श्रीगर्गसंहिता
विश्वजित्खण्डः - षट्त्रिंशोऽध्यायः
महानाभदैत्यवधम् -
श्रीनारद उवाच -
कालनाभेऽथ पतिते महान् कोलाहलोऽभवत् ॥
उष्ट्रारूढो महानाभो दैत्यः प्राप्तो रणाङ्गणे ॥१॥
मुखादग्निं समसृजन्मायावी दैत्यपुंगवः ॥
तेनाग्निना भूमिवृक्षा जज्वलुश्च दिशो दश ॥२॥
वीराणां कंचुकोष्णीष-कटिबन्धाङ्गरक्षकाः ॥
प्रजज्वलुर्महाराज मुञ्जपुष्पप्रतूलवत् ॥३॥
समुद्रपट्टनभवैः पीतारुणसितासितैः ॥
हरितैश्चित्रवर्णैश्च सूक्ष्मैः काश्मीरजैरपि ॥४॥
हेमरत्नखचद्भिश्च कम्बलैः सहिता गजाः ॥
प्रजज्वलुर्मृधे राजन् वृक्षैः शैला इवाग्निना ॥५॥
शिखा रत्नैश्चामरैश्च हारैर्हैमैः परिच्छदैः ॥
उत्पतन्तो हया युद्धे मृगा इव दवाग्निना ॥६॥
सैन्यं भयातुरं दृष्ट्वा दीप्तिमान् कृष्णनन्दनः ॥
मायावह्निप्रशांत्यर्थं पर्जन्यास्त्रं समादधे ॥७॥
बाणाद्विनिर्गता मेघाः सांवर्तकगणा इव ॥
ववृषुर्जलधाराभिर्नदन्तो भैरवं रवम् ॥८॥
आसारेण महाराज प्रावृट्कालोऽभवत्क्षितौ ॥
पुंस्कोकिलाः कोकिलाश्च मयूराः सारसादयः ॥९॥
मंडूकाः प्रजगुर्गीर्भिरिद्रगोपाश्च रेजिरे ॥
इन्द्रचापेन दामिन्या मैथिलेन्द्र बभौ नभः ॥१०॥
इत्थं शांतिं गते वह्नौ महानाभो महासुरः ॥
प्राहीणोन्निशितं शूलं रुषा दीप्तिमते त्वरम् ॥११॥
शूलं सर्पमिवायांतं दीप्तिमान् रोहिणीसुतः॥
चिच्छेद त्वसिना युद्धे फणिनं गरुडो यथा ॥१२॥
दशंतं चोद्भटं चोष्ट्रं महानाभस्य वाहनम् ॥
दीप्तिमान् स्वेन खड्गेन संजघान रणाङ्गणे ॥१३॥
द्विधाभूतः पपातोर्व्यां खड्गसंछिन्नकंधरः ॥
जगाम पञ्चतामुष्ट्रो महानाभस्य पश्यतः ॥१४॥
महानाभो महादैत्यो गजमारुह्य वेगतः ॥
शूलहस्तः पुनः प्रागान्नादयन्व्योममण्डलम् ॥१५॥
दीप्तिमानश्वमारुह्य सैन्धवं चंचलासितम् ॥
तडित्प्रभेण खड्गेन बभौ श्रीकृष्णनंदनः ॥१६॥
तुरंगं पार्ष्णिघातेन प्रोत्पतन् धरणीतलात् ॥
आरूढो गजकुंभांतं गिरिशृङ्गं यथा हरिः ॥१७॥
खड्गेन शितधारेण दीप्तिमान्कृष्णनन्दनः ॥
महानाभस्य सहसा शिरः कायादपाहरत् ॥१८॥
बाणवर्षं प्रकुर्वंतीं सेनां तस्य दुरात्मनः ॥
जघान दीप्तिमान् सिंहो गजयूथं यथासिना ॥१९॥
केचित्खड्गेनाभिहताः शेषा दैत्याः पलायिताः ॥
देवा दीप्तिमतो मूर्ध्निं पुष्पवर्षं प्रचक्रिरे ॥२०॥
जगुः किन्नरगंधर्वा ननृतुश्चाप्सरोगणाः ॥
ऋषयो मुनयो देवास्तुष्टुवुर्श्रीहरेः सुतम् ॥२१॥
इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
महानाभवधो नाम षट्त्रिंशोऽध्यायः ॥३६॥
GO TOP
|