श्रीगर्गसंहिता
अश्वमेधखण्डः - त्रयोविंशोऽध्यायः
सान्दीपनिकृतमनिरुद्धसमीपे वैराग्यवर्णनम् -
गर्ग उवाच -
अथ सांदीपनिं तत्र कृष्णपौत्रोऽब्रवीद्वचः ॥
स्मृत्वा तु किंचित्संदेहं गुरुं वृद्धश्रवा इव ॥१॥
अनिरुद्ध उवाच -
भगवन्ब्रूहि मे सारं येनानंदे रमाम्यहम् ॥
विहाय चास्य जगतः सुखान्स्वप्नोपमान्मुने ॥२॥
इतीरितोऽनिरुद्धेन राजन्सांदीपनिर्मुनिः ॥
प्रत्याह प्रहसन्प्रीत्या कुमारः पृथुना यथा ॥३॥
सांदीपनिरुवाच
आदिदेवस्त्वमेवासीच्छ्रीहरेर्नाभिपंकजात् ॥
तस्मात्तवाग्रे लोकेश कथयिष्यामि किं त्वहम् ॥४॥
तथापि वर्णयिष्यामि राजंस्त्वद्वाक्यगौरवात् ॥
कल्याणार्थं नराणां च सर्वेषां दीनचेतसाम् ॥५॥
त्वया दृष्टं च यद्राजँस्तच्छृणुष्व मुखान्मम ॥
कृष्णचंद्रस्य पदयोः सारमस्ति हि सेवनम् ॥६॥
ययोः पूजनमात्रेण ध्रुवो ध्रुवपदं ययौ ॥
प्रह्लादश्चांबरीषश्च गयश्चैव यदुस्तथा ॥७॥
तस्मात्त्वमपि राजेंन्द्र श्रीकृष्णस्य च सेवनम् ॥
सर्वेषां साररूपं यन्मनसा कुरु यत्नतः ॥८॥
यूयं लोके भूरिभागाः श्रीकृष्णस्य च वंशजाः ॥
ज्ञातिसंबंधिनश्चैव जीवन्मुक्ता हरिप्रियाः ॥९॥
केचिज्जानंति श्रीकृष्णं तनयं केऽपि भ्रातरम् ॥
पितरं केऽपि मित्रं च किं कर्तव्यं परं च तैः ॥१०॥
अनिरुद्ध उवाच -
कः कर्ता चास्य जगत आदिरूपः सनातन: ॥
यस्मादासीत्पूर्वमिदं तन्मे वर्णय विस्तरात् ॥११॥
केन केनापि रूपेण भगवाञ्जगदीश्वरः ॥
युगे युगे मुने धर्मं करोतीति वदस्व नः ॥१२॥
सांदीपनिरुवाच
उत्त्पतिश्च निरोधश्च यस्मादासीद्यदूद्वह ॥
स ईश्वरः परब्रह्म भगवानेक एव च ॥१३॥
युगे युगे भवंत्येते दक्षाद्या नृपसत्तम ॥
पुनश्चैव निरुद्ध्यंते विद्वाँस्तत्र न मुह्यति ॥१४॥
राजन्कृष्णः परं ब्रह्म यतः सर्वमिदं जगत् ॥
जगच्चयो यत्र चेदं यस्मिँश्च लयमेष्यति ॥१५॥
तद्ब्रह्म परमं धाम सदसत्परमं पदम् ॥
यस्य सर्वमभेदेन जगदेतच्चराचरम् ॥१६॥
स एव मूलप्रकृतिर्व्यक्तरूपी जगच्च सः ॥
तस्मिन्नेव लयं सर्वं याति तत्रैव तिष्ठति ॥१७॥
यतः प्रधानपुरुषौ यतश्चैतच्चराचरम् ॥
कारणं सकलस्यास्य स मे कृष्णः प्रसीदतु ॥१८॥
चतुर्युगेऽप्यसौ विष्णुः स्थितिव्यापारलक्षणः ॥
युगव्यवस्थां कुरुते यथा राजेन्द्र तच्छृणु ॥१९॥
कृते युगे परं ज्ञानं कपिलादिस्वरूपधृक् ॥
ददाति सर्वभूतात्मा सर्वभूतहिते रतः ॥२०॥
चक्रवर्तिस्वरूपेण त्रेतायामपि स प्रभुः ॥
दुष्टानां निग्रहं कुर्वन्परिपाति जगत्त्रयम् ॥२१॥
वेदमेकं चतुर्भेदं कृत्वा स शतधा विभुः ॥
करोति बहुलं भूयो वेदव्यासस्वरूपधृक् ॥२२॥
वेदांश्च द्वापरे न्यस्य कलेरंते पुनर्हरिः ॥
कल्किस्वरूपी दुर्वृत्तान्मार्गे स्थापयति प्रभुः ॥२३॥
एवं कृष्णो जगत्सर्वं जगत्पाति करोति च ॥
हंति चांतेष्वनंतात्मा नान्यस्माद्व्यतिरेकतः ॥२४॥
नमोऽस्तु हरये तस्मै यस्माद्भिन्नमिदं जगत् ॥
ध्येयः स जगतामाद्यः स प्रसीदतु मेऽव्ययः ॥२५॥
तस्मान्नृपेंद्र हरिपौत्र मनोमयं च
सर्वं विहाय जगतश्च सुखं च दुःखम् ॥
मोक्षप्रदं सुरवरं किल सर्वदं त्वं
द्वारावतीनरपतिं भज कृष्णचंद्रम् ॥२६॥
इति कृष्णस्य हरेश्च वृत्तसारं
कथयति याश्च शृणोति भक्तियुक्तः ॥
स विमलमतिरेति नात्ममोहं
भवति च संस्मरणेषु भक्तियोग्यः ॥२७॥
इति श्रीगर्गसंहितायां हयमेधखण्डे वैराग्यकथनं नाम त्रयोविंशोऽध्यायः ॥२३॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|