श्रीगर्ग संहिता - विश्वजित्खण्डः - त्रिचत्वारिंशोऽध्यायः

श्रीगर्गसंहिता

विश्वजित्खण्डः - त्रिचत्वारिंशोऽध्यायः

वेदनगरवर्णनम् -


श्रीनारद उवाच -
इत्थं खंडं तु भद्राश्चं जित्वा श्रीयादवेश्वरः ॥
यदुभीः सैनिकैः सार्द्धमिलावृतमथाययौ ॥१॥
विभाति यत्रैव गिरींद्रराजो
     भूपद्मगोलस्य च कर्णिकेव ॥
स्फुरद्द्युतिः स्वर्णमयः सुमेरुः
     सुरालयो मैथिल रत्‍नसानुः ॥२॥
तं सर्वतो मंदरमेरुसुंदरौ
     सुपार्श्व एवं कुमुदश्चतुर्थकः ॥
विभाति सैको गिरिभिर्नगेश्वर-
     श्चतुष्पदार्थैश्च मनोरथा इव ॥३॥
जांबूनदं जंबुभवं हि यत्र
     यतः स्वतः सिद्धिभवं सुवर्णम् ॥
यत्रारुणोदाख्यनदी च जाता
     यद्वारिपानाद्‍भुवि नामयित्वम् ॥४॥
कदंबजा मधुधाराश्च पंच
     यासां तु पानेन नृणां कदापि ॥
शीतोष्णवैवर्ण्यपरिश्रमाद्या
     दौर्गन्ध्यभावा न भवंति राजन् ॥५॥
यदुद्‌भवाः कामदुघा नदाश्च
     रत्‍नान्नवासःशुभभूषणानि ॥
शय्यासनादीनि फलानि यानि
     दिव्यानि तानि त्वथ चार्पयंति ॥६॥
एवं च यत्रोर्ध्ववनं प्रसिद्धं
     संकर्षणो यत्र विराजतेऽथ ॥
शिवः सदासौ रमते प्रियाभिः
     स्त्रीभावतां यांति जनास्तु तत्र ॥७॥
हैमांबुजैः शीतवसंतवायुभिः
     काश्मीरवृक्षैश्च लवंगजालैः ॥
देवद्रुमामोदमदांधषट्‍पदै-
     रिलावृतं खंडमतीव रेजे ॥८॥
पश्यन् भुवं स्वर्णमयीं मनोहरां
     वैदूर्यरत्‍नांकुरवृंदचित्रिताम् ॥
इलावृतं पूर्णमलंकृतैः सुरै-
     र्विजित्य खंडं जगृहे बलिं हरिः ॥९॥
श्रीशोभनो नाम पुरा कृतेन
     जामातृकोऽभून्मुचुकुंदभूभृतः ॥
एकादशीं यः समुपोष्य भारते
     प्राप्तः स देवैः किल मंदराचले ॥१०॥
अद्यापि राज्यं कुरुते कुबेरवद्‌-
     राज्ञः सुतोऽसौ किल चन्द्रभागया ॥
नीत्वा बलिं देववरस्य संमुखे
     समाययौ मैथिल सुंदरः परः ॥११॥
प्रदक्षिणीकृत्य हरिं यदूत्तमं
     पादारविंदे पतितोऽथ शोभनः ॥
भक्त्या प्रणम्याशु बलिं महात्मने
     दत्वा ययौ मैथिल मंदराचलम् ॥१२॥
बहुलाश्व उवाच -
शोभने च नृपे याते भगवान्मधुसूदनः ॥
अग्रे चकार किं देवो वद देवर्षिसत्तम ॥१३॥
श्रीनारद उवाच -
सरोवरं परं दिव्यं तस्मिन्मन्दरसानुनि ॥
सौवर्णपङ्कजं वीक्ष्य किरीटी प्राह माधवम् ॥१४॥
अर्जुन उवाच -
कांचनीभिर्लताभिश्च सौवर्णेः पंकजैर्वृतम् ॥
वद मां देवकीपुत्र कस्येदं कुंडमद्‌भुतम् ॥१५॥
श्रीभगवानुवाच -
पृथुः पूर्वो राजराजः स्वायंभुवकुलोद्‌भवः ॥
तताप स तपो दिव्यं तस्येदं कुण्डमद्‌भुतम् ॥१६॥
अस्य पीत्वा जलं सद्यः सर्वपापैः प्रमुच्यते ॥
स्नात्वा तद्धाम परमं याति पार्थ नरेतरः ॥१७॥
श्रीनारद उवाच -
अत्रैव भगवान्साक्षात्तपोभूमिं जगाम ह ॥
सरूपास्तत्र नृत्यंति सर्वास्ता ह्यष्टसिद्धयः ॥१८॥
ता वीक्ष्य चोद्धवः प्राह भगवंतं सनातनम् ॥
उद्धव उवाच -
कस्येयं सुतपोभूमिर्मन्दराचलसन्निधौ ॥
मूर्तिमत्यो विराजंत्यः काः स्त्रियो वद हे प्रभो ॥१९॥
श्रीभगवानुवाच -
स्वायंभुवेन मनुना तपश्चात्र कृतं पुरा ॥
तस्येयं सुतपोभूमिरद्यापि श्रेयसी बहु ॥२०॥
सदात्रैव हि वर्तंते नारीरूपाष्टसिद्धयः ॥
अत्र प्राप्तस्य कस्यापि ततस्ताश्च भवंति हि ॥२१॥
अत्र क्षणेन तपसा देवत्वं याति मानवः ॥
तपोभूमेश्च माहात्म्यं वक्तुं नालं चतुर्मुखः ॥२२॥
श्रीनारद उवाच -
इत्युक्त्वा भगवान्कृष्णः स्वसैन्यपरिवारितः ॥
जगाम प्रोत्कटान्देशान्दुन्दुभीन्नादयन्मुहुः ॥२३॥
हिरण्यकशिपुर्दैत्यो यत्र तेपे तपः पुरा ॥
यत्र लीलावती नाम वर्तते कांचनी पुरी ॥२४॥
लीलावतीश्वरः साक्षाद्वीतिहोत्रो हुतासनः ॥
नित्यं राज्यं प्रकुरुते मूर्तिमान् भुवि सुव्रतः ॥ २५॥
सोऽपि श्रीकृष्णचंद्राय पुरुषाय महात्मने ॥
बलिं दत्वा परां शश्वत्स्तुतिं चक्रे धनंजयः ॥२६॥
इत्थं पश्यन्देवदेवः सर्वं वर्षमिलावृतम् ॥
जगाम वेदनगरं जंबूद्वीपं मनोरमम् ॥२७॥
मूर्तिमान् यत्र निगमो दृश्यते सर्वदैव हि ॥
तत्सभायां सदा वाणी वीणापुस्तकधारिणी ॥२८॥
गायन्ती कृष्णचरितं सुभगं मंगलायनम् ॥
उर्वशीपूर्वचित्याद्या नृत्यंत्यप्सरसो नृप ॥२९॥
हावभावकटाक्षैश्च तोषयन्त्यः श्रुतीश्वरम् ॥
अहं विश्वावसुश्चैव तुंबरुश्च सुदर्शनः ॥३०॥
तथा चित्ररथो ह्येते वादित्राणि मुहुर्मुहुः ॥
वेणुवीणामृदङ्गानि मुरुयष्टियुतानि च ॥३१॥
तालदुन्दुभिभिः सार्द्धं वादयन्ति यथाविधि ॥
ह्रस्वदीर्घप्लुतोदात्तानुदात्तस्वरिता नृप ॥३२॥
सानुनासिकभेदश्च तथा निरनुनासिकः ॥
एतैरष्टादशैर्भैदैर्गीयन्ते श्रुतयः परैः ॥३३॥
मूर्तिमन्तो विराजंते तत्र वेदपुरे नृप ॥
अष्टौ तालाः स्वराः सप्त तथा ग्रामत्रयं नृप ॥३४॥
वसन्ति वेदनगरे मूर्तिमन्तः सदैव हि ॥
भैरवो मेघमल्लारो दीपको मालकंसकः ॥३५॥
श्रीरागश्चापि हिंडोलो रागाः षट् संप्रकीर्तिताः ॥
पञ्चभिश्च प्रियाभिश्च तनुजैरष्टभिः पृथक् ॥३६॥
मूर्तिमन्तस्तु ते तत्र विचरन्ति नरेश्वर ॥
भैरवो बभ्रूवर्णश्च मालकंसः शुकद्युतिः ॥३७॥
मयूरद्युतिसंयुक्तो मेघमल्लार एव हि ॥
सुवर्णाभो दीपकश्च श्रीरागोऽरुणवर्णभृत् ॥
हिंडोलो दिव्यहंसाभो राजते मिथिलेश्वर ॥३८॥
बहुलाश्व उवाच -
तालानां च स्वराणां च ग्रामाणां मुनिसत्तम ॥
नृत्यानां कति भेदा वै नामभिः सहितान् वद ॥३९॥
श्रीनारद उवाच -
रूपकश्चञ्चरीकश्च तालः परमठः स्मृतः ॥
विराटकमठश्चैव मल्लकश्च झटिज्जुटा ॥४०॥
निषादर्षभगांधार-षड्‍जमध्यमधैवताः ॥
पञ्चमश्चेत्यमी राजन् स्वराः सप्त प्रकीर्तिताः ॥४१॥
माधुर्यमथ गांधारं ध्रौव्यं ग्रामत्रयं स्मृतम् ॥
रासं च तांडवं नाट्यं गांधर्वं कैन्नरं तथा ॥४२॥
वैद्याधरं गौह्यकं च नृत्यमाक्रूरसं नृप ॥
हावभावानुभावैश्च दशभिश्चाष्टभेदवत् ॥४३॥
सारेगमपधनीति स्वरगम्यं पदं स्मृतम् ॥
एतत्ते कथितं राजन् किं भूयः श्रोतुमिच्छसि ॥४४॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
वेदनगरवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥४३॥


GO TOP