नप्रकारा भवति किं तत् त्रैविध्यं सात्त्विकी सत्त्वस्य सत्त्वगुणस्य इयं सात्त्विकी सत्त्वगुणय्क्ता चेत्यपरं राजसी रजसः रजोगुणस्य इयं राजसी रजोगुणयुक्ता चेत्यपरं तामसी तमसः तमोगुणस्य इयं तामसी तमोगुणयुक्ता । हे पार्थ ! त्वं तां त्रिविधोक्तां वक्ष्यमाणां श्रृणु । शास्त्रतत्त्वज्ञानतः प्रवर्तमानां परमेश्वरपूजां एकविधैव लोकाचारमात्रेण प्रवर्तमानानां त्रिविधा श्रद्धा भवति इति तात्पर्यम् ॥ २ ॥

अर्थ : श्रीकृष्ण म्हणाले, ज्या निष्ठेविषयी म्ह. श्रद्धापूर्वक क्रियेविषयी तू प्रश्न करीत आहेस, ती देहवान जीवांची निष्ठा तीन प्रकारची आहे. ती स्वभावजन्य आहे. पूर्वजन्मी झालेला जो धर्मादिकांचा संस्कार मरणसमयी अभिव्यक्त होतो, त्याला स्वभाव म्हणतात. त्या तसल्या स्वभावापासून झालेली श्रद्धा सात्विकी, राजसी व तामसी अशी तीन प्रकारची आहे. [ तिचेच मी वर्णन करितो, ते ऐक. सत्वगुणामुळे झालेली जी श्रद्धा ती सात्विकी, रजोगुणापासून झालेली राजसी व तमोगुणापासून झालेली तामसी होय. ]

विवरण :


पूर्वसंस्कारानुसार मरणसमयी उद्‌भवलेली तीन प्रकारची ‘स्वभाव’ संज्ञक वासना, हेच तीन प्रकारच्या श्रद्धेचे निमित्त वर सांगितले. आता तिचेच उपादान कारण सांगतात -

सत्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥३॥

अन्वय :

व्याख्या : तस्याः एकत्वं अनुवदन् धर्मधर्मिणोः अभेदं दर्शयति । सत्त्वानुरूपेति । हे भारत ! सर्वस्य देहिनः सत्त्वादिगुणयुक्तस्य पुरुषस्य श्रद्धा भक्तिः सत्त्वानुरूपैव सत्त्वमेव सत्त्वगुण एव अनुरूपं आनुलक्ष्येण स्वरूपं यस्याः सा सत्त्वानुरूपा भवति । अन्यथा काम्यनिषिद्धानुष्ठानयोः श्रद्धाया अनुपपत्तेः । उक्तयोः धर्मधर्मिणोः अभेदं स्फोटयति । अयं प्रसिद्धः पुरुषः श्रद्धामयः श्रद्धाप्रचुरः श्रद्धामयः अस्ति । यथ शुक्लः पटः रक्तं उत्पलं नीलं उत्पलम् । यः पुरुषः यच्छ्रद्धः या सात्त्विकी वा राजसी वा तामसी श्रद्धा यस्य सः यच्छ्रद्धः अस्ति स एव पुरुष एव सः तच्छ्रद्धः भवति इति शेषः । यथा शुभ्रः स्फटिकः उपाधिरहितः शुभ्रतया प्रतीयते आरक्तोपाधौ वा कृष्णोपाधौ तथैव प्रतीयते तथैव गुणत्रय उपाधौ श्रद्धा भवतीति तात्पर्यम् ॥ ३ ॥

अर्थ : हे अर्जुना, विशिष्ट संस्कारांनी युक्त, अशा अंतःकरणाच्या अनुरूप सर्वांची - प्रत्येक मनुष्याची बुद्धि असते. संस्कारविशिष्ट अंतःकरण हेच श्रद्धेचे उपादान कारण असल्यामुळे त्रिविध संस्कारांच्या अनुसार प्राण्यांची श्रद्धा त्रिविध होते. हा संसारी जीव श्रद्धाप्राय - प्रायः श्रद्धायुक्त असतो. त्यामुळे ज्या जीवाची जी श्रद्धा असते, तसाच तो पुरुष असतो.

विवरण :


अधिकारी पुरुष याप्रमाणे श्रद्धाप्रचुर असल्यामुळे देवादिकांची पूजा, याच कार्यावरून त्यांच्या सत्वादि निष्ठेचे अनुमान करावे, असे सांगतात -

यजन्ते सात्विका देवान्यक्षरक्षांसि राजसाः ।
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥४॥

अन्वय :

व्याख्या : ’यो यच्छ्रद्धः स एव सः’ इति यदुक्तं तत् कार्यद्वारा प्रपंचयति । सात्त्विकाः सत्त्वेन सत्त्वगुणेन युक्ताः सात्त्विकाः सात्त्विकीश्रद्धायुक्ताः देवान् दीव्यंति प्रकाशमाना भवंति ते देवाः तान् देवान् इंद्रादीन् यजंते पूजयंति । राजसाः रजसा रजोगुणेन युक्ताः राजसा राजसीश्रद्धायुक्ताः यक्षरक्षांसि यक्षाः कुबेरादयः च रक्षांसि निर्‌ऋत्यादयः यक्षरक्षांसि यजंते पूजयंति । अन्ये उभयविलक्षणाः तामसाः तमसा तमोगुणेन युक्ताः तामसाः तामसीश्रद्धायुक्ताः जनाः जननधर्माणः प्रेतान् चेत्यपरं भूतगनान् मातृकाविनायकादीन् यजंते पूजयंति ॥ ४ ॥

अर्थ : सत्वनिष्ठ लोक वस्वादि देवांचे पूजन करितात. रजोनिष्ठ कुबेरादि यक्ष व नैर्ऋतादि राक्षस यांस पूजितात. तामस जन, प्रेत व भूतगण यांची पूजा करितात. [ स्वधर्मापासून च्युत झालेले ब्राह्मणादिक मरणानंतर वायुदेहाला प्राप्त होतात. तेच प्रेत होत. हे देवादिक आपल्याला सात्विकादि पूजकांस सात्विकादि फल देतात. ]

विवरण :


याप्रमाणे शास्त्रविधीचा त्याग केला असता सत्वादिनिष्ठ जनांच्या सत्वादि निष्ठेचे ज्ञान त्यांच्या पूजादि कार्यावरून होते. पण त्यातील हजारो लोकांपैकी कोणी एखादाच देवादिकांच्या पूजेमध्ये तत्पर - सत्वनिष्ठ असतो. जगांत रजोनिष्ठ व तमोनिष्ठ जनांचेच आधिक्य असते. कसे ते ऐक -

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।
दम्भाहंकारसंयुक्ताः कामरागबलान्विताः ॥५॥
कर्शयन्तः शरीरस्थं भूतग्राममचेतसः ।
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥६॥

अन्वय :

व्याख्या : राजसतामसेषु विशेषांतरमाह । अशास्त्रविहितं इति द्वाभ्याम् । ये प्रसिद्धाः जनाः जननमरणभाजः घोरं दारुणं आत्महिंस्त्रं तपः अनुष्ठानं तप्यंते कुर्वंति । हे पार्थ ! त्वं तान जनान् असुरनिश्चयान् विद्धि जानीहि इति द्वितीयेनान्वयः । कथंभूताः जनाः । दंभाहंकारसंयुक्ताः दंभः धनार्जननिमित्त बहिर्धर्माविष्करणं च अहंकारः कृतार्थोहमिति अभिनिवेशः दंभाहंकारौ दंभाहंकाराभ्यां संयुक्ताः संश्लिष्टाः दंभाहंकारसंयुक्ताः । पुनः कथंभूताः । कामरागबलान्विताः कामः अभिलाषः च रागह् प्राप्तेषु आसक्तिः च बलं पराभवकरणाग्रहः कामरागबलानि कामरागबलैः अनिविताः युक्ताः यद्वा कामरागयोः बलं आधिक्यं तेन कामरागबलेन अनिविताः युक्ताः । कथंभूतः तपः । अशास्त्रविहितं शास्त्रयोग्य न भवति तत् अशास्त्रविहितं अविधिकरणम् ॥ ५ ॥
कर्षयंत इति । किच पुनः कथंभूताः जनाः शरीरस्थं शरीरै भौतिककारणरूपे देहे तिष्ठतीति शरीरस्थः तं भूतग्रामं भूतानां पृथिव्यादीनां ग्रामः समूहः भूतग्रामः तं भूतग्रामं कर्षयंतः कर्षयंति ते कर्षयंतः वृथैव उपवासादिभिह् कृशं कुर्वंतः । पुनः कथंभूताः । अचेतसः अविवेकिनः यथा वृक्षशाखाग्रे स्थित्वा वृक्षशाखाच्छेदने प्रवृत्तः सन् आत्मपातं न जानाति तथा भूतग्रामं कर्षयंतः संतः शरीरपातान् न जानंति । अत एव अविवेकिन इत्यर्थः । चेत्यपरं अंतःशरीरस्थं अंतःशरीरे तिश्ठतीति अंतः शरीरस्थः तं अंतःशरीरस्थं अंतर्यामितया वर्तमानं मां परमेश्वरं कर्षयंतः मदाज्ञा शास्त्रलंघनेन तपः कुर्वंतः । हे पार्थ ! त्वं तान् पापरूपान् असुरनिश्चयान् असुषु प्राणेंद्रियेषु रमंति ते असुराः असुराणां निश्चयः कृतकृत्यया येषां ते असुरनिश्चयाः तान् विद्धि जानीहि ॥ ६ ॥

अर्थ : शास्त्राने ज्याचे विधान केलेले नाही, असे प्राण्यांना व स्वतःला पीडा देणारे तप जे करितात, जे दंभ व अहंकार यांनी युक्त असतात, जे काम्यविषय, विषयभोगांचा विलास व त्यामुळे प्राप्त होणारे बल, उत्साह यांनी युक्त असतात, ते आसुरनिश्चयी लोक रजोनिष्ठ आहेत. शरीरातील इंद्रिय समूहास कृश करणारे व त्यांच्या ज्ञानकर्मांचा साक्षिभूत बुद्धिस्थ, अशा मलाहि कृश करणारे ते अविवेकी आसुरनिश्चयी तमोनिष्ठ आहेत, असे तू जाण. [ माझ्या श्रुति - स्मृतिरूप अनुशासनाचे अनुष्ठान न करणे, हेच माझे कर्शन आहे. या आसुर लोकांचा व त्यांच्या निश्चयाचा परिहार करण्यासाठीच ‘तू त्यांना जाण’ असा येथे उपदेश केला आहे. ]

विवरण :


२ विविध आहार यज्ञ, तप व दान.

आता आहार, यज्ञ, तप व दान यांतील प्रत्येकांचे तीन तीन प्रकार त्रिविध पुरुषांना प्रिय असतात, असे सांगतात -

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।
यज्ञस्तपस्तथा दानं तेषां भेदमिमं श्रृणु ॥७॥

अन्वय :

व्याख्या : प्रासंगिकं परिसमाप्य आहारादिषु श्रद्धानिष्ठं गुणत्रैविध्यं दर्शयति । आहार इति । यथा श्रद्धा गुणभेदेन त्रिविधा भवति तथा सर्वस्य सर्वजनस्य आहारोपि अन्नादिरपि त्रिविधः तिस्रः विधाः प्रकाराः यस्य सः त्रिविधः त्रिप्रकारः गुणापेक्षया प्रियो भवति इष्टो भवति । तथा यज्ञः त्रिविधः भवति । तथा तपः त्रिविधं भवति । तथा दानं त्रिविधं भवति । त्वं तेषां आहरादीनां इमं वक्ष्यमाणं भेदं असांकर्यं श्रृणु अवधारय । एतच्च राजस-तामसाहार यज्ञादि परित्यागेन सात्त्विकाहार यज्ञादिसेवया सत्त्वशुद्धौ यत्‍नः कर्तव्यः इति एतदर्थं कथ्यते ॥ ७ ॥

अर्थ : भोक्त्या पुरुषाला आहारहि तीन प्रकारचा प्रिय असतो. यज्ञ, तप व दानहि तीन प्रकारचे प्रिय असते. त्यांचा हा त्रिविध भेद तू ऐक -

विवरण :


भोक्त्या पुरुषाला आहारहि तीन प्रकारचा प्रिय असतो. यज्ञ, तप व दानहि तीन प्रकारचे प्रिय असते. त्यांचा हा त्रिविध भेद तू ऐक -

आयुःसत्वबलारोग्यसुखप्रीतिविवर्धनाः ।
रस्याःस्निग्धाः स्थिरा हृद्या आहाराःसात्विकप्रियाः ॥८॥

अन्वय :

व्याख्या : तत्र तावत् आहारत्रैविध्यं श्रावयत् त्रिभिः । आयुरिति । हे अर्जुन ! इमे वक्ष्यमाणां आहाराः सत्त्विकप्रियाः सात्त्विकानां सत्त्वगुणयुक्तानां प्रियाः इष्टाः सत्त्विकप्रियाः संति । कथंभूताः आहाराः । आयुः सत्त्व बल आरोग्य सुख प्रीति विवर्धनाः आयुः जीवनोपचयः च सत्त्वं चित्तोत्साहः च बलं देहशक्तिः च आरोग्यं रोगाभावः च सुखं अंतःप्रसन्नता च प्रीतिः अभिरुदिः आयुःसत्त्वबलारोग्यसुखप्रीतयः आयुःसत्त्वबलारोग्यसुखप्रीतीनां विवर्धनं विस्तारः येभ्यस्ते आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । पुनः कथंभूताः । रस्याः रसेन उपेताः युक्तः रस्याः । पुनः कथंभूताः । स्निग्धाः स्नेहेन पूरिताः परिपूर्णाः स्निग्धाः । पुनः कथंभूताः । स्थिराः साराम्शेन चिरकालस्थायिनः । पुनः कथंभूताः । हृद्याः दृष्ट्वैव मनोरमाः ॥ ८ ॥

अर्थ : आयुष्य, मानसबल, शारीरबल, आरोग्य, सुख व प्रीति यांची वृद्धि करणारे, रसयुक्त, स्नेहयुक्त, देहांत परिणामरूपाने चिरकाल रहाणारे व हृदयाला प्रिय वाटणारे, असे आहार सात्विक लोकांना प्रिय असतात.

विवरण :


कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥९॥

अन्वय :

व्याख्या : राजस आहारान् दर्शयति । कट्वम्लेति । अत्र लवणोष्णयोः मध्यवर्ती अतिशब्दः वर्तते । सः अतिशब्दः कट्वादिषु सप्तसु योज्यः । हे पार्थ ! एते प्रसिद्धाः आहाराः राजसस्य रजोगुनयुक्तस्य इष्टाः प्रियाः संति । एते के ? कटु लवण अतिउष्ण तीक्ष्ण रूक्ष विदाहिनः अतिकटुः निंबादिः । च अत्यम्लः तिंतिणीजंबीरादिः । अतिलवण सैंधवादिक्षारद्रव्यम् । अत्युष्णश्च प्रसिद्धः करेण आदातुं अशक्यः । अतीतीक्ष्णश्च तिक्तं मरीचादिः । अतिरूक्षश्च कोद्रवादिः । अतिविदाही च सर्षपादिः । कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । कथंभूताः आहाराः । दुःखशोकामयप्रदाः दुःखं च भक्षणकाले पीडाजनकं शोकः भाविसंतापकरः आमयश्च रोगः दुःखशोकामयाः दुःखशोकामयान् प्रकर्षेण ददविते दुःखशोकामयप्रदाः ॥ ९ ॥

अर्थ : अति कटु, आंबट, खारट, उष्ण, तिखट, रूक्ष - नीरस व दाहक म्ह. तोंडाची आग करणारे, असे आणि दुःख, शोक व रोग देणारे आहार राजस प्रकृतीला मनुष्याला आवडतात. [ या श्लोकांत राजस लोकांना आवडणारे आहार सांगितले आहेत. ‘अति’ शब्द कटु, आंबट, खारट इत्यादि सर्वांच्या मागे जोडावा. ]

विवरण :


यातयामं गतरसं पूति पर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥१०॥

अन्वय :

व्याख्या : इदानीं तामसा आहारान् दर्शयति । हे पार्थ ! यत् अन्नं यातयामं मंदपक्वं यद्वा यतः अतिक्रांतः यामं प्रहरः यस्य तत् यातयामः शैत्यावस्थां आपन्नं अस्ति । चेत्यपरं यत् अन्नं गतरसं ओदनव्यंजनादि अस्ति । किंच यत् अन्नं पूति गंधयुक्तं सूपादि अस्ति । किंच यत् अन्नं पर्युषितं दिनांतरपक्वं अस्ति । किंच यत् अन्नं उच्छिष्टं बालकादिभुक्तावशिष्टं यद्वा दंतैः अवखंडितावशिष्टं अस्ति । किंच यत् अन्नं अमेध्यं भक्षणायोग्यं पलांडुलशुनादि अस्ति एवंभूतं भोजनं तामसप्रियं तामसस्य तमोगुणयुक्तस्य प्रियं इष्टं तामसप्रियम् । भवति इति शेषः ॥ १० ॥

अर्थ : अर्धे कच्चे शिजलेले, रसरहित, दुर्गंधयुक्त, शिळे, आंबलेले, वास येत असलेले, उष्टे व अपवित्र असे अन्न तामस लोकांना प्रिय असते. [ राजस व तामस आहारांचा त्याग करून सात्विक आहारांचे ग्रहण करण्यासाठी येथे तीन प्रकारचा आहार सांगितला आहे. ]

विवरण :


आता तीन प्रकारचा यज्ञ सांगतात -

अफलाकाङिक्षभिर्यज्ञो विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनः समाधाय स सात्विकः ॥११॥

अन्वय :

व्याख्या : इदानीं यज्ञत्रैविध्यमाह । अफलेति । हे पार्थ ! सः प्रसिद्धः सात्विकः सत्त्वस्य सत्त्वगुनयुक्तस्य अयं सात्त्विकः यज्ञः ज्ञेयः । इति शेषेण अन्वयः । सः कः यज्ञः । अफलाकांक्षिभिः फलानां आकांक्षा येषां ते फलाकांक्षिणः न भवंति ते अफलाकांक्षिणः तैः अफलाकांक्षिभिः विधिदृष्टः विधिना यथाशास्त्रविधिना दृष्टः संपादितः विधिदृष्टः यः यज्ञः इज्यते अनुष्ठीयते । किं कृत्वा । यष्टव्यं ईश्वरोद्देशेन यथाधिकारं यष्टव्यं इति एवं प्रकारेण मनः अंतःकरणं समाधाय निश्चलं कृत्वा ईश्वराज्ञया यथवर्णाश्रमानुष्ठानं कर्तव्यं इति मनः एकाग्रं कृत्वा फलाशां विना यथाविधानं यज्ञो निवर्त्यते स सात्विको यज्ञ इत्यर्थः ॥ ११ ॥

अर्थ : फलाची आकांक्षा न करणार्‍या लोकांकडून शास्त्राच्या विधीने प्राप्त झालेला जो यज्ञ ‘मला हा अवश्य करावयास पाहिजे’, असे मनाचे समाधान करून केला जातो, तो सात्विक यज्ञ आहे.

विवरण :


अभिसंधाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥१२॥

अन्वय :

व्याख्या : राजसयज्ञमाह । अभिसंधायेति । हे भरतश्रेष्ठ ! भरतानां भरतवंश्यानां राज्ञां श्रेष्ठः भरतश्रेष्ठः तत्संबुद्धौ हे भरतश्रेष्ठ ! त्वं तं प्रसिद्धं राजसं रजसः रजोगुणयुक्तस्य अयं राजसः तं राजसं यज्ञं विद्धि जानीहि । सः कः । यत् यः राजसैः रजोगुणयुक्तपुरुषैः इति शेषः । फलं यज्ञफलं अभिसम्धाय कर्मारंभे गृहे निक्षिप्तद्रव्यवत् असंशयं अमुत्र फलं उपभोगाय भविष्यति इति विश्वासेन संकल्प्य इहलोके धनमानलाभं उद्दिश्य दंभर्थं दंभाय इति दंभर्थं महत्त्वख्यापनार्थं इज्यते यज्ञः क्रियते स राजसयज्ञ इत्यर्थः ॥ १२ ॥

अर्थ : हे भरतकुलश्रेष्ठा, पण फलाची इच्छा ठेवून व केवल दंभासाठीहि जे यजन केले जाते, त्या यजनाला राजस यज्ञ जाण. [ स्वर्गादिकांच्या उद्देशाने व आपले धार्मिकत्व प्रकट करण्यासाठी जो यज्ञ केला जातो, तो राजस होय. ]

विवरण :


विधिहीनमसृष्टान्नं मंत्रहीनमदक्षिणम् ।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥१३॥

अन्वय :

व्याख्या : तामसयज्ञमाह । विधिहीनमिति । शिष्टाः इति शेषः । तं प्रसिद्धं तामसं तमसः तमोगुणयुक्तस्य अयं तामसः तं तामसं यज्ञं परिचक्षते कथयंति । तमेव यज्ञमेव अनेकविशेषणैः विशिनष्टि । कथंभूतंयज्ञम् । विधिहीनं विधिना यथाशास्त्रविधिना हीनः रहितः विधिहीनः तं विधिहीनं यस्मिन् यज्ञे विधि विधानं नास्ति । पुनः कथंभूतम् । असृष्टान्नं ब्राह्मणेभ्यः न सृष्टं न संपादितं अन्नं यस्मिन् सः असृष्टान्नः तं असृष्तान्नम् । पुनः कथंभूतम् । मंत्रहीनं मंत्रैः यथावत् मंत्रोच्चारणैः हीनः रहितः मंत्रहीनं तं मंत्रहीनम् । पुनः कथंभूतम् । अदक्षिणं न विद्यते दक्षिणा अप्ला यथोक्ता वा दक्षिणा यस्मिन् सः दक्षिणः तम् । पुनः कथंभूतम् । श्रद्धाविरहितं श्रद्धया आस्तिक्यबुद्ध्या विरहितः श्रद्धाविरहितः तं यस्मिन् यज्ञे श्रद्धापि नास्ति ॥ १३ ॥

अर्थ : शास्त्रोक्त विधीवांचून असलेला ज्यांत अन्नदान केलेले नाही, मंत्ररहित, दक्षिणेवांचून व श्रद्धाशून्य, अशा यज्ञाला तामस यज्ञ म्हणतात.

विवरण :


शारीरादि तप त्रिविध आहे. त्यांतील शारीरतप प्रथम सांगतात -

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥१४॥

अन्वय :

व्याख्या : इदानीं सात्विकादिभेदेन तपस्त्रैविध्यं वदन् प्रथमं शरीरादिभेदेन तपस्त्रैविध्यमाह । देवद्विजेति । हे पार्थ ! विद्वज्जनैः इति शेषः । एतत् किम् । देवद्विजगुरुप्राज्ञपूजनं देवां इंद्रादयः च द्विजाः ब्राह्मणाः च गुरवः उपदेष्टारः च प्राज्ञाः बुद्धिमंतः देवद्विजगुरुप्राज्ञाः बाह्यसंस्कारः चेत्यपरं आर्जवं इंद्रियेषु अवक्रता च ब्रह्मचर्यं ऋतौ स्त्रीसंगः चेत्यपरं अहिंसा वचनशरीराभ्यां परपीडाराहित्यम् । इदं शरीरस्य तपोनुष्ठानम् ॥ १४ ॥

अर्थ : देव, ब्राह्मण, गुरु व प्राज्ञ विद्वान् यांचे प्रणाम शुश्रुषादि पूजन, पूर्वोक्त द्विविध शुचिर्भूतपणा, अंतःकरणाचा सरळपणा, प्राण्यांना पीडा न देणे, स्त्रीशरीराशी संसर्ग न करणे, हे शरीराने होणारे तप म्हटले जाते. [ शरीर ज्यामध्ये प्रधान आहे, अशा शरीरेंद्रियादिकांनी होणार्‍या तपाला शारीरिक तप म्हणतात. ]

विवरण :


अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥१५॥

अन्वय :

व्याख्या : वाचिकं तप आह । हे कौंतेय ! विद्वद्‌भिः यत् एतत् सर्वं वाङ्‌मयं वाक्प्रचुरं वाङ्‌मयं वाग्‌रूपं तपः अनुष्ठानं उच्यते कथ्यते । एतत् किं अनुद्वेगकरं उद्वेग मानसक्षोभं करोति तत् उद्वेगकरं उद्वेगकरं न भवति तत् अनुद्वेगकरं वाक्यं वचनं अनृतमपि वाक्यं अनुद्वेगकरं भवति तन्निवारणार्थं चेत्यपरं सत्यं यथाशास्त्रं परदारधनादि अपहरणं त्वया कृतं निषिद्धं अप्रियं भवति । तन्निवारणार्थं प्रियं कर्णमधुरं प्रतारणया उक्तं वाक्यं त्वं धर्मवान् इति प्रियं भवत् हितं न भवति तन्निवारणार्थं हितं हितकारकम् । हे देवदत्त ! त्वया हितमेव कर्तव्यं इति एवंरूपं चेत्यपरं स्वाध्यायाभ्यसनं स्वाध्यायस्य स्वधीतब्रह्मयज्ञस्य अभ्यसनम् प्रतिदिनमावृतिः स्वाध्यायाभ्यसनं यत् एतत् वाङ्‌मयं तपः उच्यते ॥ १५ ॥

अर्थ : जे वाक्य प्राण्यांच्या मनांत दुःख उत्पन्न न करणारे, खरे व प्रिय आणि हितकर असते ते वाक्य व यथाविधि वेदशास्त्राध्ययन हे वाङ्मयतप सांगितले जाते. [ प्राण्यांना दुःखकर न होणारे, सत्य, प्रिय व परिणामी हितावह, असे जे वाक्य, तेच श्रेष्ठ वाङ्मयतप होय. या चार विशेषणांपैकी एखादे विशेषण जरी कमी असले, तरी त्या वाक्यास वाङमयतप म्हणता येणार नाही. तसेच शास्त्रोक्त विधीने स्वाध्यायाचे आवर्तन करणे, हेहि वाङमयतप आहे. यामध्ये वाणीचे प्राधान्य असते. ]

विवरण :


मानसतप सांगतात -

मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥१६॥

अन्वय :

व्याख्या : मानसं तप आह । विद्वज्जनैः इति शेषः । इति एवं प्रकारेण एतत् सर्वं मानसं मनसः इदं मानसं तपः अनुष्ठानं उच्यते कथ्यते । एतत् किम् । मनःप्रसादः मनसः अंतःकरणस्य प्रसादः प्रसन्नता मनःप्रसादः चेत्यपरं सौम्यत्वं सौम्यस्य भावः सौम्यत्वं उग्रस्वभावराहित्यं चेत्यपरं मौनं मननात् मन्धर्मत् मुनिः मुनेर्भावः मौनं मनोनैश्चल्ये सति वाङ्‌नियमः चेत्यपरं आत्मविनिग्रहः आत्मनः इन्द्रियसहितस्य मनसः निग्रहः नियमनं आत्मविनिग्रहः चेत्यपरं भावसंशुद्धिः भावस्य चित्ताभिप्रायस्य संशुद्धिः भावसंशुद्धिः सर्वव्यवहारेषे अंतःकापट्यराहित्यम् ॥ १६ ॥

अर्थ : मनाची अत्यंत शांति, प्रसन्नता, त्यांत रागादि दोषराहित्य, हा गुण संपादन करणे, सर्वांचे हितचिंतन करणे, हेच सौम्यत्व, त्याला ‘सौमनस्य’ असेहि म्हणतात. मुखाच्या प्रसन्नतेवरून अंतःकरणाचा हा धर्म ओळखला जातो. मौन - न बोलण्याविषयी मनाचा संयम किंवा मुनीचा भाव - मनन, सर्व बाजूंनी मनाचा निरोध करणे, मनाचा निष्कपटपणा, अशा प्रकारचे तप, मानसतप म्हटले जाते. [ वाणीचा संयम हा ‘मौन’ शब्दाचा खरा अर्थ आहे. पण मानस तपामध्ये त्याचा संभव नसल्यामुळे त्या मौनाचे कारण जो मनःसंयम, त्याचे येथे ग्रहण करावे लागते. आत्मविनिग्रह - सामान्यतः सर्व विषयांपासून मनाचा निग्रह व मौन म्ह. वाक्‌विषयक मनाचाच निग्रह होय. ]

विवरण :


वर तीन श्लोकांत सांगितलेले शारीर, वाङमय व मानस तप सत्वादि भेदाने त्रिविध कसे होते, ते या पुढील तीन श्लोकांनी सांगितले जाते -

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।
अफलाकाङिक्षभिर्युक्तैः सात्विकं परिचक्षते ॥१७॥

अन्वय :

व्याख्या : एवं शरीरादिभेदेन त्रिविधं तपः उक्त्वा इदानीं गुणभेदेन त्रिविधं तपः दर्शयन् सन् प्रथमं सात्त्विकं तपः आह । श्रद्धया इति । हे पार्थ !शिष्टाः इति शेषः । तत् उक्तप्रकरंत्रिविधं तिस्रः विधाः प्रकाराः यस्य तत् त्रिविधं शारीरादिभेदभिन्नं तपः अनुष्ठानं सात्त्विकं सत्त्वस्य सत्वगुणयुक्तस्य इदं सात्त्विकं परिचक्षते कथयंति । कथंभूतं तपः । नरैः पुरुषैः परया श्रेष्ठया श्रद्धया आत्यंतिक्या आस्तिकबुद्ध्या तप्तं अनुतिष्ठतम् । कथंभूतैः नरैः । अफलाकांक्षिभिः फलानां आकंक्षा इच्छा येषां ते फलाकांक्षिणः न भवंति ते अफलाकांक्षिणः तैः अफलाकांक्षिभिः । पुनः कथंभूतैः । युक्तैः नियतांतःकरणैः नियतांतःकरणत्वात् अफालाकांक्षित्वम् ॥ १७ ॥

अर्थ : फलाची आकांक्षा न करणार्‍या समाहित चित्त म्ह. सिद्धी - असिद्धीविषयी निर्विकार अशा पुरुषांकडून अतिशय श्रद्धेने केले जाणारे जे त्रिविध तप, त्यालाच सात्विक असे म्हणतात.

विवरण :


सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥१८॥

अन्वय :

व्याख्या : राजसं तपः आह । सत्कारेति । हे पार्थ ! नरैः पुरुषैः इति शेषः । सत्कारमानपूजार्थं सत्कारं साधुवादः ’अयंतापसं धर्मात्मा अनेन सदृशः कोऽपि नास्ति’ - इति साधुवादः च मानः प्रत्युत्थानभिवादनपूर्वकसन्मानः च पूजा गोधनान् नववस्त्रादिदानपूजा सत्कारमानपूजाः सत्कारमानपूजाभ्यः इति सत्कारमानपूजार्थं चेत्यपरं दंभेन परैः सत्कारमानपूजाविहीनोपि स्वयमेव अहं धर्मात्मा इति धर्मध्वज्त्वेन यत् प्रसिद्धं तपः अनुष्ठानं क्रियते विद्वज्जनैः इति शेषः । तत् प्रसिद्धं तपः अनुष्ठानं इह लोके राजसं रजसः रजोगुणस्य इदं राजसं प्रोक्तं उच्चारितं सत्कारादिकामनया कृतम् । कथंभूतः तपः । चलं चंचलं अनित्यम् । पुनः कथंभूतम् । अध्रुवं क्षणिकं फलव्यभिचारम् ॥ १८ ॥

अर्थ : जे तप ‘हा साधु, तपस्वी ब्राह्मण आहे’, असे म्हणून लोकांनी सत्कार करावा यासाठी, त्यांनी उठून उभे रहावे, प्रणाम करावा इत्यादि मानासाठी, पादप्रक्षालन, पूजन, भोजन इत्यादि पूजेसाठी आणि दंभाने नास्तिकपणाने केवल आपले धार्मिकत्व प्रकट करण्यासाठी, आचरिले जाते, ते याच लोकी फल देणारे असल्यामुळे, राजस, चल व त्याचे फल अनियत असल्यामुळे अध्रुव म्हटले आहे. [ अशा राजस तपाला त्याज्य मानावे. ]

विवरण :


मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥१९॥

अन्वय :

व्याख्या : तामसं तपः आह । मूढग्राहेणेति । अविवेकिजनैः इति शेषः । मूढग्राहेण मूढेन अविवेकेन ग्राहः दुराग्रहः मूढग्राहः तेन मूढग्राहेण आत्मनः देहद्वयसंघातस्य पीडया यत् प्रसिद्धं तपः अनुष्ठानं क्रियते वा अथवा परस्य उत्सादनार्थं तपः अनुष्ठानं क्रियते तत् तपः तामसं तमसः तमोगुणयुक्तस्य इदं तामसं उदाहृतम् । उच्चारितम् तमसा निर्वर्तितं उक्तम् ॥ १९ ॥

अर्थ : जे तप अविवेकयुक्त निश्चयाने स्वतःच्या देहादिकांना पीडा देऊन किंवा दुसर्‍याच्या उत्सादनार्थ विनाशासाठी केले जाते, त्याला तामस म्हटले आहे.

विवरण :


दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम् ॥२०॥

अन्वय :

व्याख्या : इदानीं दानत्रैविध्यं वदन् सन् प्रथमं सात्त्विकं दानमाह । दातव्यमिति । न्यायार्जितं धनं स्वभोगोपक्षीणावशिष्टं दानार्हतया दातव्यं दातुं योग्यं दातव्यं इति निश्चयेन यत् प्रसिद्धं दानं अनुपकारिणे न विद्यते उपकारोतीति उपकारी उपकरोति ’अस्मै दानं दत्तं चेत् अयं मां उपकरिष्यति’ उपकारी उपकारी न भवतीति अनुपकारी तस्मै देशे पुण्यदेशे चेत्यपरं काले ग्रहणादौ चेत्यपरं पात्रे सत्पात्रे दीयते क्रियते जनैः इति शेषः । तत् प्रसिद्धं दानं सात्त्विकं सत्त्वस्य सत्त्वगुणस्य इदिअं सात्त्विकं स्मृतम् । यद्वा पात्रे ’संप्रदाने चतुर्थी’ पात्रे पातीति पाता तस्मै पत्रे पाति दानं गृहित्वा यजमानं संरक्षति पात्रे पात्रभूताय ॥ २० ॥

अर्थ : ‘मला हे दान द्यावयाचे आहे. त्याच्या फलादिकांची इच्छा करावयाची नाही’ अशी भावना करून जे दान अनुपकारी - उलट उपकार करण्यास असमर्थ असलेल्या मनुष्याला दिले जाते, किंवा प्रत्युपकार करण्यास समर्थ असलेल्याहि निरपेक्ष - प्रत्युपकाराची अपेक्षा न करतां, कुरुक्षेत्रादि पवित्र प्रदेशी, संक्रांत्यादि पर्वकाली व षडंगवेत्ता, षट्‌शास्त्रज्ञ, वेदपारंगत इत्यादिकांस दिले जाते, ते दान सात्विक म्हटलेले आहे.

विवरण :


यत्तु प्रत्युपकारार्थं फलमुद्दिष्य वा पुनः ।
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥२१॥

अन्वय :

व्याख्या : राजसं दानं आह ।यत्त्विति । हे पार्थ ! जनैः इति शेषः । यत् दानं प्रत्युपकारार्थं प्रत्युपकाराय इति प्रत्युपकारार्थं उपकारार्थं समयविशेषे अयमपि मां उपकारं करिष्यति एतदर्थं वा अथवा पुन्हःफलं स्वर्गादिसुखं उद्दिश्य संकल्प्य परिक्लिष्टं यथा स्यात् तथा मानसकष्टं यथा भवति तथा दीयते क्रियते तत् दानं राजसं रजसः रजोगुणस्य इदं राजसं उदाहृतं कथितम् । च शब्देन संबोधनं तु शब्देन शेषः ॥ २१ ॥

अर्थ : पण जे दान प्रत्युपकारासाठी म्ह. प्रसंगी हा माझ्यावर प्रत्युपकार करील यासाठी, किंवा ज्या दानाचे अदृष्ट फल मला प्राप्त होईल, अशा फलोद्देशाने व तसेच परिक्लेशाने म्ह. खेदयुक्त होऊन दिले जाते, ते राजस दान म्हटले आहे.

विवरण :


अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥२२॥

अन्वय :

व्याख्या : तामसदानमाह अदेशकाले देशः शुद्धदेशः च कालः दानसमयः देशकालौ देशकालौ न भवतः तौ अदेशकालौ अदेशकालयोः समाहारः अदेशकालं तस्मिन् अदेशकाले म्लेच्छाद्याक्रांतप्रदेशे अशुचिस्थाने चेत्यपरं दानानर्हसमये अशौचादौ अपात्रेभ्यःन पात्राः न सत्पात्राः अपत्राः तेभ्यः अपात्रेभ्यः नटविटादिसदृशेभ्यः अपात्रेभ्यः ब्राह्मणेभ्यः यत् प्रसिद्धं दानं दीयते क्रियते तत् दानं तामसं तमसः तमोगुणस्य इदं तामसं उदाहृतं उच्चारितम् । बुधैः इति शेषः । कथंभूतं दानम् । असत्कृतं सत्कृतं न भवति तत् असत्कृतं पादप्रक्षालनादिसत्कारहीनम् । पुनः कथंभूतम् । अवज्ञातं तिरस्कारयुक्तम् ॥ २२ ॥

अर्थ : जे दान अमंगल मनुष्ये व पदार्थ यांचा ज्याच्याशी संसर्ग झाला आहे, अशा अपवित्र प्रदेशी, तसेच अकाली पुण्यहेतुत्वाने प्रख्यात नसलेल्या, संक्रांत्यादि विशेषरहित काली आणि सत्पात्र नसलेल्या मूर्ख, चोर इत्यादिकांना, तसेच देशादि संपत्ति जरी असली म्ह. योग्य देश, काल व पात्र जरी असले तरी प्रिय भाषण, पादप्रक्षालन, पूजा इत्यादि न करतां अवज्ञेने सत्पात्राचा तिरस्कार करून जे दान दिले जाते, त्याला तामस दान म्हटले जाते.

विवरण :


यज्ञादिकांतील दोषनिवारणाचा उपाय.

यज्ञ, दान, तप इत्यादि विहित कर्मांचे साद्‌गुण्य संपादन करण्यासाठी म्ह. त्यांत प्रमादादि कारणाने घडलेल्या वैगुण्याचा परिहार करून, त्यांना सद्‌गुणसंपन्न करण्यासाठी हा पुढील उपदेश केला आहे -

ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥२३॥

अन्वय :

व्याख्या : ननु एव विचार्यमाणे सति सर्वमपि यज्ञतपोदानादि राजसतामसप्रायमेव इति व्यर्थो यज्ञादिप्रयसः इत्याशंक्य तथाविधस्यापि सात्त्विकत्वापादनप्रकारं दर्शयितुं आह । ॐ तत्सदिति । हे पार्थ !शिष्टैः इति शेषः । ॐतत् सत् इति एवं प्रकरेण त्रिविधः तिस्रः विधा यस्य सः त्रिविधः त्रिप्रकारकः ब्रह्मणः परमात्मनः मम निर्देशः निर्दिश्यते अनेनेति निर्देशः नामोच्चारणं स्मृतः । किं तत् त्रैविध्यं ॐ एकाक्षरं ब्रह्म ब्रह्मणः नाम चेत्यपरं तत् तेजोरूपं ब्रह्मणः नाम चेत्यपरं सत् सत्वरूपं ब्रह्मणः नाम एवं त्रिविध्पि निर्देशः ब्रह्मणः नामानिरुक्तिः विगुणमपि सर्वं कर्म सगुणीकर्तुं समर्थं अस्ति इत्याशयेनाह । तेन त्रिविधब्रह्मरूपनिर्दशेन ब्राह्मणाः चेत्यपरं वेदाः चेत्यपरं यज्ञाः पुरा सृष्ट्यारंभे विहिताः ब्राह्मणादयः अतिपवित्रतमा निर्मिताः ॥ २३ ॥

अर्थ : ‘ॐ तत् व सत्’ असा हा ब्रह्माचा तीन प्रकारचा नामनिर्देश उपनिषदांमध्ये ब्रह्मवेत्त्यांनी कल्पिलेला आहे. सृष्टीच्या आरंभी ब्रह्मदेवाने या त्रिविध नामनिर्देशाने ब्राह्मण, वेद आणि यज्ञ यांना निर्माण केले आहे. [ यज्ञांत कांही वैगुण्य झाले आहे, असा संशय आल्यास या तीन नावांतील कोणत्याही नावाचा उच्चार करावा, म्हणजे त्या वैगुण्याचा परिहार होतो. या श्लोकाच्या उत्तरार्धाने त्रिविध नावांची स्तुति केली आहे. ]

विवरण :


त्यांतील ‘ॐ’ चा विनियोग -

तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥२४॥

अन्वय :

व्याख्या : इदानीं प्रत्येकं ॐकारादीनां प्राशस्त्यं दर्शयिष्यम् सन् ॐकारस्य साकल्येनार्थमाह । तस्मादिति । यस्मात् ॐकारः ब्रह्मणः निर्देशः प्रशस्तः तस्मात् कारणात् ॐ इति एवं प्रकारेण उदाहृत्य उच्चार्य ब्रह्मवादिनां ब्रह्म वेदं वदंति ते ब्रह्मवादिनः तेषां ब्रह्मवादिनां वैदिकानां यज्ञदानतपःक्रियाः यज्ञाः अश्वमेधादयः द दानानि अन्नदानादीनि च तपांसि कृच्छ्रचांद्रायणादीनि यज्ञदानतपांसि यज्ञदानतपस्सु क्रियाः कर्माणि यज्ञदानतपःक्रियाः सततं सार्वकालं प्रवर्तते प्रतिमंत्रं चेत्यपरं मंत्रावसानं ॐकारमुच्चार्य कर्माणि भवम्ति । कथंभूताः यज्ञदानतपःक्रियाः । विधानोक्ताः विधानेन यथाशास्त्रविधिना उक्ताः उच्चारिताः विधान्क्ताः ॐकाररूपेण सर्वत्र ब्रह्मणः व्याप्तिः दर्शिता ॥ २४ ॥

अर्थ : ज्याअर्थी ‘ॐ’ हा निर्देश ब्राह्मणादिकांचे कारण आणि ब्रह्माचे नांव आहे, त्याअर्थी ‘ओं’ असे म्हणून ब्रह्मवाद्यांच्या म्ह. वेदाध्ययन करणे, हे ज्यांचे शीलच आहे, अशा द्विजांच्या शास्त्रविधानोक्त यज्ञ, दान व तप या क्रिया सर्वदा प्रवृत्त होतात.

विवरण :


‘तत्’ या निर्देशाचा विनियोग -

तदित्यनभिसंधाय फलं यज्ञतपःक्रियाः ।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङिक्षभिः ॥२५॥

अन्वय :

व्याख्या : एवं ॐकारस्य प्राशस्त्यं दर्शयित्वा तदिति निर्देशस्य प्राशस्त्यं दर्शयति । तदिति । तत् नित्यनैमित्तिकानुष्ठानं तत्फलार्थं तेन विधानेन तन्निर्देशेन ब्रह्मणः व्याप्तिर्दर्शिता । हे पार्थ ! मोक्षकांक्षिभ्ः मोक्षं कांक्षन्ति इच्छंति ते मोक्षकांक्षिणः तैः मोक्षकांक्षिभिः मोक्षेच्छुभिः तत् इति उच्चार्य चेत्यपरं फलं फलाभिलाषं अनभिसंधाय अकृत्वा विविधाः नानाप्रकाराः यज्ञतपःक्रियाः यज्ञाश्च तपांसि च यज्ञतपांसि यज्ञतपस्सु क्रियाः कर्माणि यज्ञतपःक्रियाः चेत्यपरं दानक्रियाः दानानां क्रियाः कर्माणि दानक्रियाः क्रियंते संपाद्यंते निर्वर्त्यंत इत्यर्थः ॥ २५ ॥

अर्थ : मोक्षाची इच्छा करणार्‍या लोकांकडून ‘तत्’ य ब्रह्माच्या नांवाचा उच्चार करून व फलाचे इच्छा न करून नाना प्रकारची यज्ञकर्मे, तपश्चर्या व दानक्रिया केल्या जातात.

विवरण :


‘सत्’ शब्दाचा विनियोग -

सद्‌भावे साधुभावे च सदित्येतत्प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥२६॥

अन्वय :

व्याख्या : एवं तन्निर्देशस्य प्राशस्त्यं उक्त्वा इदानीं सच्छब्दस्य प्रशस्त्यं दर्शयति द्वाभ्याम् । सद्‌भाव इति । सद्‌भावे सच्चासौ भावश्च सद्‌भावः तस्मिन् सद्‌भावे अस्तित्वे देवदत्तस्य पुत्रादिकं अस्ति इति अस्मिन् अर्थे चेत्यपरं साधुभावे साधुष्चासौ भावश्च साधुभावः तस्मिन् साधुभावे साधुत्वे देवदत्तस्य पुत्रादिश्रैष्ठ्यं अस्ति इति अस्मिन् अर्थे सत् इति एतत् पदं प्रयुज्यते प्रकर्षेण युक्तं भवति । हे पार्थ ! तथा सच्छब्द सत् इति शब्दः सच्छब्दः प्रशस्त्रे मांगलिके कर्मणि विवाहादिकर्मणि युज्यते संगच्छते ॥ २६ ॥

अर्थ : ‘अस्तित्व’ याअर्थी व ‘सद्वृत्तत्व’ याअर्थी ‘सत्’ हे पद योजिले जाते. त्याचप्रमाणे हे पार्था, विवाहादि प्रशस्त कर्मांमध्ये ‘सत्’ हा शब्द योजिला जातो. [ विद्यमान नसलेल्या वस्तूचे अस्तित्व म्ह. न जन्मलेल्या पुत्राचा जन्म याअर्थी, असाधूचे सद्वर्तन याअर्थी, विवाहादि प्रशस्त कर्मांमध्ये ‘सत्’ शब्द योजितात. ]

विवरण :


यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥२७॥

अन्वय :

व्याख्या : सामान्याकारेण सत्तास्वरूपेण सच्छब्दस्य ब्याप्तिः अस्ति इति कृत्वा पुनरपि बहुधा सच्छब्दश्य प्राशस्त्यं दर्शयति । यज्ञे इति । यज्ञे चेत्यपरं तपसि अनुष्ठाने चेत्यपरं दाने या प्रसिद्धा स्थितिः निष्ठा अस्ति सा निष्ठा सत् इति एवंप्रकारेण उच्यते कथ्यते । चेत्यपरं तदर्थीयं यस्य इदं नामत्रयं स एव परमात्मा एव अर्थः फलं यस्य तत् तदर्थं तदर्थमेव तदर्थीयं कर्म पूजोपहारगृहांगण परिमार्जन उपलेपरंगमालिकादिक्रियाः तत्सिद्धये कर्मसिद्धये अन्यदपि कर्म क्रियते उद्यानशालिक्षेत्र धनार्जनादि विषयं कर्म सत् इति अभिधीयते यस्मादेव अतिप्रशस्तं एतत् नामत्रयं तस्मादेतत् सर्वकर्मसाद्‌गुण्यार्थं कीर्तयेत् इति तापर्यार्थः ॥ २७ ॥

अर्थ : तसेच, यज्ञ, तप व दान यामध्ये जी निष्ठा - तत्परतेने रहाणे, त्याला विद्वान् ‘सत्’ असे म्हणतात. यज्ञ, दान व तप यांसाठी केलेले कर्म आणि ईश्वरार्थ केलेले कर्म यालाहि ‘सत्’ असेच म्हणतात. [ हे यज्ञ - दान - तप इत्यादि कर्म असात्विक व गुणरहित जरी असले, तरी ब्रह्माच्या या तीन नांवांचा श्रद्धापूर्वक उच्चार केल्याने ते सगुण व सात्विक बनते. ]

विवरण :


ज्याअर्थी त्या सर्व यज्ञादि कर्मांमध्ये श्रद्धेचे प्राधान्य असल्यामुळे ते सर्व यज्ञादि सगुणसंपन्न होते, त्याअर्थी -

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥२८॥

अन्वय :

व्याख्या : एवं विचार्यमाणे सति सर्वत्र सद्‌रूपेण ब्रह्मप्राप्तौ एतां अनादृत्य बहिर्दृष्टयः यज्ञादीनि अनुतिष्ठंति तेषां तत्सर्वं असत् इत्यप्राहेणाह । अश्रद्धया इति । हे पार्थ ! अश्रद्धया न श्रद्धा अश्रद्धा तया अश्रद्धया आस्तिक्यबुद्धिराहित्येन देवतोद्देशेन अग्नौ हुतं प्रक्षिप्तं चेत्यपरं दत्तं ब्राह्मणेभ्यः समर्पितं चेत्यपरं तप्तं कृच्छचांद्रायणादि अनुष्ठितं तपः अनुष्ठानं चेत्यपरं यत् अन्यदपि कृतं कर्म असत् भवति इति एवंप्रकारेण तत्सर्वं कर्म असत् उच्यते मिथ्या कथ्यते । पंडितैः इति शेषः । ननु-कृतं कर्म फलं दास्यत्येव इत्याशंक्य मुख्यफलाभावात् इहामुत्र तत् दुःखायैव भवति इत्याशयेनाह । यज्ञादीनां मुख्यं फलं आत्मज्ञानं अश्रद्धया कृतं यज्ञादि तत् असत् भवति इति कृत्वा इह अस्मिन् ल्ओके जीवन्मुक्तये न भवति चेत्यपरं प्रेत्य मृत्वा प्रारब्धकर्मक्षये सति चेत्यपरं अस्मिन् शरीरे पतिते सति मोक्षप्राप्तयेऽपि न भवति किंतु इह अमुत्र जन्ममरणायैव भवतीत्यर्थः । ’श्रद्धया देयं अश्रद्धया न देयं’ इति शिक्षाश्रुतेः श्रद्धया कृतं सत्फलं भवति अश्रद्धया कृतं असत्फलं भवति इति गम्यते ॥ २८ ॥
भक्तप्रश्नानुरोधेन श्रद्धात्रयं उदीरितम् ।
मुक्तये सात्त्विकी श्रद्धा नेतरा इति बुद्धितः ॥ १ ॥
इति श्रीबालबोधिन्यां श्रीमद्‌भगवत्‌गीतायां सप्तदशोऽध्यायः ॥ १७ ॥

अर्थ : अश्रद्धेने केलेले हवन, अश्रद्धेने ब्राह्मणांना दिलेले दान, अश्रद्धेने केलेले तप व अश्रद्धेनेच केलेली स्तुति - नमस्कारादि कर्मे हे सर्व असत् म्हटले जाते. हे पार्था, ते मरणानंतर फलाच्या उपयोगी नाही व येथेहि उपयोगी नाही. [ अश्रद्धेने केलेले कर्म पुष्कळ आयासांनी जरी केलेले असले, तेरी ते परलोकी फल देण्यास समर्थ होत नाही. ते ऐहिक फलाच्याहि उपयोगी नाही. कारण साधुलोक श्रद्धारहित कर्माची निंदा करीत असतात. म्हणून ते व्यर्थ होते. या अध्यायांत शास्त्राला न जाणणार्‍या श्रद्धावानांचे त्यांच्या त्यांच्या श्रद्धेप्रमाणे सात्विकादि तीन प्रकार होतात, राजस व तामस आहारादिकांस टाकून सात्विक आहारादिकांचे सेवन केल्याने केवल सत्वनिष्ठ झालेल्या आणि सात्विक यज्ञादिकांतील वैगुण्य ब्रह्माच्या त्रिविध नामनिर्देशाने घालविणार्‍या साधकांची चित्तशुद्धि होते. नंतर श्रवणादि साधनांनी ज्यांना ‘तत्व’ साक्षात्कार झाला आहे, अशा त्यांचा मोक्ष उपपन्न होतो, असे सांगितले आहे. ]
( येथे भगवद्‌गीतेचा श्रद्धात्रयविभागयोग नावाचा १७ वा अध्याय समाप्त झाला. )

विवरण :


ॐ तत्सदिति श्रीमद्‌भगवद्‌गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥ १७ ॥
॥ हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥



GO TOP