श्रीगर्गसंहिता
विश्वजित्खण्डः - चतुर्दशोऽध्यायः
द्रविडदेशजयम् -
श्रीनारद उवाच -
ऋषभाद्रिं ततो दृष्ट्वा श्रीरङ्गाख्यं हरेः सुतः ॥
कामः कार्ष्णिः पुरीं कांचीं नदीं प्राचीं सरिद्वराम् ॥॥१॥
कावेरीं च तदोत्तीर्य सह्याद्रिविषयं ययौ ॥
यादवैः सहितः साक्षात्प्रद्युम्नो भगवान्हरिः ॥२॥
शिबिरेषु समायान्तं मुक्तकेशं दिगंबरम् ॥
अवधूतं प्रधावन्तं पुष्टांगं रजसाऽऽवृतम् ॥३॥
बालास्तमनुधावन्तस्तलशब्दैरितस्ततः ॥
कोलाहलं प्रकुर्वंतो हसंतो मैथिलेश्वर ॥४॥
तं दृष्ट्वा चोद्धवं प्राह कर्ष्णिर्बुद्धिमतां वरः ॥५॥
प्रद्युम्न उवाच -
कोऽयं पुष्टवपुर्धावन्बालोन्मत्तपिशाचवत् ॥
तिरस्कृतोऽपि हसति जनैरानन्दवान्महान् ॥६॥
उद्धव उवाच -
अयं परमहंसाख्योऽवधूतो वा हरेः कला ॥
सदानंदमयः साक्षद्दत्तात्रेयो महामुनिः ॥७॥
यस्य प्रसादात्परमां सिद्धिं प्रापुः परे नृपाः ॥
सहस्रार्जुनमुख्या ये यदुकायाधवादयः ॥८॥
श्रीनारद उवाच -
इति श्रुत्वा शंबरारिर्नत्वा संपूज्य तं मुनिम् ॥
संस्थाप्य चासने दिव्ये पप्रच्छेदं यदूत्तमः ॥९॥
प्रद्युम्न उवाच -
भगवन्मे हृदिस्थं वै सन्देहं नाशय प्रभो ॥
जगतो ब्रह्ममार्गांश्च हेत्वंतं ब्रूहि तत्वतः ॥१०॥
दत्तात्रेय उवाच -
दृश्यते न वसुर्यावत्तावदुल्काप्रयोजनम् ॥
प्राप्ते वशे महानंदेऽथोल्कायाः किं प्रयोजनम् ॥११॥
तावदास्ते जगत्साधो यावत्तत्वं न वेद्यते ॥
परस्मिन्ब्रह्मणि प्राप्ते जगतः किं प्रयोजनम् ॥१२॥
आस्यबिंबो यथाऽऽदर्शे पश्यते न परं वपुः ॥
प्रधानार्थे तथा जीवो ज्ञानेनासौ परात्परम् ॥१३॥
यथा सूर्योदये सर्वं वस्तु नेत्रेण दृश्यते ॥
तथा ज्ञानोदये ब्रह्मतत्वं जीवेन सर्वतः ॥१४॥
श्रीनारद उवाच -
इति श्रुत्वाथ तं नत्वा प्रद्युम्नो यादवेश्वरः ॥
वैकुण्ठाद्रिं द्राविडेषु ययौ सेनासमन्वितः ॥१५॥
सत्यवाग्धर्मतत्वज्ञो राजर्षिर्द्राविडेश्वरः ॥
प्रद्युम्नं पूजयामास भक्त्या परमया युतः ॥१६॥
श्रीशैलदर्शनं कृत्वा गिरिशालयमद्भुतम् ॥
स्कंदं वीक्ष्य ततो राजन् ययौ पंपासरोवरे ॥१७॥
गोदावरीं भीमरथीं गतः श्रीद्वारकेश्वरः ॥
प्रदर्शयन्हरेस्तीर्थं महेंद्राद्रिं ततो ययौ ॥१८॥
महेन्द्राद्रिस्थितं रामं भार्गवं क्षत्रियांतकम् ॥
नत्वा प्रदक्षिणीकृत्य तत्र तस्थौ हरेः सुतः ॥१९॥
रामस्तस्याशिषं दत्वा यादवानां बलाय वै ॥
चतुरंगाय राजेंद्र योगेनार्हणमाचरत् ॥२०॥
भक्तसूपः प्रलेहश्च रुदिका दधिशाकजाः ॥
शिखरिण्यवलेहश्च बलका चक्षुखेरिणी ॥२१॥
त्रिकोणशर्करायुक्तो बटको मधुशीर्षकः ॥
फेणिका चोपरिष्टश्च शतपत्र सछिद्रकः ॥२२॥
चक्राभचिह्नकाश्चेत्थं सुधाकुण्डलिकाः स्मृताः ॥
घृतपूरो वायुपूरस्तथा चन्द्रकला स्मृताः ॥२३॥
दधिस्थलीश्च कर्पूरनाडीस्थं खण्डमंडलम् ॥
गोधूमपरिखाश्चैव सुफलाढ्यास्तथैव च ॥२४॥
दधिरूपो मोदकश्च शाकसौधान एव च ॥
मंडकापायसं युक्तं दधि गोघृतमेव च ॥२५॥
हैयंगवीनमंडूरी कुपिका पर्पटस्तथा ॥
शक्तिका लसिका चैव सुवृत्संधाय एव ही ॥२६॥
सुफलैश्च सितायुक्तैः फलानि विविधनी च ॥
यथा मोहनभोगैश्च लवणं च तथैव च ॥२७॥
कषायो मधुरस्तिक्तः कटुरम्लस्त्वनेकधा ॥
षट्पंचाशत्तमश्चैव ह्येते भोगाः प्रकीर्तिताः ॥२८॥
एतेषां भार्गवः शैलानकार्षीद्योगमास्थितः ॥
सैन्ये संभोजिते तत्र हस्तन्यूना न तेऽभवन् ॥२९॥
वैभवं भार्गवस्यापि दृष्ट्वा सर्वेऽतिविस्मिताः ॥
प्रद्युम्नस्तं नमस्कृत्य यादवैः सहितस्तदा ॥३०॥
सर्वेषां शृण्वतां राजन् पप्रच्छेदं हरेः सुतः ॥
प्रद्युम्न उवाच -
भगवन्भवता दत्तं सर्वेभ्यो भोजनं परम् ॥३१॥
समृद्धयः सिद्धयश्च त्वदंघ्रावास्थिताः प्रभो ॥
सर्वेषां हरिभक्तानां प्रियो भक्तस्तु को हरेः ॥
एतन्मे ब्रूहि विप्रेंद्र त्वं परावरवित्तमः ॥३२॥
परशुराम उवाच -
त्वं प्रभो किं न जानासि लोकवत्पृच्छसेऽथ माम् ॥
लोकसंग्रहमेवारात्कुर्वन् विचरसि क्षितौ ॥३३॥
निष्किंचनो हरिपदाब्जपरागलुब्धः
श्रीमत्कथाश्रवणकीर्तनतत्परो यः ॥
तद्रूपसिंधुलहरीविनिमग्नचित्तः
श्रीकृष्णचंद्रदयितः कथितः स भक्तः ॥३४॥
दांतो महानखिलजंगमवत्सलोऽयं
शांतस्तितिक्षुरतिकारुणिकः सुहृत्सत् ॥
लोकं पुनाति निजपादरजोभिरारा-
च्छ्रीकृष्णचंद्रदयितः कथितः परेश ॥३५॥
यः पारमेष्ठ्यमखिलं न महेंद्रधिष्ण्यं
नो सार्वभौममनिशं न रसाधिपत्यम् ॥
नो योगसिद्धिमभितो न पुनर्भवं वा
वांछत्यलं परमपादरजः स भक्तः ॥३६॥
निष्किंचनाः स्वकृतकर्मफलैर्विरागा
यत्तत्पदं हरिजना मुनयो महांतः ॥
भक्ता जुषंति हरिपादरजःप्रसक्ता
अन्ये विदंति न सुखं किल नैरपेक्ष्यम् ॥३७॥
भक्तात्प्रियो न विदितः पुरुषोत्तमस्य
शंभुर्विधिर्न च रमा न च रौहिणेयः ॥
भक्ताननुव्रजति भक्तनिबद्धचित्त-
चूडामणिः सकललोकजनस्य कृष्णः ॥३८॥
गच्छन्निजं जनमनु प्रपुनाति लोका-
नावेदयन्हरिजने स्वरुचिं महात्मा ॥
तस्मादतीव भजतां भगवान्मुकुंदो
मुक्तिं ददाति न कदापि सुभक्तियोगम् ॥३९॥
श्रीनारद उवाच -
इति श्रुत्वा यादवेंद्रो नत्वा श्रीभार्गवोत्तमम् ॥
प्राच्यां दिशि ययौ राजन् गंगासागरसंगमम् ॥४०॥
इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
द्राविडदेशविजयो नाम चतुर्दशोऽध्यायः ॥१४॥
GO TOP
|