श्रीमद् भगवद्‌गीता
एकादशोऽध्यायः

विश्वरूपदर्शनयोगः


भगवानांच्या विभूति सांगितल्या. परमात्म्याचे सोपाधिक रूप ध्येयत्वानें व निरुपाधिकरूप ज्ञेयत्वाने सांगितलें. त्यांत 'मी एका अंशानें या सर्व जगाला दृढ धारण करून स्थित आहे,' असे भगद्‌वचन ऐकून ईश्वराचें सोपाधिक, आद्य व सर्व जगदात्मक जें विश्वरूप, त्याला साक्षात् पहाण्याची इच्छा करणारा-

अर्जुन उवाच -
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।
यत् त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ ११-१ ॥

अन्वय :

व्याख्या : श्रीः । पूर्वाध्यायान्ते ’विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्'- इति विश्वरूपं श्रुत्वा तदेव प्रत्यक्षीकर्त्तुं इच्छन् सन् अर्जुनः प्रार्थयते । हे भगवन् या मदनुग्रहाय मम अनुग्रहार्थं परमं उत्कृष्टं गुह्यं गोप्यं यत् संशयोच्छेदकं वचः अशोच्यानन्वशोचस्त्वं इत्यादिवाक्यं उक्तं कथितम् । कथंभूतं वचः । अध्यात्मसंज्ञितं अध्यात्मं इति संज्ञा संजाता यस्य तत् अध्यात्मसंज्ञित तेन वाक्येन मम अर्जुनस्य अयं प्रसिद्धः मोहः भया एते भीष्मादयः कथं हन्तव्याः इति अभिमानलक्षणः अविवेकः विगतः नाशं प्राप्तः आत्मनः कर्तृत्वाद्यभिमानोपि गतः ॥ १ ॥

अर्थ : अर्जुन म्हणाला - हे कृष्णा, माझ्यावर अनुग्रह करण्यासाठीं तूं जे अचिंत्य, गुह्य, 'अध्यात्म' संज्ञक वचन सांगितलेस, त्याच्या योगाने माझा हा मोह-अविवेक पार निघून गेला आहे. [ माझी अविवेकबुद्धि नष्ट झाली. ] १

विवरण :


भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ ११-२ ॥

अन्वय :

व्याख्या : निरभिमानत्वे हेतुमाह । भवाप्ययाविति । हे कमलपत्राक्ष ! कमलस्य पत्रे इव सुप्रसन्ने विशाले अक्षिणी नेत्रे यस्य सः कमलपत्राक्षः तत्संबुद्धौ हे कमलपत्राक्ष ! त्वत्तः त्वत्सकाशात् भूतानां आकाशादि कार्याणां भवाप्ययौ भवश्च अप्ययश्च भवाप्ययौ उत्पत्तिप्रलयौ मया अर्जुनेन विस्तरशः पुनः पुनः विस्तरेण श्रुतौ । हि इति निश्चयेन । तथा माहात्म्यमपि महात्मनः तव भावः माहात्म्यं महदैश्वर्यं श्रुतम् । कथंभूतं मादात्म्यम् । अव्ययं न विद्यते व्ययो नाशः यस्य तत् अव्ययं अक्षयमित्यर्थः ॥ २ ॥

अर्थ : हे कमलनयना, मी तुझ्या तोंडून सर्व भूतांची उत्पत्ति व लय सविस्तर ऐकला व तुझें अव्यय माहात्म्यही श्रवण केले. [ भूतांच्या उत्पत्ति-प्रलयांचें निमित्त तूं आहेस. अक्षय्य माहात्म्य म्ह. पारमार्थिक किंवा सोपाधिक सर्वात्मत्वादिरूप तेंही मीं तुझ्याच मुखाने श्रवण केले. ] २

विवरण :


एवमेतत् यथाऽऽत्थ त्वमात्मानं परमेश्वर ।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ११-३ ॥

अन्वय :

व्याख्या : एवमेतदिति । किं च हे परमेश्वर ! परमश्चासौ ईश्वरश्च परमेश्वरः तत्संबुद्धौ हे परमेश्वर हे सर्वेश्वर ! पूर्वं मया ऋषिभ्यः यथा श्रुतं तथैव त्वमपि आत्मानं अतति सर्वं व्याप्नोतीति आत्मा तं आत्मानं आत्थ कथयसि । एवं एतत् । अत्रापि मम अविश्वासो नास्तीत्यर्थः । ननु- अनेन अनुवादेन किम् ? इत्याकांक्षायामाह । तथापि एवं सत्यपि हे पुरुषोत्तम ! पुरुषेषु उत्तमः पुरुषोत्तमः तत्संबुद्धौ हे पुरुषश्रेष्ठ ! अहं ते तव ऐश्वरं ईश्वरस्य इदं ऐश्वरं ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः संपन्नं रूपं रूप्यते अनेनेति रूपं विश्वरूपाश्रयं स्वरूपं द्रष्टुं दृग्गोचरीकर्तुं इच्छामि । तत् प्रत्यक्षगोचरं न भवति तथापि त्वयि अनंतशक्तौ प्रसन्ने सति सर्वं सुकरं इति मत्वा तद्‌रूपं द्रष्टुं इच्छां करोमीति भावः ॥ ३ ॥

अर्थ : हे परमेश्वरा, ज्या सोपाधिक किंवा निरुपाधिक प्रकारे तूं आपलें स्वरूप सांगत आहेस, तसेंच तें आहे, त्याहून निराळ्या प्रकारचे नाहीं. तथापि हे पुरुषोत्तमा ! तुझें ज्ञान-ऐश्वर्य-शक्ति-बल-वीर्य-तेज यांनीं संपन्न असलेलें ईश्वरसंबंधी वैष्णव रूप मी पाहूं इच्छितो. तुझ्या वचनावर माझा विश्वास नाहीं म्हणून नव्हे, तर मला तें पहाण्याची इच्छा झाली आहे, म्हणून मी तुझी प्रार्थना करीत आहे. ३

विवरण :


मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ११-४ ॥

अन्वय :

व्याख्या : किं च मया अघटितमनोरथेन प्रार्थितमपि शक्यं चेत् तथा कुरु इति विनयतया प्रार्थयति । मन्यस इति । हे योगेश्वर ! योगिन एव योगाः योगानां ईश्वरः योगेश्वरः तत्संबुद्धौ हे योगेश्वर ! मया प्राकृतेन अर्जुनेन तत् दिव्यं तव रूपं द्रष्टुं अवलोकितुं शक्यं योग्यम् । अयमन्वयः हे प्रभोः ! हे निग्रहानुग्रहसमर्थ ! इति एवं त्वं मन्यसे यदि ततः तर्हि मे मह्यं आत्मानं सर्वोपादानं दर्शय- इति संबोधनद्वयेन सामर्थ्यं सूचितम् । कथंभूतं आत्मानम् । अव्ययं न विद्यते व्ययो यस्य सः तं नित्यम् ॥ ४ ॥

अर्थ : हे स्वामिन्, मी तें विश्वरूप पहाण्यासाठीं अतिशय उत्सुक झालों आहे खरा, पण मला ते पहाता येणे जर शक्य असेल तर हे प्रभो, तूं आपलें अव्ययस्वरूप मला दाखीव. [ ईश्वर सृष्टि, स्थिति, संहार, प्रवेश व प्रशासन करण्यास समर्थ आहे, म्हणून त्याला येथे 'प्रभो' असें म्हटले आहे. ] ४

विवरण :


श्रीभगवानुवाच -
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ११-५ ॥

अन्वय :

व्याख्या : इति सख्युः विनयतया प्रार्थनां श्रुत्वा प्रेमपूरणेन विस्मृतवाक्यार्थो भगवान् योग्यतां अपश्यन् सन् तद्‌रुप पश्य इति आह । पश्येति । अथ अर्जुनवाक्यश्रवणानंतरं श्रीभगवान् उवाच । हे पार्थ ! मयि अंतर्बहिः सारथिनि सति किमिति कार्पण्यं भाषसे ? एकं रूपं दर्शय इति । त्व मम शतशः अपरिमितानि चेत्यपरं सहस्रशः तव इच्छया अनंतानि रूपाणि पश्य अवलोकय । कथंभूतानि रूपाणि । नानाविधानि अनेकप्रकाराणि । तवेच्छानुसारीणीत्यर्थः । पुनः कथंभूतानि । दिव्यानि द्योतनस्वभावानि स्वयंप्रकाशानि न तु दीपप्रकाशितानि । पुनः कथंभूतानि । नानावर्णाकृतीनि वर्णाः श्वेतरक्तपीतादयः च आकृतयश्च ह्रस्वदीर्धकृशस्थूलादयः वर्णाकृतयः नानाः अनेकप्रकाराः वर्णाकृतयो येषां तानि चकारात् अन्यानपि जयपराजयादीन् यथेच्छं पश्येत्यर्थः ॥ ५ ॥

अर्थ : अर्जुनाची ही प्रार्थना ऐकून श्रीभगवान् म्हणाले - हे पार्था, तूं माझी अनेक प्रकारची दिव्य-अलौकिक आणि नाना वर्णांची व नाना आकृतींचीं रूपे शेकडो व हजारों प्रकारे पहा. [ माझीं नाना प्रकारची, अलौकिक, नानावर्ण व आकृति यांनी विशिष्ट अशीं रूपे पहा. ] ५

विवरण :


पश्यादित्यान्वसून् रुद्रान् अश्विनौ मरुतस्तथा ।
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ ११-६ ॥
इहैकस्थं जगत् कृत्स्नं पश्याद्य सचराचरम् ।
मम देहे गुडाकेश यच्चान्यत् द्रष्टुमिच्छसि ॥ ११-७ ॥
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ११-८ ॥

अन्वय :

व्याख्या : पश्येति । हे पार्थ ! त्वं इदानीं आदित्यान् सर्वानपि अदितिसुतान् साक्षात् प्रप्यक्षं मम देहे पश्य । तथा वसून् अष्टसंख्याकान् वसून् पश्य । तथा रुद्रान् एकादशसंख्याकान् रुद्रगणान् पश्य । तथा अश्विनौ द्वौ अश्विनीकुमारौ देववैद्यौ पश्य । तथा मरुतः एकोनपंचाशत् मरुद्‌गणान् पश्य । किं च हे भारत ! त्वं अदृष्टपूर्वाणि त्वया पूर्वं न दृष्टानि इति अदृष्टपूर्वाणि बहूनि आश्चर्याणि अभिनवरूपाणि यथेच्छं ममदेहे पश्य । कार्पण्यं मा कुरु इत्यर्थः ॥ ६ ॥
इहेति । चिं हे गुडाकेश ! हे जिर्तेद्रिय ! त्वं इह एकस्मिन् प्रत्यक्षे मम देहे मम शरीरे कृत्स्नं संपूर्णं जगत् त्रैलोक्यं अद्य इदानीं पश्य । कथंभूतं जगत् । एकस्थं एकस्मिन् सारथिभूते मवि तिष्ठति तत् एकस्थम् । पुनः कथंभूतम् । सचराचरं चरंति ते चराः जंगमादयः न चरंति ते अचराः स्थावरादयः चराश्च अचराश्च चराचराः चराचरैः सहितं सचराचरम् । किंच यत् अन्यदपि 'इमे भीष्मद्रोणकर्णादयः मां जयेयुः अथवा अहं एतान् सर्वान् जयेम' इत्यादि द्रष्टुं इच्छसि तदपि सर्वं इहैव मम देहे पश्येत्यन्वयः । कार्पण्यं मा कुरु इत्यर्थः ॥ ७ ॥
पश्य पश्येति बहुवारं उक्तमपि अर्जनस्य विश्वरूपदर्शनं न जातं इति तस्यैव मुखनेत्रलिंगेन ज्ञात्वा मयि प्रसन्ने सत्यपि दर्शने कः प्रतिबंधः व इति विचारिते सति भक्तयाञ्चाऽसहनशीलतया विश्वरूपदर्शनस्य अधिकारं अपश्यन् भक्तप्रार्थनासंभ्रमेण पश्य इति मत्वा तद्दर्शनयोग्यं दिव्यं चक्षुः ददामि इति आह । न तु मामिति । हे अर्जुन ! त्वं अनेनैव स्वचक्षुषा चर्मनेत्रेण मां विश्वरूपिणं द्रष्टुं दृग्विषयकर्त्तुं न शक्यसे न समर्थो भवसि इति मया ज्ञातम् । तदर्थं विश्वरूपदर्शनार्थं अहं ते तुभ्यं दिव्यं अलौकिकं चक्षुः नयनं ददामि प्रयच्छामि । तेन दिव्यचक्षुषा मे मम ऐश्वरं ईश्वरसंबधिनं योगं अघटितघटनासामर्थ्यं विश्वरूपदर्शनलाघवं पश्य ॥ ८ ॥

अर्थ : बारा सूर्य, आठ वसू, अकरा रुद्र, दोन अश्विनिकुमार यांस, त्याचप्रमाणे जे एकुणपन्नास देवतांचे सात गण त्या मरुद्‌गणांस, तसेंच, हे भरतकुलोत्पन्ना, मनुष्यलोकीं तूं किंवा तुझ्याहून दुसऱ्या कोणीं कधींच न पाहिलेलीं अशीं दुसरींही अनेक आश्चर्ये तूं पहा. अर्जुना, आतां तुला माझें केवल आदित्यादि रूपच दिसेल, असे नाहीं. तर या माझ्या देहातील एकाच अवयवांत असलेलें सर्व जगत् चराचर प्राण्यांसह तूं पहा आणि दुसरें जें कांहीं जय-पराजयादिक पहावयाचे असेल, तेही पहा. पण पार्था, तूं मला याच आपल्या प्राकृत चक्षूनें-बाह्य दृष्टीने पाहूं शकणार नाहींस, म्हणून मी तुला दिव्यदृष्टि देतो. त्या दिव्यचक्षूने माझ्या ऐश्वरयोगास तूं पहा. [ मज ईश्वराचा जो योग तो ऐश्वरयोग म्ह. योगशक्तीचें आधिक्य, असा भावार्थ. ] ६-८

विवरण :


सञ्जय उवाच -
एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ११-९ ॥

अन्वय :

व्याख्या : ततः किम् ? इत्यपेक्षायां धृतराष्ट्रं प्रति संजयः उवाच इति आह । एवमुक्त्वेति । हे राजन् ! हे धृतराष्ट्र ! एवं उक्तप्रकारेण उक्त्वा सानुगहं 'दिव्यं ददामि ते चक्षुः' इति अनुग्रह वाक्यं उच्चार्य ततः दिव्यचक्षर्दानानंतरं हरिः संसारदुःखं हरतीति हरिः स्मृतमात्रः संसारहरणशीलः पार्थाय पृथायाः अपत्यं पुमान् पार्थः तस्मै पृथापुत्राय अर्जुनाय ऐश्वरं ईश्वरसबधिनं परमं उत्कृष्टं रूपं विश्वरूपं दर्शयामास दर्शितवान् । कथंभूतः हरिः । महायोगेश्वरः योगानां ईश्वरः योगेश्वरः महांश्चासौ योगेश्वरश्च महायोगेश्वरः अचिन्त्यघटनापटुः ॥ ९ ॥

अर्थ : संजय म्हणाला - त्यानंतर, हे राजा धृतराष्ट्रा, असें बोलून महायोगेश्वर पार्थाला परम ईश्वरसंबंधी हरिरूप दाखविता झाला. ९

विवरण :


अनेक वक्त्रनयनमनेकाद्‌भुतदर्शनम् ।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ ११-१० ॥
दिव्यमाल्यांबरधरं दिव्यगन्धानुलेपनम् ।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११-११ ॥

अन्वय :

व्याख्या : तदेव विशिनष्टि । कथंभूतं तेजः । अनेकवक्त्रनयनं वक्त्राणि मुखानि च नयनानि नेत्राणि वक्त्रनयनानि अनेकानि अपरिमितानि वक्त्रनयनानि यस्मिन् तत् अनेकवक्त्रनयनम् । पुनः कथंभूतम् । अनेकाद्भुतदर्शनं अद्भुतानि च तानि दर्शनानि च अद्‌भुतदर्शनानि अनेकानि अद्भुतदर्शनानि यस्मिन् तत् अनेकाद्भुतदर्शनम् । पुनः कथंभूतम् । अनेकदिव्याभरणं दिवि भवानि दिव्यानि दिव्यानि च तानि आभरणानि च दिव्याभरणानि अनेकानि दिव्याभरणानि यस्मिन् तत् । पुनः कथंभूतम् । दिव्यानेकोद्यतायुधं भक्तसंरक्षणार्थ उद्यतानि च तानि आयुधानि शस्त्राणि च उद्यातायुधानि अनेकानि च तानि उद्यतायुधानि च अनेकोद्यतायुधानि दिव्यानि अनेकोद्यतायुधानि यस्मिन् तत् दिव्यानेकोद्यतायुधम् ॥ १० ॥
दिव्येति । किं च पुनः कथंभूतम् । दिव्यमाल्यांबरधरं माल्यानि पुष्पमाला च अंवराणि वस्त्राणि माल्यांबराणि दिव्यानि च तानि माल्यांबराणि च दिव्यमाल्यांबराणि दिव्यमाल्यांबराणि धारयति तत् दिव्यमाल्यांबरधरम् । पुनः कथंभूतम् । दिव्यगंधानुलेपनं दिव्याश्च ते गंधाश्च दिव्यगंधाः दिव्यगंधैः दिव्यचंदनैः अनुलेपनं यस्मिन् तत् दिव्यगंधानुलेपनम् । पुनः कथंभूतम् । सर्वाश्चर्यमयं सर्वाणि च तानि आश्चर्याणि च सर्वाश्चर्याणि सर्वाश्चर्याणां प्राचुर्यं यस्मिन् तत् सर्वाश्चर्यमयम् । पुनः कथंभूतम् । देवं द्योतनस्वभावम् । पुनः कथंभूतम् । अनंतं नास्ति अन्तो यस्य तत् अनंतं अपरिच्छिन्नम् । पुनः कथंभूतम् । विश्वतोमुखं विश्वतः सर्वतः मुखानि यस्मिन् तत् विश्वतोमुखं सर्वतो दृश्यमानम् । दर्शयामासेति पूर्वेणान्वयः ॥ ११ ॥

अर्थ : ज्याला अनेक मुखे व नेत्र आहेत, ज्यात अनेक विस्मयकारक दर्शने आहेत, ज्यात अनेक दिव्य आभरणे आहेत, ज्यात दिव्य आयुधे उचललेली आहेत, ज्याने दिव्य पुष्पें व वस्त्रे धारण केली आहेत, ज्याने दिव्य गंधाचे अनुलेपन केलें आहे, असे सर्व आश्चर्यमय, प्रकाशमान, अंतरहित व सर्वतोमुख असें विश्वरूप भगवानांनीं त्याला दाखविलें. किंवा अर्जुनानें अशा त्या विश्वरूपाला पाहिले. १०-११

विवरण :


दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सदृशी सा स्याद्‌भासस्तस्य महात्मनः ॥ ११-१२ ॥

अन्वय :

व्याख्या : देवमित्यनेन प्रकाशशोभितस्य तस्य का उपमा इत्याकांक्षायां अभूतोपमया विशिनष्टि । दिवीति । दिवि अंतरिक्षे सूर्यसहस्रस्य सूर्याणां सहस्रं सूर्यसहस्रं तस्य सूर्यसहस्रस्य युगपत् एकसमयावच्छेदेन उत्थिता उत्पन्ना भाः प्रकाशः भवेत् यदि तर्हि तस्य प्रसिद्धस्य महात्मनः महान् आत्मा स्वरूपं यस्य सः महात्मा तस्य महात्मनः विश्वरूपस्य भासः प्रकाशस्य सदृशी तुल्या सा भाः स्यात् भवेत् न वा हति संशयः । अदृष्टचरत्वात् । अंतरिक्षे युगपत् सूर्यसहस्रोदयो नास्त्येव । यहि कथंचित् स्यात् तदा सूर्यसहस्रभा विश्वरूपस्य भासः सदृशी कथंचित् स्यातन्न वेत्ति को वेदेत्यर्थः ॥ १२ ॥

अर्थ : जर द्युलोकांत-आकाशांत सहस्र सूर्यांची प्रभा एकाच वेळीं उत्पन्न होईल, तर ती प्रभा त्या महात्म्याच्या प्रभेसारखी होईल. [ सहस्त्र सूर्याच्या समूहाची जी एकाच वेळीं उदय पावलेली कांति - तेज, तसली कांति जर कदाचित् संभवलीच, तर ती त्या महात्म्या विश्वरूपाच्या कांतीसारखी असलीच तर असेल. पण ती तत्तुल्य होईलच, असा निश्चय नाहीं. सहस्र सूर्याच्या कांतीहूनही विश्वरूपाची कांति अधिक आहे. ] १२

विवरण :


तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ ११-१३ ॥

अन्वय :

व्याख्या : तत्रैकस्थमिति । किं च यदा 'दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरं' इति उक्तं तदा तस्मिन् समये पांडवः पंडोः राज्ञः अपत्यं पुमान् पांडवः अर्जुनः देवदेवस्य देवानां द्योतनस्वभावानां देवः देवदेवः तस्य देवदेवस्य श्रीकृष्णस्य तत्र तस्मिन् प्रसिद्धे शरीरे लीलाविग्रहे विश्वरूपे अनेकधा अनेकप्रकारं कुत्स्नं संपूर्णं जगत् सचराचरं अपश्यत् दृष्टवान् । कथंभूतं जगत् । एकस्थं एकस्मिन् ब्रह्मणि तिष्ठति तत् एकस्थं स्थितिकाले अनन्यत्वेन स्थितम् । पुनः कथंभूतं जगत् । अनेकधा नानाविभागेन प्रविभक्तं भेदेनावस्थितम् ॥ १३ ॥

अर्थ : अर्जुनाने त्या विश्वस्वरूपांत एवढेंच पाहिले असें नाहीं, तर त्यानें सर्व जगत् एकत्र असलेलें अवलोकन केलें, असें संजय सांगतो - त्या वेळीं अर्जुन त्या देवाधिदेवाच्या शरीरांत एकाच अवयवांत स्थित असलेले देव, पितर, मनुष्य, इत्यादि भेदांनीं अनेक प्रकारे अत्यंत विभक्त झालेलें सर्व जगत् पहाता झाला. १३

विवरण :


ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।
प्रणम्य शिरसा देवं कृताञ्जलिः अभाषत ॥ ११-१४ ॥

अन्वय :

व्याख्या : एवं दृष्ट्वा किं कृतवान् इति आह । तत इति । ततः विश्वरूपदर्शनानंतरं सः प्रसिद्धः धनंजयः राजसूयमिषेण दिग्विजये सर्वेभ्यः राजभ्यः धनं जयतीति धनंजयः अर्जुनः देवं अंतर्बहिः सर्वं द्योतयति प्रकाशयतीति देवः तं देवं श्रीकृष्णं शिरसा मस्तकेन प्रणम्य श्रीकृष्णचरणकमलयोः शिरः संस्थाप्य उत्थाय कृतांजलिः सन् कृतः अंजलिः अंजलिपुटो येन सः कृतांजलिः अभाषत उक्तवान् । कथंभूतः धनंजयः । विस्मयाविष्टः अदृष्टपूर्वत्वात् विस्मयेन आश्चर्येण आविष्टः व्याप्तः विस्मयाविष्टः अत एव हृष्टरोमा हृष्टानि पुलकितानि रोमाणि तनूरुहाः यस्य सः हृष्टरोमा । पुलकाकितगात्र इत्यर्थः ॥ १४ ॥

अर्थ : विश्वरूप धारण करणाऱ्या भगवानांचे तें स्वरूप व त्यांच्या त्या स्वरूपांत एकीभूत झालेले तें जगत् यांस पाहून अर्जुन आश्चर्यचकित झाला. त्याच्या अंगावर रोमांच उभे राहिले. त्याने हात जोडले व मस्तकाने देवाला प्रणाम करून असे म्हटले- १४

विवरण :


अर्जुन उवाच -
पश्यामि देवांस्तव देव देहे
सर्वांस्तथा भूतविशेषसङ्घान् ।
ब्रह्माणमीशं कमलासनस्थं
ऋषींश्च सर्वान् उरगांश्च दिव्यान् ॥ ११-१५ ॥

अन्वय :

व्याख्या : तमेव भाषणप्रकारं दर्शयति सप्तदशभिः श्लोकैः । पश्यामीति हे देव ! नानारूपेण दीव्यति क्रीडयतीति देवः सत्संबुद्धौ हे देव ! अहं तव सर्वरूपस्य देहे विश्वरूपाख्ये देहे सर्वान् यथासंख्याकान् देवान् अधिकारिणः पश्यामि । तथा भूतविशेषसंघान् भूतानां विशेषाः चराचरनिवेशाः भूतविशेषाः भूतविशेषाणां संघाः समुदायाः तान् पश्यामि । तथा ब्रह्माणं चतुर्वक्त्रं चेत्यपरं ईशं कर्पूरधवलं उमापतिं पश्यामि । कथंभूतं ब्रह्माणम् । कमलासनस्थं कमलस्य आसनं कमलासनं कमलासने तिष्ठतीति कमलासनस्थः तं त्वन्नाभिलोकपद्मस्थम् । तथा सर्वान् समस्तान् ऋषीन् वसिष्ठादीन् तथा दिव्यान् प्रभावातिशयान् उरगान् उरसा वक्षःस्थलेन गच्छन्ति ते उरगाः तान् वासुकिप्रमुखान् पश्यामि ॥ १५ ॥

अर्थ : अर्जुन म्हणाला - हे कृष्णा, मी तुझ्या देहांत, सर्व देवांना, त्याचप्रमाणें निरनिराळ्या जातींच्या स्थावर - जंगम प्राणिसमूहांस पहात आहे. सर्व प्रजांचे नियमन करणारा व पृथ्वीकमलाच्या मेरुकर्णिकेंत स्थित असलेला जो चतुर्मुख ब्रह्मदेव त्याला, वसिष्ठादि सर्व ऋषींना आणि वासुकिप्रभृति दिव्य सर्पांना मी पहात आहे. १५

विवरण :


अनेकबाहूदरवक्त्रनेत्रं
पश्यामि त्वां सर्वतोऽनन्तरूपम् ।
न अन्तं न मध्यं न पुनस्तवादिं
पश्यामि विश्वेश्वर विश्वरूप ॥ ११-१६ ॥

अन्वय :

व्याख्या : किं देवादीनेव पश्यसि ? अनेकबाहूदरवक्त्रनेत्रम् अनेके बाहवः उदराणि वक्त्राणि नेत्राणि च यस्य तव सः त्वम् अनेकबाहूदरवक्त्रनेत्रः तम् अनेकबाहूदरवक्त्रनेत्रम् । पश्यामि त्वा त्वां सर्वतः सर्वत्र अनन्तरूपम् अनन्तानि रूपाणि अस्य इति अनन्तरूपः तम् अनन्तरूपम् । न अन्तम् , अन्तः अवसानम् , न मध्यम् , मध्यं नाम द्वयोः कोट्योः अन्तरम् , न पुनः तव आदिम् — न देवस्य अन्तं पश्यामि, न मध्यं पश्यामि, न पुनः आदिं पश्यामि, हे विश्वेश्वर विश्वरूप ॥ १६ ॥

अर्थ : हे विश्वेश्वरा, हे विश्वरूप कृष्णा, मी तुला अनेक हस्त, उदरें, मुखें व नेत्र यांनीं युक्त व सर्व बाजूंनी अनंतरूपांनीं विशिष्ट, असा पहात आहे, पण मला तुझा आदि, अंत व मध्य दिसत नाही. [ तुझें स्वरूप कोठून कोठवर पसरले आहे, तें पहाण्यास मी समर्थ नाही व ज्याचा आदि-अंत दिसत नाहीं, त्याचा मध्यही कळत नाहीं, हा न्यायच आहे.) १६

विवरण :


किरीटिनं गदिनं चक्रिणं च
तेजोराशिं सर्वतो दीप्तिमन्तम् ।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्
दीप्तानलार्कद्युतिमप्रमेयम् ॥ ११-१७ ॥

अन्वय :

व्याख्या : किरीटिनं किरीटं नाम शिरोभूषणविशेषः तत् यस्य अस्ति सः किरीटी तं किरीटिनम् , तथा गदिनं गदा अस्य विद्यते इति गदी तं गदिनम् , तथा चक्रिणं चक्रम् अस्य अस्तीति चक्री तं चक्रिणं च, तेजोराशिं तेजःपुञ्जं सर्वतोदीप्तिमन्तं सर्वतोदीप्तिः अस्य अस्तीति सर्वतोदीप्तिमान् , तं सर्वतोदीप्तिमन्तं पश्यामि त्वां दुर्निरीक्ष्यं दुःखेन निरीक्ष्यः दुर्निरीक्ष्यः तं दुर्निरीक्ष्यं समन्तात् समन्ततः सर्वत्र दीप्तानलार्कद्युतिम् अनलश्च अर्कश्च अनलार्कौ दीप्तौ अनलार्कौ दीप्तानलार्कौ तयोः दीप्तानलार्कयोः द्युतिरिव द्युतिः तेजः यस्य तव स त्वं दीप्तानलार्कद्युतिः तं त्वां दीप्तानलार्कद्युतिम् , अप्रमेयं न प्रमेयम् अशक्यपरिच्छेदम् इत्येतत् ॥ १७ ॥

अर्थ : भगवन्, मी तुला किरीटी, गदी व चक्री - ज्याच्या मस्तकावर किरीट, खालच्या उजव्या हातात गदा व वरच्या हातात चक्र आहे, असा तेजःपुंज, सर्व बाजूंनी प्रकाशवान्, त्यामुळें सर्वतः दुर्निरीक्ष्य, प्रदीप्त अग्नि किंवा सूर्य यांप्रमाणें कांति असलेला व कोणत्याही प्रमाणांचा विषय न होणारा असा पहात आहे. १७

विवरण :


त्वमक्षरं परमं वेदितव्यं
त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्ता
सनातनस्त्वं पुरुषो मतो मे ॥ ११-१८ ॥

अन्वय :

व्याख्या : त्वम् अक्षरं न क्षरतीति, परमं ब्रह्म वेदितव्यं ज्ञातव्यं मुमुक्षुभिः । त्वम् अस्य विश्वस्य समस्तस्य जगतः परं प्रकृष्टं निधानं निधीयते अस्मिन्निति निधानं परः आश्रयः इत्यर्थः । किञ्च, त्वम् अव्ययः न तव व्ययो विद्यते इति अव्ययः, शाश्वतधर्मगोप्ता शश्वद्भवः शाश्वतः नित्यः धर्मः तस्य गोप्ता शाश्वतधर्मगोप्ता । सनातनः चिरन्तनः त्वं पुरुषः परमः मतः अभिप्रेतः मे मम ॥ १८ ॥

अर्थ : हे देवेशा, या योग शक्तिदर्शनावरून तुझ्या निरुपाधिक स्वरूपाचे मला असे अनुमान होते. तूंच परब्रह्म आहेस, तूं या जगाचे परम आश्रयस्थान आहेस. तूं क्षय न पावणारा आहेस. शाश्वत धर्माचें रक्षण करणारा चिरंतन पुरुष आहेस, असा तूं मला संमत झालेला आहेस. १८

विवरण :


अनादिमध्यान्तमनन्तवीर्य
मनन्तबाहुं शशिसूर्यनेत्रम् ।
पश्यामि त्वां दीप्तहुताशवक्त्रं
स्वतेजसा विश्वमिदं तपन्तम् ॥ ११-१९ ॥
द्यावापृथिव्योरिदमन्तरं हि
व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाद्‌भुतं रूपमुग्रं तवेदं
लोकत्रयं प्रव्यथितं महात्मन् ॥ ११-२० ॥

अन्वय :

व्याख्या : अनादिमध्यान्तम् आदिश्च मध्यं च अन्तश्च न विद्यते यस्य सः अयम् अनादिमध्यान्तः तं त्वां अनादिमध्यान्तम् , अनन्तवीर्यं न तव वीर्यस्य अन्तः अस्ति इति अनन्तवीर्यः तं त्वाम् अनन्तवीर्यम् , तथा अनन्तबाहुम् अनन्ताः बाहवः यस्य तव सः त्वम् , अनन्तबाहुः तं त्वाम् अनन्तबाहुम् , शशिसूर्यनेत्रं शशिशूर्यौ नेत्रे यस्य तव सः त्वं शशिसूर्यनेत्रः तं त्वां शशिसूर्यनेत्रं चन्द्रादित्यनयनम् , पश्यामि त्वां दीप्तहुताशवक्त्रं दीप्तश्च असौ हुताशश्च वक्त्रं यस्य तव सः त्वं दीप्तहुताशवक्त्रः तं त्वां दीप्तहुताशवक्त्रम् , स्वतेजसा विश्वम् इदं समस्तं तपन्तम् ॥ १९ ॥
अन्यदपि आश्चर्यं पश्यामि इत्याह द्यावापृथिव्योरिति । द्यावापृथिव्योः व्रह्माण्डकपालयोः इदं प्रत्यक्षं अंतरं मध्यावकाशः त्वया एकेन व्याप्तं चेत्यपरं सर्वाः पार्श्ववर्त्तिन्यः दिश: त्वयैव व्याप्ताः किमिदं । आश्चर्यं अदृष्टपूर्वं पश्यामि इति प्रार्थनयोक्तिः । किं च हे महात्मन् ! हे अपरिच्छिन्नरूप ! अहं तव इदं प्रत्यक्षं अद्भुतं अभिनवं उग्रं भयानकं रूपं विश्वरूपं दृष्ट्वा अवलोक्य लोकत्रयं लोकानां त्रयं लोकत्रयं त्रैलोक्यं प्रव्यथितं प्रकर्षेण व्यथा दुःखं संजाता यस्य तत् प्रव्यथितं व्यथां प्राप्तं पश्यामि इति पूर्वेण संबंधः । हि इति निश्चयेन ॥ २० ॥

अर्थ : मी तुला आदि-मध्य-अंतरहित, ज्याचे वीर्य व बाहू अनंत आहेत, चंद्र व सूर्य हे ज्याचे नेत्र आहेत, प्रदीप्त अग्नि हेंच ज्याचें मुख आहे व आपल्या तेजाने या विश्वाला ताप देणारा असा पहात आहे. [ अर्जुनाने भगवानांच्या 'विश्वरूप' संज्ञक स्वरूपाचे वर्णन पुनः आरंभिलें आहे. ] हे भगवन्, तूं एकट्याने आकाश व पृथ्वी यांच्या मधले हें अंतर व्यापलें आहेस व सर्व दिशाही व्यापिल्या आहेस. हे महात्म्या, तुझें हें अद्‌भुत उग्र रूप पाहून त्रिभुवन अतिशय व्यथित - भयभीत झालें आहे. [ किंवा हें त्रिभुवन प्रचलित झालें आहे, स्वस्थानापासून ढळले आहे व कांपूं लागलें आहे. ] १९-२०

विवरण :


अमी हि त्वां सुरसङ्घा विशन्ति
केचिद्‌भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ ११-२१ ॥

अन्वय :

व्याख्या : अमीहीति । किंच प्रत्यक्षं पश्य । अमी सुरसंघाः सुराणां देवानां संघाः समूहाः सुरसंघाः ये अंशेन कार्यार्थं त्वयैव अवतारिताः भीष्मादयः स्वपरसैन्ये ते सर्वे समुदायेन त्वा त्वां विशन्ति प्रविशन्ति । हि इति निश्चयेन । त्वां विना वयं स्वतंत्राः समर्थाः न भवाम इति त्वदुत्पत्राः त्वय्येव लीनाः बभूवुरित्यर्थः । केचित् स्वपरसैन्ये विद्यमानाः त्वत्तः भीताः स्वामिनं कथं योत्स्याम इति भयं प्राप्ताः संतः प्रांजलयः प्रकर्षेण अंजलयः करसंपुटाः येषां ते प्रांजलयः त्वां गृणन्ति स्तुवन्ति । हे भगवन् ! त्वयैव अवतारिताः वयं त्वत्समक्षाः तिष्ठाम नास्माकं अपराधः इति सविनयं वदन्ति । महर्षिसिद्धसंघाः महर्षयः भृग्वादयः च सिद्धाः कपिलादयः महर्षिसिद्धानां संघाः समुदायाः स्वस्ति कल्याणं अस्तु इति उक्त्वा इति उच्चार्य पुष्कलाभिः अप्रमेयार्थवतीभिः स्तुतिभिः स्तवनपरैः श्रतिवाक्यैः त्वां विश्वरूपिणं स्तुवन्ति ॥ २१ ॥

अर्थ : भूलोकीं अवतीर्ण झालेले देवांचे हे संघ तुझ्यामध्ये प्रवेश करीत आहेत. त्यांतील भ्यालेले कांहीं देव हात जोडून तुझी स्तुति करीत आहेत. मोठ-मोठे ऋषि व सिद्ध यांचे संघ 'स्वस्ति असो' असें बोलून तुला पुष्कळ स्तुतींनीं स्तवीत आहेत. [ युद्ध पहाण्यासाठी समरभूमीवर आलेल्या नारदादि ऋषींना व सिद्धांना जगाच्या विनाशाची शंका आल्यामुळे ते 'जगचिं कुशल असो' असे म्हणून तुझी अतिशय स्तुति करीत आहेत. २१

विवरण :


रुद्रादित्या वसवो ये च साध्या
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसङ्घा
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ ११-२२ ॥

अन्वय :

व्याख्या : अन्यदपि आश्चर्यं पश्यामीत्याह । रुद्रादित्या इति । एते सर्वे एव समस्ता एव विस्मिताः संतः विस्मयः संजातो येषां ते विस्मिताः त्वां विश्वरूपिणं अवलोकयन्ति इति अन्वयः । मौनेनैव पश्यन्तीत्यर्थः । एते के रुद्रादित्याः रुद्राः एकादशरुद्राः च आदित्याः द्वादशादित्याः रुद्रादित्याः चेत्यपरं वसवः अष्टौ वसवः च ये प्रसिद्धाः साध्याः च विश्वे विश्वेदेवाः च अश्विनौ अश्विनीकमारौ चेत्यपरं मरुद्‌गणाः च ऊष्मपाः ऊष्माणं उष्णान्नं पिबन्ति भक्षन्ति ते ऊष्मपाः पितरः यमादयः चेत्यपरं गंधर्वयक्षासुरसिद्धसंघाः गंधर्वाः चित्ररथादयः यक्षाः कुबेरादयः असुराः विरोचनादयः सिद्धाः उत्पत्तित एव ज्ञानसंपन्नाः गंधर्वयक्ष सुरसिद्धाः गंधर्वयक्षासुरसिद्धानां संघाः समुदायाः 'यावदत्रं भवेदुष्णं यावदश्नन्ति वाग्यताः। पितरस्तावदश्नन्ति यावन्नोक्ता हविर्गुणाः' ॥ २२ ॥

अर्थ : अकरा रुद्र, बारा आदित्य, आठ वसू, साध्य, विश्वेदेव, अश्विनिकुमार, मरुद्‌गण, पितर, गंधर्व, यक्ष, असुर व सिद्ध यांचे संघ, हे सर्व विस्मित होऊनच तुला पहातात. २२

विवरण :


रूपं महत्ते बहुवक्त्रनेत्रम्
महाबाहो बहुबाहूरुपादम् ।
बहूदरं बहुदंष्ट्राकरालं
दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ ११-२३ ॥

अन्वय :

व्याख्या : किंच अनग्रहेपि विपरीतं पश्यामीत्याह । रूपमिति । हे महाबाहो ! महांतः निग्रहानुग्रहकरणे समर्थाः बाहवो यस्य सः महाबाहुः तत्संबुद्धौ हे महाबाहो ! लोकाः लोक्यन्ते अवलोक्यन्ते इति लोकाः चतुर्दशभुवनस्थाः ते तव महत् अपरिच्छिन्नं अतिभयानकं रूपं विश्वरूपं दृष्ट्वा अवलोक्य प्रव्यथिताः प्रकर्षेण व्यथा दुःखं संजाता येषां ते प्रव्यथिताः बभूवुः जाताः । सर्वव्यापकं भयंकरं त्वां दृष्ट्वा पलायनस्य अनवकाशेन स्वस्थाः न बभूवुः । दुःखसंविग्नाः दृश्यन्त इत्यर्थः । ननु लोकव्यथया तव किं दु खम् ? अहमपि तथैवेत्याह । अहं प्रव्यथितः अतिदुःखितः अस्मि । त्वत्संनिधावपि मम भयव्यथा अस्ति । संकोचेन स्वव्यथां तिरोधाय लोकव्यथां प्रवेशयामीत्यर्थः । नन- मां दृष्ट्वा किमिति लोकाः प्रव्यथिताः ? त्वमपीत्याशंक्याह । कथंभूतं रूपम् । बहुवक्त्रनेत्रं वक्त्राणि मुखानि च नेत्राणि लोचनानि वक्त्रनेत्राणि बहूनि अपरिमितानि वक्त्रनेत्राणि यस्मिन तत् बहुवक्त्रनेत्रम् । यत्र स्वरूपे एकं भयानकवक्त्रनेत्रं दृष्ट्वा लोकाः प्रव्यथिताः भवंति । किं पुनः भयानकबहुवक्त्रनेत्रमित्यर्थः । पुनः कथंभूतं रूपम् । बहूबाहूरुपादं बाहवः हस्ताः च उरवः च पादाः चरणाः वाद्वरुपादाः बहवः अपरिमिताः बाहुरुपादाः यस्मिन्तत् बहुबाहूरुपादम् । पुनः कथंभूतं रूपम् । बहूदरं बहूनि उदराणि यस्मिन् तत् बहूदरम् । पुनः कथंभूतं रूपम् । बदहुदंष्ट्राकरालं बहवः अपरिमिताश्च ताः दंष्ट्राश्च बहुदंष्ट्राः वहृदंष्ट्राभिः करालं भयानकं बहुदंष्ट्राकरालम् ॥ २३ ॥

अर्थ : हे महापराक्रमी कृष्णा, तुझें हें रूप फार मोठे आहे. त्याला पुष्कळ नेत्र व मुखे आहेत. त्याला पुष्कळ बाहू, मांड्या व पाय आहेत. अनंत उदरे आहेत. हे विश्वरूप अनेक दाढांनी विकराल झालें आहे. अशा या रूपाला पाहून हे सर्व लोक अतिशय व्यथा पावले आहेत. तसाच मीही व्यथित झालो आहे. [ ज्याअर्थी तुझें रूप असें उग्र आहे, त्याअर्थी तें पाहून हे सर्व प्राणी व मीही भयाने थरथरां कांपत आहे. ] २३

विवरण :


नभःस्पृशं दीप्तमनेकवर्णम्
व्यात्ताननं दीप्तविशालनेत्रम् ।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा
धृतिं न विन्दामि शमं च विष्णो ॥ ११-२४ ॥

अन्वय :

व्याख्या : नभःस्पृशमिति । हे विष्णो ! वेष्टयति व्याप्नोतीति विष्णुः तत्संबुद्धौ हे विष्णो ! हे व्यापनशील ! अहं त्वां अभिनवरूपं दृष्ट्वा अवलोक्य धृतिं धैर्यं चेत्यपरं शमं शांतिं न विंदामि न लभे । कथंभूतः अहम् । प्रव्यथितांतराल्मा प्रव्यथितः दुःखितः अंतरात्मा अस्ति यस्य सः प्रव्यथितांतरात्मा । कथंभूतं त्वाम् । नभःस्पृशं नभः आकाशं स्पृशतीति नभःस्पृक् तं अंतरिक्षव्यापिनम् । पुनः कथंभूतम् । दीप्तं तेजोमयम् । पुनः कथंभूतम् । अनेकवर्णं अनेके बहवः वर्णाः यस्य सः तं अनेकवर्णम् । पुनः कथंभूतम् । व्यात्ताननं व्यात्तानि विवृतानि आननानि मुखानि यस्य सः तं व्यात्ताननम् । पुनः कथंभूतम् । दीप्तविशालनेत्र विशालानि विस्तीर्णानि च तानि नेत्राणि च विशालनेत्राणि दीप्तानि विशालनेत्राणि यस्य सः दीप्तविशालनेत्रः तम् ॥ २४ ॥

अर्थ : हे व्यापक देवा, आकाशाला स्पर्श करणाऱ्या, प्रदीप्त झालेल्या, ज्यांत नानाप्रकारचे वर्ण-रंग आहेत अशा, ज्यांत उघडलेलीं-पसरलेलीं मुखे अनेक आहेत अशा आणि ज्याचे नेत्र दीप्त-प्रदीप्त व विशाल आहेत, अशा भयंकर स्वरूपाने युक्त असलेल्या तुला पाहूनच ज्याचें अंतःकरण अतिशय पीडित झाले आहे, असा मी धैर्याला व मनःसमाधानाला प्राप्त होत नाहीं. २४

विवरण :


'भगवद्‌रूप प्रत्यक्ष पहात असूनही तुला संतोष कां बरें होत नाहीं,' म्हणून विचारशील तर सांगतो -

दंष्ट्राकरालानि च ते मुखानि
दृष्ट्वैव कालानलसन्निभानि ।
दिशो न जाने न लभे च शर्म
प्रसीद देवेश जगन्निवास ॥ ११-२५ ॥

अन्वय :

व्याख्या : दंष्ट्राकरालानीति । किं च हे देवेश ! देवानां ईशः देवेशः तत्संबुद्धौ हे देवेश ! अहं ते तव विश्वरूपस्य मुखानि दृष्ट्वैव अवलोक्यैव दिशः पूर्वाद्याः न जाने दिग्विभागं न जानामि । चेत्यपरं शर्म सुखं न लभे न प्राप्नोमि । हे जगन्निवास ! जगतां निवासः वसतिस्थानं यस्मिन् सः अथवा जगति निवासो यस्य सः जगन्निवासः तत्संबद्धौ हे जगन्निवास ! त्वं प्रसीद प्रसन्नो भव । भयहेतुत्वे मुखानि विशिनष्टि । कथंभूतानि मुखानि । दंष्ट्राकरालानि दंष्ट्राभिः विकटदंष्ट्राभिः करालानि भयानकानि । पुनः कथंभूतानि । कालानलसंनिभानि काले प्रलयकाले अनलः अग्निः कालानलः कालानलेन संनिभानि सदृशानि कालानलसंनिभानि जाज्वल्यमानानि ॥ २५ ॥

अर्थ : तुझी दाढांनी विकराल झालेलीं प्रलयकालच्या अग्नीसारखीं मुखे पाहूनच मी दिशांना जाणत नाहीं व मला सुखही होत नाहीं. यास्तव हे देवांच्या ईश्वरा, हे जगाच्या आश्रयभूत देवा, प्रसन्न हो. ( तुझीं अग्नितुल्य विकृत मुखें पाहून मी दिङ्मूढ व अस्वस्थ झाला आहे. २५

विवरण :


अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ
सहास्मदीयैरपि योधमुख्यैः ॥ ११-२६ ॥
वक्त्राणि ते त्वरमाणा विशन्ति
दंष्ट्राकरालानि भयानकानि ।
केचिद्विलग्ना दशनान्तरेषु
सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ ११-२७ ॥

अन्वय :

व्याख्या : ननु- मया प्रसन्नेनैव विश्वरूपं दर्शितम् । प्रसीदेति पुनः किमिति प्रार्थयसे ? । सत्यम् । इदानीं अन्यथादर्शनात् इत्यभिप्रायेणाह द्वाभ्याम् । अमी चेति । यन्मरणनिमित्तं शोचामि ते अमी प्रत्यक्षाः धृतराष्ट्रस्य पुत्राः दुर्योधनादयः सर्वेपि अवनिपालसंघैः सह अवनिं पृथिवीं पालयन्ति ते अवनिपालाः अवनिपालानां जयद्रथादीनां संघाः समाजाः अवनिपालसंघाः तैः सह त्वां अनुलक्ष्य त्वरमाणाः संतः त्वरयन्ति ते त्वरमाणाः ते तव वक्त्राणि मुखानि विशन्ति प्रविशन्ति इति द्वयेनान्वयः । ननु- दुर्योधनादयः सपत्नभावेन वर्त्तन्ते ते मन्मुखेषु प्रविशन्तु तन्मरणे का वा क्षतिः ? इत्याशंक्य यद्यपि तन्मरणे क्षतिर्नास्ति तथापि अस्मदीयैः सह भीष्मादिनिधनेन शंकितोस्मि इत्यभिप्रायेणाह । यथा दुर्योधनादयः तव वक्त्राणि विशन्ति तथा भीष्मः मत्पितामहः त्वद्भक्तः द्रोणः गुरुः असौ प्रसिद्धः कर्णः सूतपुत्रः भ्राता एते अस्मदीयैः अस्माकं इमे अस्मदीयाः तैः योधमुख्यैः योधानां भटानां मुख्याः योधमख्याः तैः शिखंडिधृष्टद्युम्नादिभिः सह ते वक्त्राणि प्रविशन्ति ॥ २६ ॥
वक्त्राणीति । कथंभूतानि वक्त्राणि दंष्ट्राकरालानि दंष्ट्राभिः करालानि विकटानि । पुनः कथंभूतानि । भयानकानि भयंकराणि तेषां मध्ये केचित् शूराः चूर्णितैः शाकशलाकावत् चूर्णीकृतैः उत्तमाङ्गैः उत्तमानि च तानि अंगानि च उत्तमांगानि तैः मस्तकैः दशनांतरेषु दशनानां दंतानां अंतराणि संधयः दशनांतराणि तेषु विलग्नाः संतः संलग्नाः संतः संदृश्यन्ते दंतसंधिषु पतितोत्तमांगानि आंदोलित शरीराणि पश्यामि ॥२७॥

अर्थ : या पृथ्वीपालांच्या संघासहवर्तमानच हे सर्व धृतराष्ट्राचे पुत्र, पितामह भीष्माचार्य, आचार्य द्रोणाचार्य, त्याचप्रमाणे आमच्याही धृष्टद्युम्नादि मुख्य योद्ध्यांसह हा सूतपुत्र कर्ण इत्यादि हे सर्व योद्धे मोठ्या त्वरेने तुझ्या दाढांनी विकराल दिसणाऱ्या भयानक सुखांत प्रवेश करतात. त्यांतील कांहीं चूर्ण झालेल्या मस्तकांनीं दांतांच्या फटींत अडकून राहिलेले दिसतात. [ भीष्मादिकांपासून पराजय पावण्याची जी शंका वाटत होती, ती पार नाहींशी झाली. ] २६-२७

विवरण :


यथा नदीनां बहवोऽम्बुवेगाः
समुद्रमेवाभिमुखा द्रवन्ति ।
तथा तवामी नरलोकवीरा
विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ ११-२८ ॥

अन्वय :

व्याख्या : तेषां प्रवेशं दृष्टांतेनाह । यथेति । यथा येन प्रकारेण नदीनां अनेकमार्गप्रवृत्तानां गंगाद्यानां बहवः अनेकाः अबुवेगाः अंबूनां उदकानां वेगाः प्रवाहाः समुद्रमेव लवणार्णवमेव अभिमुखाः संतः आभिमुख्येन प्रवर्त्तमानाः संतः द्रवन्ति प्रतिबंधराहित्येन समुद्रं प्रविशन्ति । तथा तेन प्रकारेण अमी प्रसिद्धाः नरलोकवीराः नराणां लोकः नरलोकः नरलोके वीराः शूराः तव वक्त्राणि मुखानि विशन्ति प्रविशन्ति । कथंभूतानि वक्त्राणि । अभिविज्वलन्ति अभि आसमताद्भागे विशेषेण ज्वलन्ति प्रदीप्यमानानि भवन्ति तानि अभिविज्वलन्ति ॥ २८ ॥

अर्थ : ज्याप्रमाणे नद्यांचे अनेक जलप्रवाह समुद्राकडेच वहात जाऊन त्यांतच शिरतात्, त्याप्रमाणे हे मनुष्यलोकांतील वीर तुझ्या सर्व बाजूंनी प्रकाश पावणाऱ्या मुखांत प्रवेश करतात. २८

विवरण :


यथा प्रदीप्तं ज्वलनं पतङ्गा
विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोकाः
तवापि वक्त्राणि समृद्धवेगाः ॥ ११-२९ ॥

अन्वय :

व्याख्या : बुद्धिपूर्वकप्रवेशे दृष्टांतमाह । यथा प्रदीप्तमिति । यथा येन प्रकारेण पतंगाः पतं शीघ्रं गच्छन्ति ते पतंगाः शलभाः नाशाय मृत्यवे मरणायेत्यर्थः । समृद्धवेगाः संतः समृद्धः तीव्रः वेगो येषां ते प्रदीप्तं प्रकर्षेण दीप्तः जाज्वल्यमानः तं ज्वलनं ज्वलतीति ज्वलनः तं दावानलं विशन्ति प्रविशन्ति । तथैव तेनैव दृष्टांतेन लोकाः लोकयन्ते अवलोकयन्ते इति लोकाः उभयचमूस्थाः शूराः समृद्धवेगाः संतः समृद्धः तीव्रः वेगो येषां ते नाशाय मरणाय तव वक्त्राणि दावानलतुल्यानि विशन्ति प्रविशन्ति ॥ २९ ॥

अर्थ : ज्यांच्यामध्यें मोठा वेग उत्पन्न झाला आहे असे पतंग प्रदीप्त अग्नींत नाश पावण्यासाठी जसे प्रवेश करतात, त्याचप्रमाणे हे सर्व लोकही ज्यांचा वेग वाढला आहे, असे होत्साते नाश पावण्यासाठी तुझ्या मुखामध्ये प्रवेश करतात. २९

विवरण :


लेलिह्यसे ग्रसमानः समन्ता-
ल्लोकान् समग्रान् वदनैर्ज्वलद्‌भिः ।
तेजोभिरापूर्य जगत्समग्रम्
भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ११-३० ॥

अन्वय :

व्याख्या : हे भगवन् ! अन्यदपि आश्चर्यं दृष्टं तत् आह । लेलिह्यस इति । हे विष्णो ! हे व्यापनशील ! त्वं महाध्वरेषु महायज्ञेषु प्रक्षिप्तं हविर्द्रव्यं इंद्रादिद्वारैः स्वीकरोषि । इदानीं ज्वलद्भिः ज्वलन्ति तानि ज्वलन्ति तैः वदनैः मुखैः समंतात् आसमंताद्भागे समग्रान् निरवशेषान् लोकान् ग्रसमानः सन् ग्रसते ऽसौ ग्रसमानः भक्षमाणः सन् लेलिह्यसे अतिशयेन भक्षयसि किम् ? । शूराणामेव नाशो जातो नान्यत् व्यसनं दृश्यते इत्याह । तव उग्राः अत्युल्बणाः भासः प्रलयाग्निवत् अंगमुखदीप्तयः तेजोभिः ज्वालाभिः समग्रं समस्तं जगत् विश्वं आपूर्य व्याप्य प्रतपन्ति प्रकर्षेण संतापयन्ति इत्यर्थः ॥ ३० ॥

अर्थ : हे विष्णो, सर्व बाजूंनी सर्व लोकांना प्रज्वलित मुखांनी ग्रासणारा तूं त्यांचा स्वाद घेत आहेस. तुझ्या उग्र कांति स्वतेजांनीं समग्र जगाला भरून सोडून अतिशय ताप देतात. ३०

विवरण :


आख्याहि मे को भवानुग्ररूपो
नमोऽस्तु ते देववर प्रसीद ।
विज्ञातुमिच्छामि भवन्तमाद्यं
न हि प्रजानामि तव प्रवृत्तिम् ॥ ११-३१ ॥

अन्वय :

व्याख्या : अधुना किं त्वं प्रलयं करोषि ? मां कथय इत्याशयेनाह । आख्याहीति । इदानीं भवान् त्वं उग्ररूपः सन् उग्रं भयंकरं रूपं यस्य सः उग्ररूपः भयानकस्वभावः कः असि इति मे मह्यं आख्याहि कथय । हे देववर ! देवानां मध्ये वरः श्रेष्ठः तत्संबुद्धौ हे देववर हे देवश्रेष्ठ ! ते तुभ्यं नमः नमस्कारः अस्तु । त्वं प्रसीद प्रसन्नो भव । किमिति मां प्रसन्नीकिरोषि ? तत्राह । विश्वरूपं दृष्ट्वा भयाविष्टः अहं भवन्तं मत्सखं आद्यं पूर्वदृष्टं त्रैलोक्यमनोहरं रूपं विज्ञातुं अनभवितुं इच्छामि इच्छां करोमि । ननु- सानुग्रहं रूपं अनादृत्य सखिरूपं किं इच्छसि ? तत्राह । हि यस्मात् कारणात् अहं तव विश्वरूपस्य प्रवृत्तिं अभिप्रायं न जानामि तेन निमित्तेन भयाविष्टोहं पूर्वरूपं विज्ञातुं इच्छामीत्यर्थः ॥ ३१ ॥

अर्थ : ज्याअर्थी तूं असा उग्र स्वभावाचा आहेस, त्याअर्थी भयंकर स्वरूप धारण केलेला तूं असा कोण आहेस, तें मला सांग. हे देवा, तुला नमस्कार असो. हे देवांतील श्रेष्ठ देवा, मजवर प्रसन्न हो. जगांतील आदिकारण अशा तुला मी जाणण्याची इच्छा करतो. कारण तुझ्या या चेष्टेला मी जाणूं शकत नाहीं. [ तूं असा उग्र कां झाला आहेस, ते मला कळत नाहीं. मी तुला नमस्कार करितो. तूं कोण आहेस तें मला सांग. ] ३१

विवरण :


श्रीभगवानुवाच -
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो
लोकान् समाहर्तुमिह प्रवृत्तः ।
ऋतेऽपि त्वां न भविष्यन्ति सर्वे
येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ११-३२ ॥

अन्वय :

व्याख्या : श्रीभगवान् आत्मानं स्वप्रवृत्तिं च प्रश्नोत्तरत्वेनाह- संजयो धृतराष्ट्रं प्रति । कालोऽस्मीति । हे पार्थः ! अहं कालः संहारकः प्रवृद्धः प्रकर्षेण वृद्धः वृद्धिं गतः अस्मि । कथंभूतः अहम् । लोकक्षयकृत् लोकानां ब्रह्मादिस्तंबपर्यतानां क्षयः नाशः लोकक्षयं करोतीति तथोक्तः । ननु- इह किमर्थं प्रवृत्तोसीत्यत आह । अहं लोकान् समाहर्त्तुं नाशयितुं इह समये प्रवृत्तः प्राप्तः अस्मि । ननु- सर्वान् संहर्त्तुं प्रवृत्तोस्मि इति उक्तं किं ब्रह्मांडं सहर्त्तुं प्रवृत्तोसि मामपि किं संहरिष्यसि ? नेत्याह । त्वां ऋते त्वां विना सर्वेपि न भविष्यन्ति मरिष्यन्ति । तर्हि मां विना ब्रह्मांडवर्त्तिनः मरिष्यन्ति ? नेत्याह । इह युद्धे ये प्रसिद्धाः यद्ध्यन्त इति योधाः योद्धारः प्रत्यनीकेषु सैन्यसमदायेषु अवस्थिताः विद्यमानाः संति ते सर्वे मरिष्यन्ति ॥ ३२ ॥

अर्थ : आपली ही प्रवृत्ति कशासाठी आहे, हे सांगण्यासाठी श्रीकृष्ण म्हणाले - मी लोकांचा क्षय करणारा काल अतिशय वृद्धि पावलो आहे. मी यावेळी लोकांचा संहार करण्यास प्रवृत्त झालों आहे. शत्रूंच्या प्रत्येक सैन्यांत जे योद्धे स्थित आहेत, ते सर्व तुजवाचूनही नष्ट होतील. ३२

विवरण :


तस्मात्त्वमुत्तिष्ठ यशो लभस्व
जित्वा शत्रून भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वमेव
निमित्तमात्रं भव सव्यसाचिन् ॥ ११-३३ ॥
द्रोणं च भीष्मं च जयद्रथं च
कर्णं तथान्यानपि योधवीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठा
युध्यस्व जेतासि रणे सपत्नान् ॥ ११-३४ ॥

अन्वय :

व्याख्या : त्वमेव सर्वान् सहरिष्यसि चेत् तर्हि मां युद्धे किमर्थं नियोजयसि इत्याशंक्य त्वयि संहर्तृशक्तिर्मदीयैवास्ति । त्वं तु केवलं लौकिकं वधयशः राज्यं च लभस्व इत्याशयेनाह । तस्मादिति । हे सव्यसाचिन् ! सव्येन वामपाणिना साचितुं संधातुं शीलं यस्य सः सव्यसाची तत्संबुद्धौ हे सव्यसाचिन् ! मयैव पूर्वं युद्धप्रवृत्तेः प्रागेव एते भीष्मादयः निहताः नितरां हताः निर्गतप्राणाः कृताः तस्मात् कारणात् त्वं उत्तिष्ठ यशः ’अर्जुनेन हताः' इत्येवं रूपं यशः कीर्तिं लभस्व प्राप्नुहि । किं च त्वं शत्रून् दुर्योधनादीन् जित्वा हत्वा समृद्धं निष्कंटकं राज्यं राज्ञः कर्म राज्यं भुंक्ष्व भोग्यत्वेन संपादय । मया एतेषां आयुः जीवनं अपहृतम् । एते मृतप्रायाः संति । त्वं निमित्तमात्रं निमित्तमेव निमित्तमात्रं भव । यथा कालात्मना क्षीणायुषः ज्वरादयो निमित्तास्तद्वदिति भावः ॥ ३३ ॥
ननु- क्षीणायुषोपि महाप्रभावाः एते मया कथं हन्तुं योग्याः तत्राह । द्रोणमिति । हे अर्जुन ! मया हतान् युद्धसामर्थ्यात् वियोजितान् । मृतप्रायकृतानित्यर्थः । एतान् त्वं जहि घातय । एतान् कान् ? । द्रोणं चेत्यपरं भीष्मं चेत्यपरं जयद्रथं चेत्यपरं कर्णं तथा अन्यान् योधवीरान् योधेषु वीराः योधवीराः तान् । एते मया कथं हंतव्याः इति एवं मा व्यथिष्ठाः व्यथां चिंतां मा प्राप्नुहि । रणे संग्रामे सपत्‍नान् शत्रून् जेतासि जेष्यसि । एवं युद्ध्यस्व युद्धाय सन्नद्धो भव इति भगवता अर्जुनस्य पृष्ठ स्वपाणिना स्पृश्यते ॥ ३४ ॥

अर्थ : ज्याअर्थी तुजवांचूनही हे सर्व निश्चयाने मरणारे आहेत, त्याअर्थी तूं ऊठ आणि यश संपादन कर. शत्रूंना जिंकून संपन्न राज्याचा उपभोग घे. मींच या भीष्मादिकांस पूर्वी मारले आहे. हे अर्जुना, तूं केवळ निमित्त हो. द्रोण, भीष्म, जयद्रथ, कर्ण तसेच दुसरे वीर यांस मींच पूर्वी मारले आहे. यास्तव मींच गतप्राण केलेल्या या योद्ध्यांस तूं मार. अशी व्यथा पावूं नकोस. त्यांना भिऊं नकोस, युद्ध कर. रणांत तूं शत्रूंना जिंकशील. [ ज्या ज्या योद्ध्यांविषयी अर्जुनाला शंका होती त्यांना त्यांना भगवान् 'मीं मारलेले' असें म्हणतात. त्यांतील द्रोण व भीष्म यांच्याविषयी शंकेचे कारण तर प्रसिद्धच आहे. द्रोण धनुर्वेदाचे आचार्य, दिव्य स्त्रांनी संपन्न असलेला व विशेषतः आपला सर्वोत्तम गुरु; भीष्म आपल्या इच्छेला येईल तेव्हां मरणारा व दिव्य अस्त्रांनी संपन्न असलेला, त्यानें परशुरामाशी द्वंद्व युद्ध केलें, पण तो त्यांत पराभूत झाला नाही. जो माझ्या पुत्राचे शिर् भूमीवर पाडवील, त्याचेंही शिर तत्काल पडावे, म्हणून ज्याचा पिता तप करीत आहे, असा जयद्रथ; कर्णही 'वासवदत्ता' या नांवाच्या इंद्राने दिलेल्या अमोघ शक्तीने संपन्न असलेला सूर्याचा पुत्र; इत्यादि सर्व वीर अर्जुनाच्या शंकेचे विषय होते. म्हणून भगवान् तूं मारण्याच्या पूर्वीच मीं या सर्वांना मारले आहे, यास्तव तूं केवल निमित्तमात्र होऊन यांचा वध कर, व्यथित होऊं नको. तूं या युद्धांत दुर्योधनादि शत्रूंना जिंकशील - असे सांगत आहेस.) ३३-३४

विवरण :


सञ्जय उवाच -
एतच्छ्रुत्वा वचनं केशवस्य
कृताञ्जलिर्वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं
सगद्‌गदं भीतभीतः प्रणम्य ॥ ११-३५ ॥

अन्वय :

व्याख्या : ततः किं वृत्तं इत्यपेक्षायां संजयो धृतराष्ट्रं प्रति उवाचेत्याह । एतदिति । अर्जुनः केशवस्य कः ब्रह्मा च ईशः रुद्रः केशौ केशौ वशयति वशं करोतीति केशवः तस्य केशवस्य श्रीकृष्णस्य एतत् उक्तप्रकारं वचनं वाक्यं श्रुत्वा निशम्य सख्युः प्रभावातिशयं दृष्ट्वा पूर्वं तिरस्कारादिस्मरणभयेन वेपमानः सन् सर्वांगेषु कंपमानः सन् किरीटयुक्तेन शिरसा नमस्कृत्वा पादयोः मुकुटयुक्तं शिरो निधाय भूय एव प्रणम्य भीतभीतः सन् अतिशयेन भीतः हति भीतभीतः सगद्‌गदं गद्‌गदेन सहितं सगद्‌गदं बाष्पयुक्तेन कंठेन स्खलिताक्षरं यथा स्यात्तथा कृष्णं आह वक्ष्यमाणप्रकारेण उक्तवान् । कथंभूतः अर्जुनः । कृतः अंजलिर्थेन सः कृतांजलिः संयुक्तांजलिपुटः ॥ ३५ ॥

अर्थ : संजय म्हणाला - श्रीकृष्णाचे हे वचन ऐकून अतिशय भ्यालेला व थरथर कापणारा अर्जुन हात जोडून, नमस्कार करून, नम्र होऊन, कंठ दाटून आल्यामुळें कांपऱ्या स्वराने त्यास असे बोलला - ३५

विवरण :


अर्जुन उवाच -
स्थाने हृषीकेश तव प्रकीर्त्या
जगत्प्रहृष्यत्यनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ ११-३६ ॥

अन्वय :

व्याख्या : स्थाने इति एकादशभिः अर्जुनस्योक्तिः । स्थाने हति अव्ययं युक्तार्थे । हे हषीकेश ! हृषीकाणां इंद्रियाणां ईशः हृषीकेशः तत्सबुद्धौ हे हृषीकेश ! तव सर्वात्मनः प्रकीर्त्या प्रकर्षेण कीर्तिः तया प्रकीर्त्या माहात्म्यसंकीर्त्तनेन यशःश्रवणेन जगत् तव कीर्त्तिश्रवणं प्रति सादरेण गच्छतीति जगत् भक्तवृंदं प्रहृष्यति प्रकर्षेण हर्षं प्राप्नोति । किं च तव कीर्त्तौ अनुरज्यते रतिं करोति इति स्थाने युक्तम् । स्वात्मकीर्त्तौ को वा हर्ष न प्राप्नोति ? । तत्रैव अप्रीतिं न प्राप्नोतीत्यर्थः । किं च रक्षांसि राक्षसाः भीतानि संति भयं प्राप्ताः संतः दिशः द्रवन्ति सर्वतः पलायन्ति इति स्थाने युक्तम् । किं च सर्वे समस्ताः सिद्धसंघाः सिद्धानां संघाः समूहाः नमस्यन्ति नमस्कुर्वन्ति इति स्थाने युक्तम् ॥ ३६ ॥

अर्थ : अर्जुन म्हणाला-हे हृषीकेशा, इंद्रियांच्या ईश्वरा, तुझें माहात्म्य ऐकून सर्व जगत् अत्यंत हृष्ट व अनुरक्त जें होते, ते योग्यच आहे. राक्षस भयभीत होऊन दशदिशांत पळतात व सर्व सिद्धांचे संघ तुला नमस्कार करतात, ते योग्यच आहे. [ किंवा सर्व जगाच्या हर्षादिकांचें तूंच स्थान आहेस. ] ३६

विवरण :


कस्माच्च ते न नमेरन्महात्मन्
गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।
अनन्त देवेश जगन्निवास
त्वमक्षरं सदसत्तत्परं यत् ॥ ११-३७ ॥

अन्वय :

व्याख्या : कस्माच्चेति । हे महात्मन् ! हे अपरिच्छिन्नस्वरूप ! ते सिद्धसंघाः कस्मात् हेतोः गरीयसे अतिशयेन गुरुः श्रेष्ठः इति गरीयाः तस्मै गरीयसे तुभ्यं न नमेरन् न नमस्कृर्यः ? । अपि तु नमस्कुर्युरित्यर्थः । कथंभूताय गरीयसे ब्रह्मणोपि हिरण्यगर्भस्यापि आदिकर्त्रे आदि प्रथमं करोति शरीरं जनयतीति आदिकर्ता तस्मै । 'स वै पुरुषः प्रथमशरीरीति श्रुतेः' । आदिपुरुषस्यापि जनकत्वात् त्वं गरीयानित्यर्थः । हे अनंत ! हे त्रिविधपरिच्छेदशून्य ! हे देवेश ! हे देवनियंतः ! हे जगन्निवास ! हे विश्वाधार ! त्वं अक्षरं न क्षरति तत् अक्षरं व्यापकं असि । सत् कार्यं असत् कारणरूपं त्वमेव असि । तत्परं ताभ्यां कार्यकारणाभ्यां परं मूलकारणं तत्परं यत् प्रसिद्धं परं ब्रह्म तत् त्वमेव असि ॥ ३७ ॥

अर्थ : हे महात्मन्, हिरण्यगर्भाचाही आदिकर्ता व अतिशय श्रेष्ठ गुरु, अशा तुला ते सिद्धादिक कां बरें नमस्कार करणार नाहींत ! हे अनंता, देवाधिदेवा, हे जगन्निवासा, सत् व असत् म्ह० विद्यमान व अविद्यमान असें गौण वृत्तीने ज्याला म्हणतात, पण वस्तुतः जें अगदीं विलक्षण आहे, तें अक्षर ब्रह्म तूंच आहेस. ३७

विवरण :


त्वमादिदेवः पुरुषः पुराण-
स्त्वमस्य विश्वस्य परं निधानम् ।
वेत्तासि वेद्यं च परं च धाम
त्वया ततं विश्वमनन्तरूप ॥ ११-३८ ॥

अन्वय :

व्याख्या : त्वां विना किमपि नास्तीत्याह । त्वमादिदेव इति । हे अनंतरूप ! अनंतानि अपरिमितानि रूपाणि यस्य सः अनंतरूपः तत्संबुद्धौ हे अनंतरूप ! हे अपरिच्छिन्नमूर्त्ते ! त्वं आदिदेवः देवानां ब्रह्मादीनां आदिः कारणं इति आदिदेवः असि । कथंभूतः त्वम् । पुरुषः पुरा आस इति पुरुषः पूर्णः । पुनः कथंभूतः पुरुषः । पुराणः पुरापि सर्वस्मात् पूर्वं विद्यमानोपि नवः नित्यं नूतनः इति पुराणः । किं च त्वं अस्य चराचरस्य विश्वस्य जगतः परं श्रेष्ठं निधान निधीयते यस्मिन्निति अथवा प्रलये सर्वं लयमाप्नुते इति निधानं लयस्थानं असि । चेत्यपरं त्वं वेत्ता वेत्तीति वेत्ता वेत्ति अंतर्बहिः सर्वं जानातीति तथोक्तः असि । त्वं वेद्यं सर्वैः वेदैः प्रतिपादितुं योग्यं वेद्यं असि । चेत्यपरं परं श्रेष्ठं धाम स्थितिकाले सर्वेषां निवासस्थानं यद्वा पातीति पं रमयतीति रं पं च रं च परं धाम स्वयंप्रकाशस्वभावं त्वमेव असि । जगत् पालयन् रमयतीत्यर्थः । अत एव त्वया चिद्‌रूपेण विश्वं जडं ततं व्याप्तं जडमपि यद्विश्वं चैतन्येन चेतनवत् प्रतीयते । सैव तव व्याप्तिरित्यर्थः ॥ ३८ ॥

अर्थ : तूं जगाचा स्रष्टा असल्यामुळे आदिदेव आहेस, तूं शरीररूपी पुरांत शयन-वास करतोस, म्हणून पुराण पुरुष आहेस. तूंच या विश्वाचे परम निधान आहेस. महाप्रलयाच्या आरंभी सर्व जगत् तुझ्यामध्यें स्थापिले जातें, म्हणून तूं निधान. तूं सर्व विषयवर्गाचा वेत्ता म्ह० जाणणारा आहेस. जाणावयाची वस्तूही तूंच आहेस आणि परम वैष्णवपदही तूंच आहेस. तूं सर्व वि भाला व्यापले आहेस. ३८

विवरण :


वायुर्यमोऽग्निर्वरुणः शशाङ्कः
प्रजापतिस्त्वं प्रपितामहश्च ।
नमो नमस्तेऽस्तु सहस्रकृत्वः
पुनश्च भूयोऽपि नमो नमस्ते ॥ ११-३९ ॥

अन्वय :

व्याख्या : व्याप्तिं सर्वात्मकत्वेन दर्शयति । वायुरिति हे भगवन् ! वायुः जगत्प्राणः त्वमेवासि । यमः यमयति यथाकर्म सर्वप्राणि नः दमयतीति यमः त्वमेवासि । अग्निः देवानां मुखं त्वमेवासि । वरुणः अपांपतिः त्वमेवासि । शशांकः शशस्य अंकः लाञ्छनं यस्य सः शशांकः चंद्रः देवभोग्यः त्वमेवासि । प्रजापतिः प्रजानां पतिः प्रजापतिः वैराजपुरुषः त्वमेवासि । प्रपितामहः हिरण्यगर्भः त्वमेव असि । त्वमेवेति प्रत्येकं संबंधः । यतः सर्वात्मकस्त्वं ततः सहस्रशस्तुभ्यं नमोस्त्वित्याह । हे विश्वरूपिन् ! ते तुभ्यं सहस्रकृत्वः सहस्रवारं नमः नमः नमस्कारः नमस्कारः अस्तु । आदरे वीप्सा नाम द्विरुक्तिः । चेत्यपरं पुनः पुनरपि भूयः अधिकं ते तुभ्यं नमो नमः नमस्कारः अस्तु ॥ ३९ ॥

अर्थ : तूं वायु - अग्नि - चंद्रमा - वरुण व कश्यपादि प्रजापति आहेस. पितामह - ब्रह्मदेवाचाही पिता -सूत्रात्मा तूंच आहेस. तुला वारंवार, हजारों वेळां नमस्कार असो. [ ' पुनश्च भूयोपि ' या शब्दांनी श्रद्धा व भक्ति यांच्या आधिक्याने सहस्रवार नमस्कार केले तरी आपल्या अंतःकरणाची तृप्ती होत नाहीं, असे अर्जुन प्रदर्शित करीत आहे. ] ३९

विवरण :


नमः पुरस्तादथ पृष्ठतस्ते
नमोऽस्तु ते सर्वत एव सर्व ।
अनन्तवीर्यामितविक्रमस्त्वम्
सर्वं समाप्नोषि ततोऽसि सर्वः ॥ ११-४० ॥

अन्वय :

व्याख्या : पूर्वं विशेषत्वेन नमस्कृत्य इदानीं सामान्यतः प्राच्यादिदिगवस्थं भगवंतं प्रणमति । नम इति । अथ विशेषनमस्कारानंतरं पुरस्तात प्राच्यां दिशि सामान्यतः वर्त्तमानाय ते तुभ्य नमः नमस्कारः अस्तु । पृष्ठतः प्रतीच्यां दिशि वर्तमानाय ते तुभ्यं नमः नमस्कारः अस्तु । हे सर्व ! हे सर्वस्वरूप ! सर्वतः सर्वासु दिक्षु नमः नमस्कारः अस्तु । 'व्रह्मैवेदं पुरस्तात् पश्चात् दक्षिणतश्चोत्तरेणेति श्रुतेः' । सर्वत्र सर्वरूपेण वर्तमानाय सामान्येन नमस्कारोस्तु इति उक्तं सर्वात्मत्वं प्रभावातिशयेन दर्शयति । हे अनंतवीर्य ! अनंतं अक्षीणं वीर्यं सामर्थ्यं यस्य सः अनंतवीर्यः तत्संबुद्धौ हे अनंतवीर्य । त्वं अमितविक्रमः अमितः अपरिमितः विक्रमः पराक्रमः यस्य सः अमितविक्रमः असि । यतः हेतोः त्वं सर्वं श्रुतदृष्टं समाप्नोषि अंतर्बहिर्व्याप्य तिष्ठसि । ततः अंतर्बहिर्व्याप्यनंतरं त्वं सर्वः सर्वरूपः असि । सर्वरूपेण त्वमेवासीत्यर्थः ॥ ४० ॥

अर्थ : तुला पूर्वदिशेत नमस्कार असो व पश्चिम दिशेतही तुला नमस्कार असो. हे सर्व ! सर्व दिशांत असलेल्या तुला नमस्कार असो. ज्याचे सामर्थ्य अनंत व पराक्रम अमर्याद आहे, असा तूं सर्व जगाला व्यापतोस. [ पूर्वादि सर्व दिशांमध्ये असलेलें चराचर तूंच आहेस. म्हणूनच तुला ' सर्व ' असे म्हणतात. त्या तुज सर्वात्म्याला नमस्कार असो. तूं ज्यात नाहींस, असे या सष्टींत कांहीं नाहींच. ] ४०.

विवरण :


सखेति मत्वा प्रसभं यदुक्तं
हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं
मया प्रमादात्प्रणयेन वापि ॥ ११-४१ ॥
यच्चावहासार्थमसत्कृतोऽसि
विहारशय्यासनभोजनेषु ।
एकोऽथवाप्यच्युत तत्समक्षं
तत्क्षामये त्वां अहमप्रमेयम् ॥ ११-४२ ॥

अन्वय :

व्याख्या : एवं तव सर्वात्मकत्वं अज्ञात्वा त्वं सखेति मत्वा मया तिरस्कृतोपि इदानीं मदीयोयमर्जुनः इति मत्वा सर्वं अपकृतं क्षंतुं अर्हसि । इति कृपां उत्पादयन्नाह द्वाभ्याम् । सखेति । हे स्वामिन् ! पूर्वं तव इदं दृश्यमानं महिमानं अजानता न जानातीति अजानन् तेन अनभिज्ञेन मया त्वं सखा इति मत्वा प्रमादात् अनादरेण वा प्रणयेन प्रतारणेन प्रसभं हठात् हे कृष्ण ! हे यादव ! हे सखे ! हति एवं प्रकारेण यत् प्रसिद्धं उक्तं हेलनया अभिभाषितं तत् सर्वमपि क्षामये क्षमामये इति द्वितीयेनान्वयः ॥ ४१ ॥
यच्चेति । किं च यच्च यस्मिन् काले अवहासार्थं अवहासाय परिहासाय इति अवहासार्थं परिहासार्थं वक्रोक्त्या कथ सत्यं वदसि इत्यादिना तिरस्कृतः असि तथा विहारशय्यासनभोजनेषु विहारश्च शय्या च आसनं च भोजनं च विहारशय्यासनभोजनानि तेषु विहारे क्रीडायां अंगुल्या कुक्षिं स्पृष्ट्वा तिरस्कृतोसि । शय्यायां शयनेन सह हस्तपादाघातेन तिरस्कृतोसि । आसने एकासने अंगघर्षणेन असत्कृतोसि तिरस्कृतोसि । भोजने भुक्त्या सह तव हस्तं दूरीकृत्य मिष्टान्नभक्षणे असत्कृतोसि । अथ पक्षांतरे एकः एकांते अथवा तत्समक्षं तेषां जनानां समक्षं जनसभायामपि असत्कृतोसि तिरस्कृतोसि । तत्सर्वमपि क्षम्यताम् । हे अच्युत ! अहं त्वां अप्रमेयं अपरिच्छिन्नं क्षामये क्षमापये । क्षंतव्यमिति प्रार्थयामीत्यर्थः । अच्यतेति निर्विकारसूचकसंबोधनेन अपराधसहनत्वं ध्वनितम् ॥ ४२ ॥

अर्थ : तुझ्या माहात्म्यास-विश्वरूपास न जाणणाऱ्या मीं अनवधानामुळें किंवा प्रेमामुळे तूं माझ्या बरोबरीचा मित्र आहेस, असें जाणून हे कृष्ण, हे यादव, हे सखे, असे जें अनादराने म्हटलें आणि हे अच्युता, विनोदानें, विहार करतांना, शयन करीत असतांना, आसनावर बसतांना, भोजन करीत असतांना, एकटा असतांना किंवा लोकांच्या समक्ष, आजवर अनेकदा मजकडून जो असत्कार केला गेला आहे, त्या सर्वांची तुज अप्रमेय देवाला मी क्षमा करण्याची प्रार्थना करतो. [ तुझ्या माहात्म्याचे पूर्ण ज्ञान नसणे, या अपराधामुळे तूं माझ्या बरोबरीचा मित्र आहेस, असें विपरीत भावनेने समजून व तुझा तिरस्कार करून तुझ्याशी भाषणांत व व्यवहारांत आजवर स्नेहाने जे अतिप्रसंग करीत होतों, त्या सर्वांची मला क्षमा कर. मीं जें आपण केलें, त्याची तेवढी क्षमा कर असे नव्हे, तर क्रीडादि प्रसंगीं, थट्टेनें - स्वतः हसून दुसऱ्यांना हंसविण्यासाठीं, व्यायाम, शयन, आसन, भोजन इत्यादि प्रसंगीं, एकांतांत किंवा लोकांसमक्ष मीं जो तुझा अपमान केला, त्या सर्वांची मला क्षमा कर. ] ४१-४२

विवरण :


पितासि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ११-४३ ॥

अन्वय :

व्याख्या : अपराधसहनमपि तव योग्यमित्याशयेनाह । पितासीति । हे अप्रतिमप्रभाव ! न विद्यते प्रतिमा उपमा यस्य सः अप्रतिमः अप्रतिमः प्रभावः सामर्थ्यं यस्य सः अप्रतिमप्रभावः तत्संबुद्धौ हे अनुपमपराक्रम ! त्वं अस्य प्रसिद्धस्य चराचरस्य स्थावरजंगमस्य लोकस्य पिता जनकः असि चेत्यपरं पूज्यः पूजितुं योग्यः पूज्यः असि । त्वं गुरुः गृणाति हितमुपदिशतीति गुरुः असि । त्वं गरीयान् अतिशयेन गुरुः डति गरीयान् श्रेष्ठादपि श्रेष्ठः असि । लोकत्रयेपि लोकानां त्रयं लोकत्रयं तस्मिन् लोकत्रये भूर्भुवःस्वराख्ये त्वत्समः त्वया समः त्वत्समः त्वत्तुल्यः अन्यः पुरुषः नास्ति । त्वत्तः अभ्यधिकः अधिकपराक्रमः कुतः कस्मात् हेतोः भवति ? अपि तु न भवतीत्यर्थः ॥ ४३ ॥

अर्थ : तूं या चराचर लोकांचा जनक व पूज्य फार मोठा गुरु आहेस. ज्याचा प्रभाव अप्रतिम आहे, अशा हे श्रीकृष्णा, या तिन्ही लोकांत तुझ्यासारखाही जर दुसरा कोणी नाहीं, तर तुझ्यापेक्षा अधिक कोठून असणार ! [ स्थावरजंगम प्राणिवर्गाचा पिता व गुणांच्या आधिक्यामुळे पूजार्ह, ज्ञानसंप्रदायाचा प्रवर्तक असल्यामुळे तूं सूत्रात्मा, अंतर्यामी, इत्यादि गुरूंचाही श्रेष्ठ गुरु आहेस. तुझ्यासारखाही जर दुसरा कोणी संभवेल, तर तोही ईश्वरच होईल ! पण एका जगाचे जर दोन ईश्वर झाले तर अनवस्थाप्रसंग येईल. म्हणून त्वत्तुल्यच जर कोणी नाहीं, तर त्वदधिक कसा संभवणार ! खरोखर, तुझ्या प्रभावाला उपमा नाहीं.] ४३

विवरण :


तस्मात् प्रणम्य प्रणिधाय कायं
प्रसादये त्वां अहमीशमीड्यम् ।
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम् ॥ ११-४४ ॥

अन्वय :

व्याख्या : त्वदपराधात् मां कोपि मोचिता नास्ति इति स्वकारुण्यं पुरस्कृत्य कृपोत्पादकैः दृष्टांतैः भगवति कृपां उत्पादयन्नाह । तस्मादिति । तस्मात् त्वच्छरणतां विना त्वदपराधमोचकं न पश्यामि इति हेतोः अहं कायं शरीरं प्रणिधाय नम्रं विधाय दंडवत् भूमौ निपात्य प्रणम्य नमस्कृत्य त्वां सर्वात्मानं प्रसादये प्रसादयामि प्रसन्नं करोमि । कथंभूतं त्वाम् । ईशनशीलः ईशः तं ईशं शिक्षितारम् । पुनः कथंभूतं त्वाम् । ईड्यं ईडितुं स्तोतुं योग्यः ईड्यः तं ईड्यं स्तुतिप्रियम् । ननु- ईशिता यथापराधदंडं करिष्यत्येव तत्राह । ईशितापि स्तुतिप्रियश्चेत्सर्वापराधान् सहतीति भावः । कस्य क इव । पुत्रस्य अपराधान् पितेव । सख्युः मित्रस्य अपराधान् सखेव मित्रमिव । प्रियायाः पतिव्रतायाः अपराधान् प्रिय इव पतिरिव । हे देव ! तथा त्वं मम अपराधान् सोढुं अर्हसि । योग्यो भवसीत्यर्थः ॥ ४४ ॥

अर्थ : ज्याअर्थी असे आहे त्याअर्थी, शरीर भूमीवर दंडाप्रमाणे स्थापून व प्रणाम करून मी सर्वांचा ईश्वर व स्तुतीला पात्र अशा तुला प्रसन्न करतो. हे देवा, पुत्राचा अपराध पिता जसा सहन करतो, मित्राचा अपराध मित्र सहन करतो आणि प्रिय पत्नीचा अपराध प्रिय पति जसा सहन करतो, तसा तूं माझा अपराध सहन करण्यास योग्य आहेस. [ पित्रादिक पुत्रादिकांना त्यांच्या अपराधाची जशी क्षमा करतात, त्याप्रमाणें तूं मला क्षमा कर. मी तुला प्रणाम व स्तुति यांच्या योगाने प्रसन्न करतो. ] ४४

विवरण :


आतां अर्जुन या विश्वरूपाचा उपसंहार करण्याची प्रार्थना करतो-

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा
भयेन च प्रव्यथितं मनो मे ।
तदेव मे दर्शय देव रूपं
प्रसीद देवेश जगन्निवास ॥ ११-४५ ॥

अन्वय :

व्याख्या : एवं क्षमापयित्वा प्रार्थयते । अदृष्टपूर्वमिति । अहं अदृष्टपूर्वं केनापि पूर्वं इष्टं न भवति तत् अदृष्टपूर्वं रूपं विश्वरूपं दृष्ट्वा अवलोक्य अलभ्यलाभेन हृषितः हर्षितः संतोषं गतः अस्मि । किं च भयेन भीत्या मे मम मनः अंतःकरणं प्रव्यथितं प्रकर्षेण व्यथा संजाता यस्य तत् प्रव्यथितं दुःखितं जातम् । ततः किं इत्यपेक्षायामाह । हे देव ! हे स्वयंप्रकाश ! त्वं तदेव पूर्वमेव रूपं स्वरूपं मे मह्यं दर्शय । हे देवेश ! एं देवनियंतः ! हे जगन्निवास ! हे विश्वाधार ! त्वं प्रसीद प्रसन्नो भव । दासेषु उपेक्षा नोचिता भवति इत्यर्थः ॥ ४५ ॥

अर्थ : भगवन्, यापूर्वी मीं किंवा दुसऱ्या कोणींही कधीं न पाहिलेले हें विश्वरूप पाहून मी हृष्ट झालो आहे. पण माझें मन भयाने अतिशय व्यथित झाले आहे, यास्तव हे जगन्निवासा, देवा, हे देवेशा, प्रसन्न हो. मला तेंच प्रसिद्ध रूप दाखव. ४५

विवरण :


किरीटिनं गदिनं चक्रहस्तं
इच्छामि त्वां द्रष्टुमहं तथैव ।
तेनैव रूपेण चतुर्भुजेन
सहस्रबाहो भव विश्वमूर्ते ॥ ११-४६ ॥

अन्वय :

व्याख्या : तदेव रूपं दर्शय इति उक्ते सति किं तद्‌रूपं इत्यपेक्षायामाह । किरीटिनमिति । अहं तथैव यथापूर्वमेव त्वां द्रष्टुं अवलोकितुं इच्छामि इच्छां करोमि । कथंभूतं त्वाम् । किरीटिनं किरीटोस्यास्तीति किरीटी तम् । पुनः कथंभूतम् । गदिनं गदा यस्यास्तीति गदी तं गदिनं गदावंतम् । पुनः कथंभूतम् । चक्रहस्तं चक्रं सुदर्शनं हस्ते यस्य सः चक्रहस्तः तम् । हे सहस्रबाहो ! हे विश्वमूर्ते ! इति संबोधनद्ववेन विश्वरूपांतर्धानप्रार्थनया पूर्वाभ्यस्तदर्शनहेत्वभिप्रायेणाह । तेनैव मत्सखिस्वरूपेणैव रूपेण स्वरूपेण त्वं भव । कथंभूतेन रूपेण । चतुर्भुजेन चत्वारः भुजाः हस्ताः यस्मिन् तत् चर्तुभुजं तेन ॥ ४६ ॥

अर्थ : 'तें प्रसिद्ध रूप कोणतें' म्हणून विचारशील तर सांगतो - ज्याच्या मस्तकावर किरीट आहे, हातांत गदा व चक्र आहे, अशा तुला पूर्वीप्रमाणेच पहाण्याची मी इच्छा करतो. आतां ज्याला सहस्त्र बाहु आहेत व सर्व विश्व हीच ज्याची मूर्ति आहे, अशा हे देवा, त्या तुझ्या पूर्वीच्या चतुर्भुज रूपानें तूं प्रकट हो. ४६

विवरण :


श्रीभगवानुवाच -
मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शितमात्मयोगात् ।
तेजोमयं विश्वमनन्तमाद्यं
यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ११-४७ ॥

अन्वय :

व्याख्या : इति अर्जुनेन संप्रार्थितो भगवान् देवैरपि दुर्दर्शं रूपं वात्सल्येन मया दर्शितं तत्केनापि भाग्योदयेन त्वया दृष्टं साधनांतरैर्द्रष्टुमशक्यं इति वदन् तमाश्वास्य पूर्वरूपमेव पश्य इत्याह त्रिभिः । मयेति । हे अर्जुन ! मया प्रसन्नेन प्रसादाभिमुखेन मे मम यत् प्रसिद्धं रूपं विश्वरूपं परं केवलं आत्मयोगात् योगमायासामर्थ्यात् तव इदं रूपं दर्शितम् । कथंभूत् रूपम् । आद्यं सर्वकारणम् । पुनः कथंभूतं रूपम् । अनंतं न विद्यते अंतो यस्य तत् अनंतं अपरिच्छिन्नम् । पुनः कथंभूतं रूपम् । विश्वं निरवशेषम् । पुनः कथंभूतं रूपम् । तेजोमयं प्रकाशबहुलं सर्वप्रकाशकम् । पुनः कथंभूतं रूपम् । त्वदन्येन त्वत्तः अन्यः त्वदन्यः तेन त्वदन्येन व्रह्मादिनापि न दृष्टपूर्वं पूर्वं दृष्टं न भवति तत् न दृष्टपूर्वम् ॥ ४७ ॥

अर्थ : अर्जुन भ्याला आहे असे पाहून व विश्वरूपाचा उपसंहार करून प्रिय वचनानें त्याच्या मनाचे सांत्वन करणारे श्रीकृष्ण म्हणाले - प्रसन्न झालेल्या मी माझ्या योगसामर्थ्यामुळे तुला हे माझें श्रेष्ठ, तेजोमय, समस्त, अमर्याद व अगदीं आरंभींचे विश्वरूप दाखविले. तुजवांचून दुसऱ्या कोणींही ते पाहिले नाहीं. ४७

विवरण :


न वेदयज्ञाध्ययनैर्न दानैः
न च क्रियाभिर्न तपोभिरुग्रैः ।
एवं रूपः शक्य अहं नृलोके
द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ११-४८ ॥

अन्वय :

व्याख्या : मत्कृपां विना अन्यैः साधनैः केनाप्यहं द्रष्टुमशक्य इत्याह । न वेदेति । हे कुरुप्रवीर ! त्वदन्येन त्वत्तः अन्यः त्वदन्यः तेन त्वदन्येन केनचिदपि पुरुषेण नृलोके नृणां मनुष्याणां लोकः नृलोकः तस्मिन् मनुष्यलोके एवंरूपः एवं रूपं यस्य सः एवंरूपः अहं द्रष्टुं अवलोकितुं न शक्यः न समर्थः । एतद्दर्शनं अतिदुर्लभं लब्धा त्वं कृतार्थोसीत्याह । किंच अहं वेदयज्ञाध्ययनैः वेदाध्ययनं विना यज्ञासिद्धेः यज्ञशब्देन कल्पसूत्रादि गृह्यते । वेदाश्च यज्ञाश्च वेदयज्ञाः वेदयज्ञानां अध्ययनानि तैः ब्रह्मयज्ञैः यज्ञानुष्ठानैः द्रष्टुं न शक्यः । चेत्यपरं दानैः सत्पात्रे धनार्पणैः द्रष्टुं न शक्यः । किं च अहं क्रियाभिः अग्निहोत्रादिभिः स्मार्त्तानुष्ठानैः द्रष्टुं न शक्यः । किंच उग्रैः तपोभिः कृच्छ्रचांद्रायणादिरूपैः द्रष्टुं न शक्यः ॥ ४८ ॥

अर्थ : हे अर्जुना, या मनुष्यलोकीं तुजवांचून अन्य कोणीही अशा स्वरूपाच्या मला पहाण्यास वेद व यश यांच्या अध्ययनांनीं समर्थ नाहीं. दाने, कर्मे व उग्र तपश्चर्या यांनींही माझें असलें स्वरूप दिसत नाहीं. [ नुसते अक्षरग्रहण करणे-वेद तोंडपाठ म्हणणें, हे वेदाध्ययन व मीमांसेच्या द्वारा त्याचा अनुष्ठेय अर्थ समजून घेऊन यज्ञाची सर्व इतिकर्तव्यता जाणणे, हें यज्ञाध्ययन आहे. त्यांनीं; तसेंच तुलापुरुषादि दानांनी, अग्निहोत्रादि श्रौतस्मार्त क्रियांनीं व चांद्रायणादि उग्र तपांनींही अशा स्वरूपाचा मी कोणालाही दिसणे शक्य नाही. ] ४८

विवरण :


मा ते व्यथा मा च विमूढभावो
दृष्ट्वा रूपं घोरमीदृङ्‌ममेदम् ।
व्यपेतभीः प्रीतमनाः पुनस्त्वं
तदेव मे रूपमिदं प्रपश्य ॥ ११-४९ ॥

अन्वय :

व्याख्या : एवं दुर्लभमपि मया केवलं कृपया दर्शितं तेन त्वं भीतोसि चेत्तर्हि पूर्वाभ्यस्तमेव रूपं पश्येत्याश्वासयति । मा ते इति । हे पार्थ ! त्वं इदृक् ईदृशं घोरं भयावहं मम तव सख्युः इदं रूपं इदं विश्वरूपं दृष्ट्वा अवलोक्य भीतोसि चेत्तर्हि ते तव व्यथा मानसदुःखं मा भवतु चेत्यपरं ते तव विमूढभावः विमूढश्चासौ भावश्च विमूढभावः अज्ञानकृतमोहः मा भवतु । त्वं व्यपेतभीः सन् व्यपेता विगता भीः भयं यस्य सः व्यपेतभीः निर्भयः सन् चेत्यपरं प्रीतमनाः सन् प्रतिं तुष्टं मनः अंतःकरणं यस्य सः प्रीतमनाः प्रसन्नचित्तः सन् पुनः मे मम तदेव विश्वरूपव्यवहितं पूर्वदृष्टं इदं रूपं किरीटिनं गदिनं चक्रहस्तं प्रपश्य यथेच्छं अवलोकय ॥ ४९ ॥

अर्थ : यास्तव माझें हें अशा प्रकारचे घोर रूप पाहून तुला पीडा न होवो. तसेंच तुझ्या चित्ताचा अत्यंत मूढ भावही न होवो. तुला मोह न होवो. तूं पुनरपि निर्भय व संतुष्टचित्त होऊन तेंच हें माझें रूप पहा. ४९

विवरण :


सञ्जय उवाच -
इत्यर्जुनं वासुदेवस्तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास च भीतमेनं
भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ११-५० ॥

अन्वय :

व्याख्या : ततः किं वृत्तमित्यपेक्षायामाह । इति उक्तप्रकारेण वासुदेवः वसुदेवस्य अपत्यं पुमान् वासुदेवः सत्यत्वेन सर्वेषां आधारप्रकाशकः अर्जुन सखायं प्रति तथा 'तदेव मे रूपं प्रपश्य' इति उक्त्वा स्वकं स्वस्य भक्तस्य कं सुखं भवति यस्मात् तत् स्वकं स्वकीयं रूपं किरीटादियुक्तं चतुर्भुजं भूयः पुनरपि दर्शयामास । किंच वात्सल्यतया पुनरपि महात्मा अनंतरूपः सौम्यवपुः सौम्यं शांतं वपुः शरीरं यस्य सः सौम्यवपुः पूर्वस्वरूपादपि प्रीतिजनकमूर्तिः भूत्वा एनं अर्जुनं विश्वरूपदर्शनेन भीतं भयाविष्टं आश्वासयामास । अभयपाणिना सर्वांगस्पर्शनेन भयं माकार्षीः इति आश्वासनं कृतवान् ॥ ५० ॥

अर्थ : संजय म्हणाला - वासुदेव अर्जुनाला असें वचन बोलून पुनः आपलें स्वकीयरूप दाखविता झाला आणि तो महात्मा पुनरपि सौम्य स्वरूपाचा होऊन व भ्यालेल्या अर्जुनाला धी.र देऊन त्याचें समाधान करता झाला. ५०

विवरण :


अर्जुन उवाच -
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीं अस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ११-५१ ॥

अन्वय :

व्याख्या : ततो भगवतः सौम्यरूपं दृष्ट्वा इदानीं स्वस्थः अस्मि इति उक्तवानित्याह । दृष्ट्वेति । हे जनार्दन ! जनान् भक्तजनान् अर्दयति पीडयति तत् जनार्दं दुःखं नाशयतीति जनार्दनः तत्संबुद्धौ हे जनार्दन ! अहं तव इदं प्रत्यक्षदृष्टं मानुषं मनुष्याणां दर्शनयोग्यं मानुषं सौम्यं प्रियदर्शनं रूपं किरीटादियुतं इदानीं काले दृष्ट्वा अवलोक्य सचेताः चेतसा सहितः सचेताः पूर्वापरानुसंधानयुक्तांतकरणः संवृत्तः जातोस्मि । चेत्यपरं प्रकृतिं स्वास्थ्यं गतोस्मि प्राप्नोस्मि ॥ ५१ ॥

अर्थ : तेव्हां अर्जुन म्हणाला - हे जनाईना, तुझें हें मनुष्याकार सौम्य रूप पाहून मी आतां प्रसन्नचित्त व स्वभावास प्राप्त झालो आहे. [ तुझें हे मनुष्यरूप पाहून मी आतां स्वस्थचित्त झालो आहें मी देहभानावर आलो आहें. ५१

विवरण :


अर्जुनाला दाखविलेले हें विश्वरूप उपासना करण्यास योग्य आहे, असें सुचविण्यासाठी -

श्रीभगवानुवाच -
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम् ।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्‌क्षिणः ॥ ११-५२ ॥

अन्वय :

व्याख्या : भीतं अर्जुनं आश्वासनेन स्वस्थं कृत्वा पुनरपि विश्वरूपदर्शनं अतिदुर्लभमित्यनुवदति । सुदुर्दर्शमिति । हे अर्जुन ! त्वं मम यत् प्रसिद्धं इदं रूपं इदं विश्वरूपं दृष्टवानसि अवलोकितवानसि । अहो ते महद्भाग्यमित्यर्थः । कथंभूतं रूपम् । सुदुर्दर्शं सुतरां दुःखेन कष्टेन दर्शितुमशक्यं सुदुर्दर्शं ब्रह्मादिभिरपि दर्शनायोग्यं देवा अपि अस्य प्रसिद्धस्य रूपस्य विश्वरूपस्य नित्यं दर्शनकांक्षिणः दर्शनं कांक्षन्ति इच्छन्ति ते दर्शनकांक्षिणः संति । अद्यापि दर्शनेच्छावंतः न तु दृष्टवन्तः ॥ ५२ ॥

अर्थ : श्रीकृष्ण म्हणाले - अर्जुना, तूं माझें जें हें रूप पाहिले आहेस, ते दिसणे अतिशयच कठिण आहे. इंद्रादि देव सुद्धा माझ्या या रूपाचे दर्शन व्हावे म्हणून नित्य-सर्वदा आकांक्षा करितात. [ पण त्यांनीं तें अद्यापि पाहिलेले नाहीं व पुढेही पहाणार नाहींत. ] ५२

विवरण :


नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ ११-५३॥

अन्वय :

व्याख्या : भक्तिं विना अन्यैः साधनैः अहं दृग्गोचरो न भवामि इति अनुवदतति द्वाभ्याम् । हे पार्थ ! यथा त्वं मां दृष्टवानसि अवलोकितवानसि तथा अहं वेदैः स्वाध्यायैः एवंविधः त्वद्दृष्टृप्रकारः द्रष्टुं न शक्यः न समर्थः । तथा अहं तपसा कृच्छ्र्चांद्रायणादिना द्रष्टुं न शक्यः । तथा दानेन सत्पात्रधनार्पणेन द्रष्टुं न शक्यः । तथा अहं इज्यया यागादिना द्रष्टुं न शक्यः न समर्थः ॥ ५३ ॥

अर्थ : 'तें रूपदुर्दश कां' म्हणून विचारशील तर सांगतों - तू जसे मला पाहिले आहेस, तशा प्रकारचा मी वेदाने, तपानें, दानाने, यशानें किंवा पूजेनेंही दिसणें शक्य नाहीं. ५३

विवरण :


भक्त्या तु अनन्यया शक्य अहं एवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ ११-५४ ॥

अन्वय :

व्याख्या : भक्त्येति । किं च हे अर्जुन ! अनन्यया न विद्यते अन्यो द्वितीयः यस्यां सा अनन्या तया अनन्यया भक्त्या अव्यभिचारिणा प्रेम्णा एवंविधः एवं विधा प्रकारः यस्य सः एवंविधः त्वदृष्टप्रकारः अहं ज्ञातुं शास्त्रतः ज्ञानेन विषयीकर्तुं चेत्यपरं तत्त्वेन परमार्थतः द्रष्टुं प्रत्यक्षतः अवलोकितुं चेत्यपरं प्रवेष्टुं तादात्म्यं प्राप्तुं शक्यः समर्थः । हे परंतप ! परान् रागादिशत्रुन् तापयतीति परंतपः तत्संबुद्धौ हे परंतप ! त्वं मां भक्त्या द्रष्टुं समर्थोसि इति संबोधनेन सूचितमिति ज्ञेयम् ॥ ५४ ॥

अर्थ : 'तर मग तूं कोणत्याउपायानें दिसणे शक्य आहेस,' म्हणून विचारशील तर सांगतों - अर्जुना, अशाप्रकारचा मी अनन्य भक्तीनेच तत्त्वत: जाणण्यास, पहाण्यास व प्रवेश करण्यास शक्य आहें, कोणालाही अनन्य भक्तीनेच माझें हें विश्वरूप दिसणे शक्य आहे. [ फार काय ! पण या अनन्य भक्तीनेच माझें शास्त्रतः ज्ञान होणें, तत्त्वतः अपरोक्षज्ञान होणें व मोक्ष मिळणेंही शक्य आहे. ] ५४

विवरण :


मत्कर्मकृत् मत्परमो मद्‌भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ ११-५५ ॥
ॐ तत्सदिति श्रीमद्‌भगवद्‌गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः ॥ ११ ॥

अन्वय :

व्याख्या : ननु- अनन्यया भक्त्या ज्ञातुं द्रष्टुं प्रवेष्टुं शक्योहं इति उक्तं भक्तेः अनन्यत्वं कथमित्यपेक्षायां आह । मत्कर्मेति । हे पांडव ! एवंविधः एवंप्रकारकः यः भक्तः अस्ति सः भक्तः मां सर्वोपादानं परमानंदरूपं एति प्राप्नोति । नान्य इति भावः । कथंभूतः यः । मत्कर्मकृत् मदर्थं मत्प्रीतये वैदिकं लौकिकं कर्म करोतीति मत्कर्मकुत् । पुनः कथंभूतः यः । मत्परमः अहमेव परमः उत्कृष्टः पुरुषार्थो यस्य सः मत्परमः । पुनः कथंभूतः यः । मद्भक्तः मामेव सर्वभावेन भजतीति मद्भक्तः । पुनः कथंभूतः यः । संगवर्जितः संगेना मां विना जायापुत्रादिसंगेन वर्जितः रहितः संगवर्जितः । पुनः केषेभूतः यः । सर्वभूतेषु सर्वाणि च तानि भूतानि च सर्वभूतानि तेषु सर्वभूतेषु समविषमेषु निर्वैरः मद्दर्शनेन निर्गतं वैरं यस्मात् सः निर्वैरः । एतादृशः भक्तः मामेव प्राप्नोति इत्यर्थः । मम तद्वियोगो नास्तीति भावः ॥ ५५ ॥
वेदैरपि सुदुर्दर्शं तपोयज्ञादिकोटिभिः ।
भक्ताय भगवानेवं विश्वरूपमदर्शयत् ॥ १ ॥
इति श्रीवालबोधिन्यां श्रीमद्‌भगवद्‌गीटीकायां एकादशोऽध्यायः ॥ ११ ॥

अर्थ : हे अर्जुना, जो माझ्यासाठी कर्मे करणारा, मलाच परमा गति-मरणोत्तर प्राप्त करून घेण्यास योग्य फल समजणारा, मलाच सर्व प्रकारें, सर्व भावाने, सर्व उत्साहाने भजणारा, धन-पुत्रादिकांविषयींच्या आसक्तीने रहित, आपल्याला अतिशय अपकार करण्यास प्रवृत्त झालेल्या सर्व भूतांमध्येही शत्रुत्वभावना न करणारा माझा भक्त तो मला प्राप्त होतो. [ अर्जुना, मीं तुला हा अत्यंत इष्ट असा उपदेश केला आहे. याप्रमाणे तूं अनुष्ठान केलेस, म्हणजे तुला भगवत्‌प्राप्ति अवश्य होईल. या अध्यायांत विश्वरूप, सर्वात्मा, सर्वज्ञ, सर्वेश्वर, अशा भगवानाचे 'मत्कर्मकृत्०' इत्यादि न्यायाने 'क्रममुक्ति' हे फल देणारे ध्यान सांगणाऱ्या भगवंतांनी 'तत्' पदाचा वाच्य अर्थ निश्चित केला आहे. ] ५५
येथें भगवद्‌गीतेचा 'विश्वरूपदर्शनयोग' नावाचा अकरावा अध्याय समाप्त झाला.

विवरण :


॥ हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP