श्रीगर्गसंहिता
अश्वमेधखण्डः - अष्टचत्वारिंशोऽध्यायः
कौरवगणकृतमश्वग्रहणम् -
श्रीगर्ग उवाच -
कृष्णां समुत्तीर्य ततः प्रपश्य-
ञ्जगाम वाजी कुरुपत्तनञ्च ॥
करोति राज्यं नृपचक्रवर्ती
वैचित्रवीर्यो बलवान्हि यत्र ॥१॥
ततो ददर्श तुरगः कौरवाणां पुरं वरम् ॥
तं नानोपवनैर्युक्तं तडागैश्च सरोवरैः ॥२॥
दुर्गेण गंगया युक्तं तथा परिखया नृप ॥
सुवर्णरौप्यसदनैर्महाशूरजनैर्वृतम् ॥३॥
सुयोधनस्य पुराद्विनिर्गतो
हंतुं मृगान्वै वनगोचरान्नृप ॥
ददर्श यज्ञस्य हयं सपत्रकं
रथस्थितो वीरजनैर्विभूषितः ॥४॥
दृष्ट्वा तुरंगमं प्रीतः स्वरथादवतीर्य च ॥
मानी दुर्योधनो राजंस्त्वरं जग्राह लीलया ॥५॥
कर्णभीष्मकृपद्रोणभूरिदुःशासनादिभिः ॥
युक्तस्तद्भालपत्रं च वाचयामास हर्षितः ॥६॥
चंद्रवंशे यदुकुल उग्रसेनो विराजते ॥
इन्द्रादयः सुरगणा यस्यादेशानुवर्तिनः ॥७॥
सहायो यस्य भगवाञ्छ्रीकृष्णो भक्तपालकः ॥
अस्ति वै द्वारकापुर्यां तद्भक्त्या निवसन्हरिः ॥८॥
तद्वाक्याद्धयमेधं स उग्रसेनो नृपेश्वरः ॥
चक्रवर्ती हठाद्यज्ञं स्वयशोऽर्थे करोति हि ॥९॥
मोचितस्तेन तुरगो हयानां प्रवरः शुभः ॥
तद्रक्षकः कृष्णपौत्रोऽनिरुद्धो वृकदैत्यहा ॥१०॥
गजाश्वरथवीराणां सेनासंघसमन्वितः ॥
राजानो ये करिष्यंति राज्यं कौ शूरमानिनः ॥११॥
ते गृह्णंतु यज्ञहयं स्वबलात्पत्रशोभितम् ॥
तं मोचयति धर्मात्मा गृहीतं च हयं नृपैः ॥१२॥
स्वबाहुबलवीर्येणानिरुद्धो लीलया हठात् ॥
तस्यान्यथा च पादयोः पतित्वा यांतु धन्विनः ॥१३॥
गर्ग उवाच -
तत्पत्रं वाचयित्वैवं कौरवास्ते तु शत्रवः ॥
ऊचुः परस्परं क्रुद्धा मानिनो रक्तलोचनाः ॥१४॥
कौरवा ऊचुः
अहो किं लिखितं धृष्टैर्भालपत्रे हयस्य च ॥
न संति किं हि राजानो यादवानां च संमुखे ॥१५॥
राजसूये पुरास्माभिर्यादवा ये विनिर्जिताः ॥
हयमेधं करिष्यंति पुनस्ते गतबुद्धयः ॥१६॥
तस्मात्सर्वान्विजेष्यामो न दास्यामस्तुरंगमम् ॥
पश्चाद्वयं करिष्यामो हयमेधं क्रतूत्तमम् ॥१७॥
क उग्रसेनः कः कृष्णो हयरक्षाकरस्तु कः ॥
यादवैः सहिता ह्येते किं करिष्यंति पौरुषम् ॥१८॥
कृष्णाद्या यादवाः सर्वे विहाय मथुरां पुरीम् ॥
गताः समुद्रं शरणं युद्धं त्यक्त्वा भयाच्च नः ॥१९॥
राज्यं दत्तं पुरा ह्येषामस्माभिश्च कृपान्वितैः ॥
कृतघ्नास्ते च मन्यंते स्वात्मानं चक्रवर्तिनम् ॥२०॥
पांडवानां च सम्मानाद्यादवा न हि मारिताः ॥
निष्कासिताश्च तेऽस्माभिः पांडवाः शत्रवः किल ॥२१॥
यदूनद्य विनिर्जित्य संग्रामे च पलायितान् ॥
दर्शयामश्चाहुकाय सहसा चक्रवर्तिताम् ॥२२॥
एवं श्रीकृष्णविमुखा वाचः सर्वे वदंति हि ॥
तृप्तास्ते कौरवा राजञ्छ्रिया राजविभूतिभिः ॥२३॥
ततश्च जगृहुः सर्वे नानाशस्त्राणि वेगतः ॥
हयं प्रवेशयामासुः पुरे तत्र तु संस्थिताः ॥२४॥
गते च तुरगे दूरं सांबः कृष्णेन नोदितः ॥
त्वरं कृष्णां समुत्तीर्य गंभीरां मार्गदायिनीम् ॥२५॥
अक्षौहिणीभिर्दशभिः पृष्ठतो दंशितो रुषा ॥
हस्तिनापुरमक्रूरयुयुधानादिभिर्ययौ ॥२६॥
एवं ते यादवाः सर्वे हस्तिनापुरसन्निधौ ॥
आयाता हयहर्तॄंश्च कौरवान्ददृशुः स्थितान् ॥२७॥
ऊचुस्ते वीक्ष्य बलिनो लोकद्वयजिगीषवः ॥
तान्सर्वांश्च तृणीकृत्य यादवाः कृष्णदेवताः ॥२८॥
अहो बबंध कश्चाश्वं कस्य हृष्टः कृतांतराट् ॥
प्राप्स्यते कस्तु संग्रामे नाराचैः परमां व्यथाम् ॥२९॥
अहो वै किं न जानंति वृष्णीन्द्रं चक्रवर्तिनम् ॥
उग्रसेनं राजराजं देवदानववंदितम् ॥३०॥
राजसूयस्य कर्त्तारमद्वितीयं नृपेश्वरम् ॥
नृपाः स्वात्मविनाशाय गृह्णंति तुरगं ततः ॥३१॥
हेमांगदश्चेंद्रनीलो बको भीषण एव च ॥
बल्वलश्च नृपाः सर्वे रणेऽस्माभिर्विनिर्जिताः ॥३२॥
इति श्रुत्वा कौरवास्ते क्रोधप्रस्फुरिताधराः ॥
प्रत्यूचुस्तान्हि पश्यंतस्तिरश्चीनैश्च चक्षुभिः ॥३३॥
कौरवानुगा ऊचुः -
गृहीतस्तुरगोऽस्माभिर्यूयं किं नु करिष्यथ ॥
युष्मान्सर्वान्नयिष्यामः सायकैर्यमसादनम् ॥३४॥
उग्रसेनः कतिदिनै राज्यं लब्ध्वा तु कृष्णतः ॥
मानं करोति तं बद्ध्वा राज्यं कुर्मो वयं किल ॥३५॥
अनिरुद्धस्तु कुत्रास्ते ह्यस्माकं च भयाद्गतः ॥
वदतैनं शरैर्युद्धे पूजयामो न संशयः ॥३६॥
गर्ग उवाच -
इति तेषां वचः श्रुत्वा यादवाः क्रोधमूर्च्छिताः ॥
चिक्षिपुः सायकांश्चापैः कौरवाणां मुखेषु च ॥ ३७॥
केचिद्बभूवुर्बाणैश्च छिन्नजिह्वाश्च कौरवाः ॥
भग्नदंताश्छिन्नमुखा वमंतो रुधिरं बहु ॥३८॥
दुर्योधनं छिन्नमुखा निहतास्ते ययुर्द्रुतम् ॥
पृष्टास्ते कथयामासुर्यादवैः प्रकृतं च तत् ॥ ३९॥
इति श्रीगर्गसंहितायां हयमेधखण्डे कौरवैः श्यामकर्णग्रहणं नामाष्टचत्वारिंशोऽध्यायः ॥४८॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|