श्रीगर्गसंहिता

अश्वमेधखण्डः - एकोनत्रिशोऽध्यायः

यादवानां असुरगणैः सह युद्धम् -


श्रीगर्ग उवाच -
अथ युद्धाय राजेंद्र चत्वारः किल मंत्रिणः ॥
दैत्यकोटिसमायुक्ता निर्जग्मुर्दंशिताः पुरात् ॥१॥
सर्वे हि धन्विनः शूरा विद्याधरसमाः किल ॥
खड्गै: शूलैर्गदाभिश्च परिघैर्मुद्‌गरैर्नृप ॥२॥
एकघ्नीभिर्दशध्नीभिः शतघ्नीभिर्भुशुण्डिभिः ॥
कुंतैश्च भिंदिपालैश्च चक्रसायकशक्तिभिः ॥३॥
संयुताः सर्वशस्त्रैश्च लौहकंचुकमंडिताः ॥
रथैर्गजैस्तुरंगैश्च गवयैर्महिषैर्मृगैः ॥४॥
उष्ट्रैः खरैः सूकरैश्च वृकैः सिंहैश्च क्रोष्टुभिः ॥
महागृध्रैः शंखचिल्लैर्मकरैश्च तिमिंगिलैः ॥५॥
एतैश्च वाहनै राजन्संयुक्ता रणकर्कशाः ॥
शंखदुंदुभिनादेन वीराणां गर्जनेन च ॥६॥
शतघ्नीनां च शब्देन चचाल वसुधा भृशम् ॥
इत्थं भयंकरीं सेनामसुराणां विलोक्य च ॥७॥
भयं प्रापुः सुराः सर्वे महेन्द्रधनदादयः ॥
यादवास्तेऽपि बलिनो निर्जिता यैश्च भूः पुरा ॥८॥
विषण्णमनसोऽभूवन्दैत्यसेनां निरीक्ष्य च ॥
प्रद्युम्नेन राजसूये चंद्रावत्यां पुरा नृप ॥९॥
यादवेभ्यः प्रकथितं यन्नीतिर्धैर्यवर्द्धनम् ॥
तत्सर्वं कथयामास यदुभ्यः कार्ष्णिजः पुनः ॥१०॥
गर्ग उवाच -
इति श्रुत्वा च यदवः शस्त्राणि जगृहुस्त्वरम् ॥
मृत्युं वरं मन्यमाना विजयाच्च पलायनात् ॥११॥
ततः समभवद्युद्धं दैत्यानां यदुभिः सह ॥
पांचजन्ये च लंकायां रक्षसां कपिभिर्यथा ॥१२॥
रथिनो रथिभिस्तत्र पत्तिभिः पत्तयो मृधे ॥
हया हयैरिभाश्चेभैर्युयुधुस्ते परस्परम् ॥१३॥
केचिद्वै दंतिनो मत्ताः शुण्डादण्डैरितस्ततः ॥
जघ्नू रथांस्तुरंगांश्च वीरान्‌राजन्महामृधे ॥१४॥
शुण्डादण्डैः संगृहीत्वा रथान्साश्वान्ससारथीन् ॥
निपात्य भूमावुत्थाप्य गगने चिक्षिपुर्बलात् ॥१५॥
कांश्चिन्ममर्दुः पादाभ्यां संविदार्य करैर्दृढैः ॥
साक्षताश्च गजा राजन्प्रधावंतो रणांगणात् ॥१६॥
तुरगास्तत्र धावंतः सवीरास्ते नृपेश्वर ॥
उल्लंघयंतश्च रथान्प्रोत्पतंतो गजान्प्रति ॥१७॥
अंबष्ठं गजिनं युद्धे मर्द्दयंतश्च सिंहवत् ॥
उत्पतंतश्च तुरगा गजवृंदं महाबलाः ॥१८॥
असिप्रहारं कुर्वंतो विदार्य च रिपून्बहून् ॥
वाजिपृष्ठे न दृश्यंते ते दृश्यंते नटा इव ॥१९॥
केचिद्वीरास्तु खड्गैश्च द्विधाकुर्वंस्तुरंगमान् ॥
केचिद्दंतान्संगृहीत्वा कुम्भेषु करिणां गताः ॥२०॥
तुरगस्थाः केऽपि बलं संविदार्य विनिर्गताः ॥
खड्गवेगैः कंजवनं लीलाभिर्वायवो यथा ॥२१॥
बभूव तुमुलं युद्धमद्‌भुतं रोमहर्षणम् ॥
बाणैर्गदाभिः परिघैः खड्गैः शूलैश्च शक्तिभिः ॥२२॥
युद्धे गजाश्च गर्जंति हर्षंति तुरगा भृशम् ॥
हाहा वीराः प्रकुर्वंति नदंति रथनेमयः ॥२३॥
सैन्यपादरजोवृन्दैरंधीभूतं नभोऽभवत् ॥
तत्र स्वीयो न पारक्यो दृश्यते च मृधांगणे ॥२४॥
परस्परं च बाणौघैः केचिद्वीरा द्विधा कृताः ॥
तिर्यग्भूता रथा युद्धे निपेतुः पादपा इव ॥
वीरोपरि गता वीरा हयोपरि हयाश्च वै ॥२५॥
उत्पेतुस्तत्र शूराणां कबंधाश्च भयंकराः ॥
पातयंतो खड्गहस्ता हयान् वीरान्महारणे ॥२६॥
हस्तिनां भिन्नकुंभानां मौक्तिका निपतन्ति खात् ॥
शस्त्रांधकारे प्रधने रात्रौ तारागणा इव ॥२७॥
ततश्च सेनयोर्मध्ये रुधिराणां नदी ह्यभूत् ॥
वेतालाः शिवमालार्थं जगृहुस्ते शिरांसि च ॥२८॥
मृगेंद्रस्था महाकाली डाकिनीभिः समागता ॥
कपालेनापि रुधिरं पिबंती दृश्यते मृधे ॥२९॥
डाकिन्यो रुधिरं तप्तं पाययंत्यः सुतान्मृधे ॥
मारोदीरिति वादिन्यो नेत्राण्यपि तदा मृजन् ॥३०॥
विद्याधर्यस्त्वंबरस्था गंधर्व्योऽप्सरसस्तथा ॥
क्षत्रधर्मस्थिताञ्छूरान्वव्रिरे देवरूपिणः ॥३१॥
परस्परं कलिरभूत्तासां पत्यर्थमंबरे ॥
ममानुरूपो नायं व इति विह्वलचेतसाम् ॥३२॥
केऽपि शूरा धर्मपरा रणाद्‍राजन्न चालिताः ॥
जग्मुस्ते वैष्णवं लोकं भित्वा तपनमंडलम् ॥३३॥
केचिद्वीरा महायुद्धं दृष्ट्वा युद्धात्पलायिताः ॥
तप्तबालुकमार्गेण जग्मुस्ते निरयं नृप ॥३४॥
एवं दैत्यान्महावीराञ्जघ्नुः सर्वे यदुत्तमाः ॥
तथा यदून्महायुद्धे नानाशस्त्रैश्च दानवाः ॥ ३५॥
रणे मृत्युं गताः सर्वे राजन्दैत्याश्च कोटिशः ॥
तथा मृत्युं गता युद्धे यादवाश्च सहस्रशः ॥३६॥
बाणांधकारे संजातेऽनिरुद्धो धन्विनां वरः ॥
ऊर्ध्वकेशेन युयुधे यथा वृत्रेण वासवः ॥३७॥
नंदेन च गदो राजन्सिंहेन वृक एव च ॥
कुशांबेन च सांबो वै युयुधे रणमण्डले ॥३८॥
एवं परस्परं युद्धं बभूव तुमुलं महत् ॥
ऊर्ध्वकेशस्तदा राजन्धनुष्टंकारयन्मुहुः ॥३९॥
कार्ष्णिजं ताडयामास नाराचैर्दशभिर्मृधे ॥
तान्प्रचिच्छेद भगवान्धन्वी रुक्मावतीसुतः ॥४०॥
ऊर्ध्वकेशः पुनस्तस्य कवचे सायकान्दश ॥
निचखान स्वर्णपुंखान्भित्वा वर्म तनौ गतान् ॥४१॥
चतुर्भिश्च शरैस्तस्य जघान चतुरो हयान् ॥
चिच्छेद बाणैर्विंशद्‌भिः कोदंडं सगुणं परम् ॥४२॥
अनिरुद्धस्य राजेंद्र बल्वलस्यानुगो बली ॥
अनिरुद्धस्तु तं त्यक्त्वा रथं चान्यं समारुहत् ॥४३॥
शक्रदत्तं नृपश्रेष्ठ प्रतिशार्ङ्गधरो महान् ॥
कृष्णदत्ते च कोदंडे शरमेकं निधाय च ॥४४॥
तद्‌रथे निचखानाथ रुषाढ्यो हस्तलाघवात् ॥
सायकस्तद्‌रथं नीत्वा भ्रामयित्वा घटीद्वयम् ॥४५॥
गगनात्पातयामास काचपात्रं यथार्भकः ॥
अंगारवद्‌रथस्तस्य विशीर्णोऽभूद्धयाश्च वै ॥४६॥
ससूताश्च नृपश्रेष्ठ पंचतां प्रापुरग्रतः ॥
ऊर्ध्वकेशस्तु पतनान्मूर्च्छितोऽभूद्रणांगणे ॥४७॥

इति श्रीगर्गसंहितायां हयमेधखण्डे
यादवासुरसंग्रामवर्णनं नामैकोनत्रिंशोऽध्यायः ॥२९॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


GO TOP