श्रीगर्ग संहिता - विश्वजित्खण्डः - सप्तत्रिशोऽध्यायः

श्रीगर्गसंहिता

विश्वजित्खण्डः - सप्तत्रिशोऽध्यायः

हरिश्मश्रु दैत्यवधम् -


श्रीनारद उवाच -
महानाभं मृतं श्रुत्वा सेनां वीक्ष्य पलायिताम् ॥
दैत्यस्तिमिंगिलारूढो हरिश्मश्रुः समाययौ ॥१॥
हरिश्मश्रुस्तदा दैत्यो रुषा प्रस्फुरिताधरः ॥
उवाच परुषं वाक्यं यादवानां च शृण्वताम् ॥२॥
हरिश्मश्रुरुवाच -
यूयं सर्वेऽपि मे शक्त्या मनुष्याः स्वल्पविक्रमाः ॥
शस्त्रैर्जयंतो दीना वै पौरुषं किं भवादृशे ॥३॥
भवतां बलवान् कोऽपि विना शस्त्रं मया सह ॥
करोतु मल्लयुद्धं वै पौरुषं येन दृश्यते ॥४॥
श्रीनारद उवाच -
इत्थं दैत्यवचः श्रुत्वा दृष्ट्वा तत्प्रोद्‌भटं वपुः ॥
सर्वे बभूवुस्ते तूष्णीं प्रशंसंतः परस्परम् ॥५॥
सर्वेषां पश्यतां भानुः सत्यभामात्मजो बली ॥
त्यक्त्वा शस्त्राणी सहसा तस्थौ कृष्णं स्मरन् रणे ॥६॥
तिमिंगिलात्समुत्तीर्य हरिश्मश्रुर्महाबलः ॥
तस्थौ तत्संमुखे राजन् भुजमास्फोट्य यत्‍नतः ॥७॥
भुजाभ्यां च भुजौ बद्ध्वा नोदनां चक्रतुर्बलात् ॥
दंतैर्गजाविव वने प्रहरन्तौ परस्परम् ॥८॥
नोदयामास तं भानुं स दैत्यः शतयोजनम् ॥
भुजाभ्यां राजराजेद्र सिंहः सिंहमिवौजसा ॥९॥
ततः पुनः कृष्णसुतो हरिश्मश्रुं महासुरम् ॥
नोदयामास सहसा सहस्रं योजनं बलात् ॥१०॥
कन्धरे स्वभुजां कृत्वा कटौ च विनिधाय तम् ॥
भानुं जानौ संगृहीत्वा पातयामास दैत्यराट् ॥११॥
भानुस्तं पृष्ठदेशेऽपि सन्निधाय भुजौजसा ॥
गृहीत्वा जंघयोर्दैत्यं पातयामास भूतले ॥१२॥
अथ तौ पुनरुत्थाय भुजवास्फोट्य तस्थतुः ॥
त्वरं तौ बलिनौ राजन्सुपर्णफणिनाविव ॥१३॥
दैत्यो भुजौजसा नीत्वा भानुं श्रीकृष्णनन्दनम् ॥
चिक्षेप धृत्वा चरणावाकाशे लक्षयोजनम् ॥१४॥
आकाशात्पतितो भानुः किंचिद्व्याकुलमानसः ॥
प्रह्लाद इव शैलांगाद्‌रक्षिता कृपया हरेः ॥१५॥
हरिश्मश्रुं संगृहीत्वा दीर्घश्मश्रौ हरेः सुतः ॥
भ्रामयित्वाथ चिक्षेप व्योम्नि तं लक्षयोजनम् ॥१६॥
आकाशात्पतितः सोऽपि किंचिद्व्याकुलमानसः ॥
मुखे कृत्वा स्वकं कूर्चं मुष्टिना तं तताड ह ॥१७॥
मुष्टामुष्टि रणं राजन् बभूव घटिकाद्वयम् ॥
निष्पिष्टांगो हरिश्मश्रुर्ग्रावाणं भानुमूर्द्धनि ॥१८॥
चिक्षेप च महावेगाद्‌रक्ताक्षः क्रोधमूर्च्छितः ॥
भानुर्द्रुमं संगृहीत्वा प्राक्षिपत्तस्य मस्तके ॥१९॥
सोऽपि द्रुमं संगृहीत्वा प्राहिणोद्‌भानुमूर्द्धनि ॥
हरिश्मश्रुर्महादैत्यो रक्ताक्षः क्रोधमूर्च्छितः ॥२०॥
गजं गृहीत्वा शुण्डायां तेन भानुं तताड ह ॥
भानुश्चान्यं गजं नीत्वा गृहीत्वा तद्‌गजं करे ॥२१॥
हरिश्मश्रुं महादैत्यं गजेनाभ्यहनद्‍दृढम् ॥
चीत्कारमथ कुर्वंतं गजं नीत्वा निपात्य तम् ॥२२॥
तस्य दन्तौ समुत्पाट्य ताभ्यां भानुं तताड ह ॥
भानुमाकाशवागाह कूर्चे मृत्युः किलास्य च ॥२३॥
वरेण शिवदत्तेन प्रोज्झितोऽयं महासुरः ॥
इति श्रुत्वा वचो भानुर्धावन् क्रोधप्रपूरितः ॥२४॥
संगृहीत्वा भुजाभ्यां तं पादयोः प्रणदन्मुहुः ॥
भ्रामयित्वा महाराज सर्वेषां पश्यतां सताम् ॥२५॥
पातयामास भूपृष्ठे कमण्डलुमिवार्भकः ॥
मुखात्कूर्चं समुन्नीय समुत्पाट्य करौजसा ॥२६॥
तताड मुष्टिना मूर्ध्नि हरिश्मश्रुं महासुरम् ॥
तदा मृत्युं गते दैत्ये हरिश्मश्रौ नृपेश्वरः ॥२७॥
देवदुन्दुभयो नेदुर्नरदुन्दुभयस्तथा ॥
अभूज्जयजयरावो ननृतुर्देवनायकाः ॥ २८॥
प्रसन्ना दिविजा राजन्पुष्पवर्षं प्रचक्रिरे ॥
इत्थं श्रीकृष्णपुत्राणां विक्रमः परमाद्‌भुतः ॥२९॥
मया ते कथितः पुण्यः किं भूयः श्रोतुमिच्छसि ॥३०॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
हरिश्मश्रुदैत्यवधो नाम सप्तत्रिंशोऽध्यायः ॥३७॥


GO TOP