श्रीगर्ग संहिता - विश्वजित्खण्डः - चतुश्चत्वारिंशोऽध्यायः

श्रीगर्गसंहिता

विश्वजित्खण्डः - चतुश्चत्वारिंशोऽध्यायः

वेदादिकृत कृष्णस्तुतिः -


बहुलाश्व उवाच -
रागिणीनां च नामानि वद देवऋषे मम ॥
तथा वै रागपुत्राणां त्वं परावरवित्तमः ॥१॥
श्रीनारद उवाच -
कालेन देशभेदेन क्रियया स्वरमिश्रया ॥
भेदा बुधैः षट्‍पञ्चाशत्कोट्यो गीतस्य कीर्तिताः ॥२॥
अंतर्भेदा अनंताहि तेषां सन्ति नृपेश्वर ॥
विद्ध्येनं रागमानन्दं शब्दब्रह्ममयं हरिम् ॥३॥
तस्मान्मुख्याश्च भेदाः कौ वदिष्यामि तवाग्रतः ॥
भैरवी पिंगला शंकी लीलावत्यगरी तथा ॥४॥
भैरवस्यापि रागस्य रागिण्यः पञ्च कीर्तिताः ॥
महर्षिश्च समृद्धश्च पिंगलो मागधस्तथा ॥५॥
बिलावलश्च वैशाखो ललितः पञ्चमस्तथा ॥
भैरवस्याष्ट पुत्रा ये गीयंते च पृथक् पृथक् ॥६॥
चित्रा जयजयावंती विचित्रा कथिता पुनः ॥
वृजल्लार्ष्यंधकाकारी रागिण्योऽपि मनोहराः ॥७॥
मेघमल्लाररागस्य कथिता पञ्च मैथिल ॥
श्यामकारः सोरठश्च नटो डायन एव च ॥८॥
केदारो व्रजरंहस्यो जलधारस्तथैव च ॥
विहागश्चेत्यष्ट पुत्रा कथिताः पूर्वसूरिभिः ॥९॥
कंचुकी मंजरी टोडी गुर्जरी शाबरी तथा ॥१०॥
दीपकस्यापि रागस्य रागिण्यः पंच विश्रुताः ॥
कल्याणः शुभकामश्च गौडकल्याण एव च ॥११॥
कामरूपः कान्हरेति रामसंजीवनस्तथा ॥
सुखनामा मन्दहासः पुत्राश्चाष्टौ विदेहराट् ॥१२॥
रागस्य दीपकस्यापि कथिता रागपण्डितैः ॥
गांधारी वेदगांधारी धनाश्री स्वर्मणिस्तथा ॥१३॥
गुणागरीति रागिण्यः पञ्चैता मैथिलेश्वर ॥
मालकोशस्य रागस्य कथिता रागमण्डले ॥१४॥
मेघश्चमचलो मारुमाचारः कौशिकस्तथा ॥
चन्द्रहारो घुंघुटश्च विहारो नन्द एव च ॥॥१५॥
मालकोशस्य रागस्य चाष्टपुत्राः प्रकीर्तिताः ॥
वैराटि चैव कर्णाटी गौरी गौरावटी तथा ॥१६॥
चतुश्चन्द्रकला चैव रागिण्यः पञ्च विश्रुताः ॥
श्रीरागस्यापि राजेन्द्र कथिताः पूर्वसूरिभिः ॥१७॥
सारंगः सागरो गौरो मरुत्पञ्चशरस्तथा ॥
गोविन्दश्च हमीरश्च गीर्भीरश्च तथैव च ॥१८॥
श्रीरागस्यापि राजेन्द्र ह्यष्टौ पुत्रा मनोहराः ॥
वसन्ती ऐरजा हेरी तैलंगी सुन्दरी तथा ॥१९॥
हिंडोलस्यापि रागस्य रागिण्यः पञ्च विश्रुताः ॥
मंगलश्च वसन्तश्च विनोदः कुमुदस्तथा ॥२०॥
एवं च विहितो नाम विभासः स्वरमण्डलः ॥
पुत्राश्चाष्टौ समाख्याता मैथिलेन्द्र विचक्षणैः ॥२१॥
बहुलाश्व उवाच -
शब्दब्रह्म हरेः साक्षान्निगमस्य महात्मनः ॥
रागमण्डल इत्येवं हिंडोलस्य पृथक् पृथक् ॥२२॥
अंगानि वद मे देव कानि कानि महीतले ॥
श्रीनारद उवाच -
मुखं व्याकरणं प्रोक्तं पिंगलः पाद उच्यते ॥२३॥
मीमांसशास्त्रं हस्तौ च ज्योतिर्नेत्रं प्रकीर्तितम् ॥
आयुर्वेदः पृष्ठदेशो धनुर्वेद उरःस्थलम् ॥२४॥
गांधर्वं रसनं विद्धि मनो वैशेषिकं स्मृतम् ॥२५॥
सांख्यं बुद्धिरहंकारो न्यायवादः प्रकीर्तितः ॥
वेदांतं तस्य चित्तं हि वेदस्यापि महात्मनः ॥२६॥
रागरूपमिमं राजन् विहारं विद्धि मैथिल ॥
एतत्ते कथितं राजन् किं भूयः श्रोतुमिच्छसि ॥२७॥
बहुलाश्व उवाच -
तस्मिन्वेदपुरे रम्ये किं चकार हरिः स्वयम् ॥
एतन्मे वद देवर्षे त्वं साक्षाद्दिव्यदर्शनः ॥२८॥
श्रीनारद उवाच -
आयांतं वेदनगरं श्रीकृष्णं यादवेश्वरम् ॥
निगमोऽपि बलिं नीत्वा सरस्वत्या तया सह ॥२९॥
गंधर्वैरप्सरोभिश्च ग्रामतालैः स्वरैः सह ॥
रागैः सभेदैः सहितः प्रणनाम कृतांजलिः ॥३०॥
प्रसन्नो भगवान्साक्षाद्देवदेवो जनार्दनः ॥
वेदं प्राह यदूनां च सर्वेषां शृण्वतां सताम् ३१॥
श्रीभगवानुवाच -
निगम त्वं वरं ब्रूहि यत्ते मनसि वर्तते ॥
दुर्लभं किं त्रिलोकेषु भक्तानां हर्षिते मयि ॥३२॥
वेद उवाच -
यदि देव प्रसन्नोऽसि सर्वे ये मे सुपार्षदाः ॥
तेषां देव निजं रूपं दर्शयात्र परेश्वर ॥३३॥
यद्‌रूपं ते च गोलोके स्वधाम्नि प्रस्फुरद्द्युतौ ॥
वृंदावने च तद्‌रासे तस्य दर्शनकांक्षिणः ॥३४॥
श्रीनारद उवाच -
श्रुत्वा वेदवचः कृष्णः परिपूर्णतमः स्वयम् ॥
स्वरूपं दर्शयामास राधया सहितं परम् ॥३५॥
तद्‌रूपं सुंदरं दृष्ट्वा सर्वे वै मूर्च्छनां गताः ॥
पूरिताः सात्त्विकैर्भावै-र्विस्मृत्य स्वतनोः सुखम् ॥३६॥
तदापि हर्षिताः सर्वे वादित्रैर्मधुरस्वनैः ॥
जगुस्तत्पुरतो राजन्ननृतुः पश्यतां सताम् ॥३७॥
यथा श्रुतं तथा दृष्टं माधुर्यं रूपमद्‌भुतम् ॥
तथैव चक्रुर्वेदाद्या वर्णनं मैथिलेश्चर ॥३८॥
वेद उवाच -
सज्ज्ञानमात्रं सदसत्परं बृह-
     च्छश्वत्प्रशांतं विभवं समं महत् ॥
त्वां ब्रह्म वंदे वसुदुर्गमं परां
     सदा स्वधाम्ना परिभूतकैतवम् ॥३९॥
सरस्वत्युवाच -
महः परं त्वां किल योगिनो विदुः
     सविग्रहं तत्र वदंति सात्वताः ॥
दृष्टं तु यत्ते पदयोर्द्वयं मे
     क्षेमस्य भूयान्महसामधीश्वरम् ॥४०॥
गन्धर्वा उचुः -
श्यामं च गौरं विदितं स्वधाम्ना
     कृतं त्वया धाम निजेच्छया हि ॥
विराजसे नित्यमलं च ताभ्यां
     घनो यथा मेचकदामिनीभ्याम् ॥४१॥
अप्सरस ऊचुः -
यथा तमालः कलधौतवल्ल्या
     घनो यथा चंचलया चकास्ति ॥
नीलोऽद्रिराजो निकषाश्मखन्या
     श्रीराधयाऽऽद्यस्तु तथा रमण्या ॥४२॥
ग्रामा ऊचुः -
यस्य पदस्य परागं शंभू रमा कविदेवैः ॥
इच्छति चेतासि राधा तं भज माधवपादम् ॥४३॥
ताला ऊचुः -
येन बलिः सद्विहरेत्तद्‌बलिमेव हरेत् ॥
तं भज पादं तु हरेश्चेतसि तप्ते कुहरे ॥४४॥
गाना ऊचुः -
ऊत्क्षिपंति बहिर्दुःखं सन्तो यच्छरणं गताः ॥
राधामाधवयोर्दिव्यं दधाम पदपंकजम् ॥४५॥
स्वरा ऊचुः -
शरद्विकचपंकजश्रियमतीव विद्वेषकं
     मिलीन्दमुनिलेढितं कुलिशकजचिह्नावृतम् ॥
स्फुरत्कनकनूपुरं दलितभक्ततापत्रयं
     चलद्द्युतिपदद्वयं हृदि दधामि राधापते ॥४६॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
वेदादिस्तुतिवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥४४॥


GO TOP