श्रीगर्गसंहिता
अश्वमेधखण्डः - द्वाविंशोऽध्यायः
यादवसैन्यस्य अवन्तिकागमनम् -
गर्ग उवाच -
यदुप्रवीरस्य तुरंगमो वै
विलोकयन् राजपुरं जगाम ॥
निरिक्ष्य मार्गे सफरां नदीं च
ह्यवंतिकाया विपिने स्थितोऽभूत् ॥१॥
तदैव तत्रागतवान्महात्मा
सान्दीपनिः कृष्णगुरुर्द्विजेन्द्रः ॥
स्नातुं गृहाच्छ्रीतुलसीस्रजाढ्यः
सधौतवस्त्रः प्रजपन्हि कृष्णम् ॥२॥
ददर्श तत्रापि जलं पिबंतं
तुरंगमं वै धवलं सपत्रम् ॥
वाक्यं ब्रुवन्नेष क्रतोश्च वाजी
विमोचितः केन नृपेश्वरेण ॥३॥
तत्र स्नानं प्रकुर्वंतं दृष्ट्वा बिंन्दु नृपात्मजम् ॥
हयस्यार्थे मुनिर्गत्वा नोदयामास तं नृप ॥४॥
ततः सवीरैर्बहुभिश्च राजन्
राजाधिदेवीतनयश्च शूरः ॥
जग्राह वाहं सहसा निरीक्ष्य
नत्वा गुरुं तद्वचसा प्रसन्नः ॥५॥
हयं गृहीत्वा गुरवे दर्शयामास हर्षितः ॥
स पत्रं वाचयित्वाऽऽह नृपं सांदीपनिर्मुदा ॥६॥
सांदीपनिरुवाच -
उग्रसेनस्य तुरगं विद्धि प्राद्युम्निपालितम् ॥
यदृच्छयाऽऽगतं राजन्कार्ष्णिजोऽत्रागमिष्यति ॥७॥
आगमिष्यंति बहवो यादवा युद्धशालिनः ॥
मित्रविंदात्मजाश्चैव पश्यंतस्ते तुरंगमम् ॥८॥
पूजनीयास्त्वया सर्वे कृष्णचन्द्रस्य नन्दनाः ॥
मद्वाक्याद्युद्धबुद्धिं त्वं त्यक्त्वा देहि तुरंगमम् ॥९॥
इति श्रुत्वा गुरोर्वाक्यं धन्वी शूरो नृपात्मजः ॥
हयं नेतुं मनो यस्य तत्र तूष्णीं बभूव ह ॥१०॥
तदैव यदुसेनायाः शब्दोऽभूल्लोकमानहा ॥
महानादं दुंदुभीनां टंकारं धनुषां तथा ॥११॥
चीत्कारं दंतिनां चैव हयानां हेषणं तथा ॥
झणत्कारं रथानां च वीराणां गर्जनं तथा ॥१२॥
शतघ्नीनां महाशब्दं लोकानां भयदायकम् ॥
श्रुत्वा राजकुमारस्तु विस्मयं परमं गतः ॥१३॥
ततः समागताः सर्वै रथिभिश्च गजैर्हयैः ॥
भोजवृष्ण्यंधकमधुशूरसेनदशार्हकाः ॥१४॥
रजोभिश्च नभो व्याप्तं कुर्वतश्चलितां महीम् ॥
केन नीतः कुत्र गतो हयः सर्वेऽब्रुवन्वचः ॥१५॥
ततश्च ददृशुः सर्वे घोटकं बद्धचामरम् ॥
महाद्भुते चोपवने पुष्पितद्रुमसंकुले ॥१६॥
गृहीतं लीलया तत्र नृपपुत्रेण बिंदुना ॥
दृष्ट्वानिरुद्धं निकटे गत्वा सर्वे ह्यवर्णयन् ॥१७॥
इति श्रुत्वाऽनिरुद्धस्तु विस्मितः प्रहसन्नृप ॥
उद्धवं प्रेषयामास बिन्दोः पार्श्वे च धर्मवित् ॥१८॥
ततः पुर्यां महाराज चासीत्कोलाहलो महान् ॥
भयभीता जनाः सर्वे सेनां वीक्ष्य भयंकराम् ॥१९॥
अथ वै भ्रातरं द्र्ष्टुं ह्यनुबिंदुर्भयान्वितः ॥
कोटिवीरगणैः सार्द्धं स्वपुर्या निर्ययौ बहिः ॥२०॥
दृष्ट्वा यज्ञहयं तत्र सपत्रं च पयःप्रभम् ॥
भ्रात्रा गृहीतं च भयान्निषेधं स चकार ह ॥२१॥
अनुबिंदुरुवाच -
यदूनां कृष्णदेवानां भ्रातर्मोचय घोटकम् ॥
सम्बन्धस्य मिषेणापि कुलकौशलहेतवे ॥२२॥
यादवानां बलं पश्य देवदैत्यनरासुराः ॥
पुरा यज्ञे राजसूये सर्वे भ्रातर्न्विनिर्जिताः ॥२३॥
इति तद्वाक्यमाकर्ण्य बिन्दुर्ज्येष्ठोऽवधर्षितः ॥
आगतं ह्युद्धवं दृष्ट्वा हयस्थं प्रत्युवाच ह ॥२४॥
बिंदुरुवाच -
मया गृहीतस्तुरगो मित्राणां मिलनाय च ॥
तस्मान्निमंत्रिताः सर्वे स्थितिं कुरुत चात्र वै ॥२५॥
इति श्रुत्वोद्धवो राजन्बिंदुं संश्लाघ्य हर्षितः ॥
अनिरुद्धस्य निकटे गत्वा सर्वमुवाच ह ॥२६॥
श्रुत्वानिरुद्धस्तद्वाक्यं भूत्वा राजन् प्रसन्नधीः ॥
सेनयावंतिकायां च नदीतीरेऽवसत्किल ॥२७॥
अनेके शिबिरा राजंस्तत्र वै दशयोजने ॥
नानावर्णाः सकलशा ह्यभूवन्नद्भुताः शुभाः ॥२८॥
भक्ष्यं भोज्यं च लेह्यं च चोष्यमेतैश्च भोजनैः ॥
आगतेभ्यश्च सर्वेभ्यो बिंदुरर्हणमाहरत् ॥२९॥
तथा चैव तृणान्नादीन्पशुभ्यो दत्तवान्नृपः ॥
ईदृग्विधं च सत्कारं वृष्णीनां स चकार ह ॥३०॥
नृपो राजाधिदेवी च द्वौ तथा नृपनंदनौ ॥
भृशं मुमुदिरे सर्वे वीक्ष्य सर्वान्हरेः सुतान् ॥३१॥
ततो निशायां किल कार्ष्णिपुत्रो
विद्यागुरं च स्वपितामहस्य ॥
आहूय नत्वाऽऽसनमेव दत्त्वा
प्रत्याह कृत्वा वरपूजनं च ॥३२॥
भगवन्द्वारकायां च कृष्णवाक्यात्क्रतूत्तमम् ॥
करोति हयमेधाख्यं चक्रवर्ती यदूत्तमः ॥३३॥
तस्मिन्क्रतुवरे ब्रह्मन्कृपां कृत्वा ममोपरि ॥
त्वं तु गच्छ मुनिश्रेष्ठ पुत्रेण च समन्वितः ॥३४॥
अनिरुद्धस्य वचनं श्रुत्वा सांदीपनिर्मुनिः ॥
कृष्णदर्शनकांक्षी च चलितुं स मनो दधे ॥३५॥
इति श्रीगर्गसंहितायां हयमेधखण्डे अवंतिकागमनं नाम द्वाविंशोऽध्यायः ॥२२॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|