श्रीगर्गसंहिता

अश्वमेधखण्डः - त्रिंशोऽध्यायः

ऊर्ध्वकेश-नदासुरवधम् -


गर्ग उवाच -
तदोत्थितश्चोर्ध्वकेशो रथं चान्यं समाश्रितः ॥
अनिरुद्धस्य संग्रामे यावदायाति संमुखम् ॥१॥
तावद्बभञ्ज निशितैर्नाराचैस्तद्रथं पुनः ॥
स भग्नं स्यंदनं दृष्ट्वा पुनरन्यं समाश्रितः ॥२॥
सोऽपि भग्नः शरैराशु कार्ष्णिजेन रणे नृप ॥
एवं नव रथा भग्ना ऊर्ध्वकेशस्य वै रणे ॥३॥
ततः क्रुद्धो रणे दैत्यः शक्तिं चिक्षेप सत्वरम् ॥
दृष्ट्वा तामागतां वीरो नाराचैर्दशधाच्छिनत् ॥४॥
ऊर्ध्वकेशस्तदा संख्ये स्थित्वा रुक्ममये रथे ॥
आजगाम स वेगेनानिरुद्धं प्रतियोधितुम् ॥५॥
कार्ष्णिजं पंचभिर्बाणैस्ताडयामास हर्षितः ॥
शरैस्तैर्निहतः सोऽपि कश्मलं परमं गतः ॥६॥
संक्रुद्धो धनुरुद्यम्य चित्रवाजाञ्छरान्दश ॥
मुमोच हृदये तस्य सहसा हस्तलाघवात् ॥७॥
शरास्ते पपुरेतस्य रुधिरं बहुदारुणाः ॥
पीत्वा पेतुर्यथा भूमौ कूटसाक्ष्यस्य पूर्वजाः ॥८॥
ऊर्ध्वकेशः पुनः क्रुद्धः तिष्ठ तिष्ठेति च ब्रुवन् ॥
बाणैस्तु दशसंख्यैश्च तताड तस्य मूर्धनि ॥९॥
सायकास्तेऽनिरुद्धस्य ह्युष्णीषे परिनिष्ठिताः ॥
विराजन्ते स्म राजेन्द्र दशशाखास्तरोरिव ॥१०॥
न विव्यथे स तैर्बाणैर्युद्धे रुक्मवतीसुतः ॥
यथा पुष्पैश्च प्रहतो द्विरदो नृपसत्तम ॥११॥
बाणाञ्छतं स्वधनुषि निधायाकृष्य माधवः ॥
चित्रवाजान्स्वर्णपुंखान्मुमोच बहुरोषतः ॥१२॥
ते बाणास्तस्य सर्वांगं भित्त्वा शीघ्रमधोगतः ॥
रुधिराक्ता यथा राजन्कृष्णभक्तिपराङ्मुखाः ॥१३॥
शरसंघैश्च स हतो पंचतां प्रधने गतः ॥
हाहाकारश्च तत्सैन्ये बभूव नृपसत्तम ॥१४॥
तदा जयजयारावो यादवानां बभूव ह ॥
अनिरुद्धोपरि सुराः पुष्पवर्षां प्रचक्रिरे ॥१५॥
ऊर्ध्वकेशस्तु प्रधनाद्दिव्यदेहेन यादव ॥
ययौ विमानमारुह्य स्वर्गं सुकृतिनां पदम् ॥१६॥
भ्रातारं निहतं दृष्ट्वा नदः शोकेन पूरितः ॥
कुञ्जरस्थो गदं बाणैः कुञ्जरस्थं जघान ह ॥१७॥
आगतान्सायकान्दृष्ट्वा धनुर्धारी गदो महान् ॥
तान्प्रचिच्छेद बाणेनानिरुद्धस्य प्रपश्यतः ॥१८॥
नदस्तदैव संक्रुद्धो भ्रातृशोकपरिप्लुतः ॥
अकरोद्विगजं बाणैः संग्रामे रोहिणीसुतम् ॥१९॥
गजस्तु शतबाणैश्च भिन्नांगः पंचतां गतः ॥
निपपात गदो भूमौ तदद्‌भुतमिवाभवत् ॥२०॥
ततः क्रुद्धो गदां नीत्वा हंतुं शत्रुं रणे गदः ॥
आजगाम ज्वलच्छीघ्रं सिंहः सिहं वने यथा ॥२१॥
आगतं तं गृहीत्वा तु शुण्डादंडेन तद्‌गजः ॥
चिक्षेप स गदं राजन्नाकाशे शतयोजनम् ॥२२॥
पतितः खात्समुत्थाय शुण्डदंडं प्रगृह्य सः ॥
पातयामास भूपृष्ठे भ्रामयित्वा गजं गदः ॥२३॥
गजो मृत्युं गतो युद्धे विस्मितोऽभून्महासुरः ॥
जग्राह स्वगदां गुर्वीं श्लाघां कृत्वा गदस्य च ॥२४॥
शीघ्रं तमाह्वयामास गदं वीरं गदाधरम् ॥
तथा सोऽपि नदं दैत्यं संग्रामार्थे विशां पते ॥२५॥
नदः प्रत्याह वचनं त्वं मनुष्योऽसि यादव ॥
तस्माल्लज्जां करिष्यामि कथं युद्धं करिष्यसि ॥२६॥
पूर्वं प्रहारं कुरु मे पश्चात्त्वं तु न जीवसि ॥
इति श्रुत्वा गदः प्राह यथा वृत्रं पुरंदरः ॥२७॥
गद उवाच -
न किंचित्ते प्रकुर्वंति ये वदन्ति मुखैन वै ॥
न वदंति रणे शूरा दर्शयंति पराक्रमम् ॥२८॥
इति श्रुत्वा नदः क्रुद्धो गदस्य हृदये नदन् ॥
ताडयामास राजेन्द्र गरिष्ठां महतीं गदाम् ॥२९॥
गदया ताडितो वीरो न चचाल मृधे गदः ॥
मदोन्मत्तो यथा हस्ती बालेन मालया हतः ॥३०॥
कथयामास वीराग्र्यो दानवं वीक्ष्य लज्जितम् ॥
सहस्वैकं प्रहारं मे यदि वीरः परंतप ॥३१॥
इत्युक्त्वा निजघानाथ ललाटे गदया भृशम् ॥
स चापि तं रुषा स्कंधे ताडयामास धर्मवित् ॥३२॥
एवं भृशं प्रकुर्वंतौ गदायुद्धविशारदौ ॥
गदायुद्धं प्रकुर्वाणौ परस्परवधैषिणौ ॥३३॥
अन्योन्यघातविमतौ क्रोधयुक्तौ जयोद्यतौ ॥
न कौ वै तत्र जीयते न प्रहीयते कोऽपि तु ॥३४॥
भाले स्कंधे तथा मूर्ध्नि हृदि गात्रेषु सर्वतः ॥
रुधिरौघप्लुतौ क्लिन्नौ किंशुकाविव पुष्पितौ ॥३५॥
तयोरासीन्महायुद्धं गदाभ्यामेव संयुगे ॥
विस्फुलिंगान्क्षरंत्यौ द्वे गदे चूर्णीबभूवतुः ॥३६॥
तयोर्युद्धमभूद्धोरं बाहुभ्यां गददैत्ययोः ॥
तदा रामानुजः क्रुद्धो भुजाभ्यामुपगृह्य तम् ॥३७॥
पातयामास भूपृष्ठे महिषं हरिराड्यथा ॥
तदा दैत्यस्तु तस्यापि हृदि जघ्ने प्रमुष्टिना ॥३८॥
तदा सोऽपि शिरस्येकं मुष्टिं बद्ध्वा जघान ह ॥
मुष्टिभिर्जानुभिः पादैस्तालस्फोटैश्च बाहुभिः ॥३९॥
परस्परं जघ्नतुस्तौ संदष्टाधरपल्लवौ ॥
ततः क्रुद्धो रणे दैत्यो गदस्य चरणं बलात् ॥४०॥
गृहीत्वा भ्रामयित्वा च पातयामास भूतले ॥
तदा गदः समुत्थाय गृहीत्वा चरणं रिपोः ॥४१॥
भ्रामयित्वा गजोपस्थे निजघान रुषा ज्वलन् ॥
पुनर्दैत्यं समुत्थाय गृहीत्वा रोहिणीसुतम् ॥४२॥
चिक्षेप चौजसा राजन्गगने शतयोजनम् ॥
पतितोऽपि स वज्रांगः किंचिद्व्याकुलमानसः ॥४३॥
चिक्षेप गगने दैत्यं योजनानां सहस्रकम् ॥
पतिऽतोपि समुत्थाय पुनर्युद्धं चकार सः ॥४४॥
गदो नदं नदो गदं निजघ्नतुः परस्परम् ॥
प्रमुष्टिभिश्च दारुणैर्महद्‌रणे नृपेश्वर ॥४५॥
दंडादंडि मुष्टामुष्टि केशाकेशि नखानखि ॥
दंतादंत्युभयोर्युद्धं घोरमेव बभूव ह ॥४६॥
इत्थं नियुद्धमानौ तौ प्रकुर्वंतौ रणं पुनः ॥
पादे पादं हृदि हृदं करे करं मुखे मुखम् ४७॥
अन्योन्यमित्थं संलग्नौ परस्परवधैषिणौ ॥
बलाक्रांतावुभौ तौ द्वौ पतितौ च मुमूर्च्छतुः ॥४८॥
इत्थं दृष्ट्वा तयोर्युद्धं यादवाश्चैव दानवाः ॥
गदो धन्यो नदो धन्यः प्रोचुर्वाक्यमिदं नृप ॥४९॥
गदं निपतितं दृष्ट्वाऽनिरुद्धः शोकपूरितः ॥
चैतन्यं कारयामास जलेन व्यजनेन च ॥५०॥
तदैव सोऽपि राजेन्द्र उत्थितः क्षणमात्रतः ॥
क्व नदः क्व नदो यातो त्यक्त्वा युद्धं भयान्मम ॥५१॥
निरीक्ष्य दानवं तत्र मूर्छितं पंचतां गतम् ॥
चक्रुर्जयजयारावं यादवाश्चैव देवताः ॥५२॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
ऊर्ध्वकेशनददैत्यवधो नाम त्रिंशोऽध्यायः ॥३०॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP