श्रीगर्गसंहिता

विश्वजित्खण्डः - त्रयोदशोऽध्यायः

शाल्व-मालव-लङ्काविजयम् -


श्रीनारद उवाच -
कृतमालां ताम्रपर्णीं स्नात्वा श्रीयादवेश्वरः ॥
यदुभिः सैनिकैः सार्द्धं राजन् राजपुरं ययौ ॥१॥
शाल्वो राजपुराधीशः श्रुत्वा मन्मुखतो यदून् ॥
आगतान् स ययौ शीघ्रं द्विविदं वानराधिपम् ॥२॥
द्विविदो ह्यतिसंक्रुद्धो वीरो मित्रसहायकृत् ॥
शंबरारिबलं प्रागाच्चालयन् वसुधातलम् ॥३॥
विददार नखैर्दंतैः पताकाध्वजपट्टकान् ॥
काश्मीरकंबलैर्युक्तान्सामुद्रान्स्वर्णभूषितान् ॥४॥
रथानुत्पातयामास गजानारुह्य वेगतः ॥
अश्वान्विद्रावयामास भ्रूभंगैर्वानरस्वनैः ॥५॥
इत्थं कोलाहले जाते प्रद्युम्नो धन्विनां वरः ॥
आजगाम रथेनासौ धनुष्टंकारयन् मुहुः ॥६॥
द्विविदस्तद्‌रथस्यारादुच्चक्राम मदोत्कटः ॥
छत्रं ध्वजं स्वपुच्छेन कंपयन्सहयं रथम् ॥७॥
प्रद्युम्नः स्वधनुष्कोट्या धृत्वा कण्ठे चकर्ष ह ॥
कपिस्तदातिकुपितो मुष्टिना तं तताड ह ॥८॥
प्रद्युम्नो धनुरादय सज्जं कृत्वा विधानतः ॥
आकृष्य कर्णपर्यन्तं विशिखेन तताड् तम् ॥९॥
विशिखी भ्रामयित्वा तं गगने शतयोजनम् ॥
प्रहरार्द्धेन राजेन्द्र लंकाया संन्यपातयत् ॥१०॥
रक्षोभिः सह तद्युद्धं बभूव घटिकाद्वयम् ॥
न्यपातयत्स रक्षांसि प्रद्युम्नोऽथ यदूत्तमः ॥११॥
नादयन्दुन्दुभिं राजन् विजित्य जगृहे बलिम् ॥
दक्षिणां मथुरां दृष्ट्वा त्रिकूटं चारुरोह ह ॥१२॥
प्रोच्चक्राम त्रिकूटात्स मैनाकशिखरोपरि ॥
मैनाकात्सिंहलं चैत्य भारतं चाययौ पुनः ॥१३॥
शनैः शनैर्वानरेंद्रो हिमाचलगिरिं गतः ॥
हिमाचलस्य शिखरात्प्राग्ज्योतिषपुरं ययौ ॥१४॥
मत्सारदेशाधिपतिं प्रद्युम्नो यादवेश्वरः ॥
महाक्षेत्रं रामकृष्णं प्रययौ सेतुबंधनम् ॥१५॥
शतयोजनविस्तीर्णं समुद्रं मकरालयम् ॥
वीक्ष्य कार्ष्णिर्महावीरस्तस्थौ वेलां समेत्य सः ॥१६॥
सांबादीन्स समाहूयाक्रूराद्यान् यादवान्स्वकान् ॥
सभायामुद्धवं प्राह कार्ष्णिर्योगेश्वरेश्वरः ॥१७॥
प्रद्युम्न उवाच -
बिभीषणो द्वीपपतिर्महोज्ज्वलो
     लंकापतिः कौणपवृन्दमुख्यः ॥
वदाथ किं भोजवराय मंत्रि-
     न्न चेद्‌बलिं यच्छति मे वदाशु ॥१८॥
उद्धव उवाच -
त्वं देवदेवः पुरुषोत्तमोत्तमः
     श्रीकृष्ण्चन्द्रः परमस्त्वमेव हि ॥
त्वं पृच्छसे लोक इव प्रभो मां
     मायापि ते योगिवरैर्दुरत्यया ॥१९॥
ब्रह्मादयो यस्य परानुशासनं
     वहन्ति मूर्ध्ना सततं प्रधर्षिताः ॥
स एव साक्षात्पुरुषोऽसि भूमन्
     दासानुदासोऽस्मि वदामि किं ते ॥२०॥
श्रीनारद उवाच -
इत्युक्तः पश्यतां तेषां प्रद्युम्नो भगवान्हरिः ॥
पत्रं गृहीत्वा व्यलिखत्संदेशं मैथिलेश्वर ॥२१॥
श्रीभोजराजाय बलिं प्रयच्छ
     बलान्न चेन्मे वचनं शृणु त्वम् ॥
कोदंडमुक्तैर्विशिखैश्च सेतुं
     बद्ध्वाऽऽगमिष्यामि ससैन्यसंघः ॥२२॥
लिखित्वेदं समादाय कोदण्डं चण्डविक्रमः ॥
बाणे पत्रं समाधाय कर्णांतं तं ततान ह ॥२३॥
प्रस्फुटं स्फोटते नैव टंकारोऽभूत्तडित्स्वनः ॥
ननाद तेन ब्रह्माण्डं सप्तलोकैर्बिलैः सह ॥२४॥
कोदण्डमुक्तो विशिखो द्योतयन्मण्डलं दिशाम् ॥
विभीषणसभामध्ये संपपात तडित्स्वनः ॥२५॥
तदैव राक्षासाः सर्वे प्रोत्थिताश्चकिता इव ॥
सकंचुकानि शस्त्राणि जगृहुर्वेगतः खलाः ॥२६॥
पत्रं बाणात्समाकृष्य पठित्वाथ बिभीषणः ॥
विस्मितोऽभूत्सभामध्ये राक्षसेंद्रो महाबलः ॥२७॥
प्राप्तं तदैव सदसि शुक्राचार्यं बिभीषणः ॥
पूजयामास पाद्याद्यैर्नत्वा प्राह कृतांजलिः ॥२८॥
बिभीषण उवाच -
भगवन्कस्य बाणोऽयं भोजराजस्तु कः क्षितौ ॥
किं बलं तस्य मे ब्रूहि त्वं साक्षाद्दिव्यदर्शनः ॥२९॥
श्रीशुक्र उवाच -
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ॥
यस्य श्रवणमात्रेण राजन्पापं प्रशाम्यति ॥३०॥
पुरा हि ब्रह्मणः पुत्राः सनकाद्या दिवं गताः ॥
विष्णोर्लोकं ययुर्दिव्यं चरन्तो भुवनत्रयम् ॥३१॥
दिगंबराञ्छिशून्मत्वा जयो विजय एव तान् ॥
द्वारपालौ रुरुधतुर्वेत्रेणांतःपुरस्थितौ ॥३२॥
अशपंस्तौ च ते क्रुद्धाः कृष्णदर्शनलालसाः ॥
भूयास्तामसुरौ दुष्टौ शुद्धौ हि जन्मभिस्त्रिभिः ॥३३॥
एवं शप्तौ स्वभवनात्पतन्तौ भूमिमण्डले ॥
जज्ञाते तौ दितेः पुत्रौ दैत्यदानवपूजितौ ॥३४॥
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्तथा ॥
भगवान् यज्ञवाराहो भूत्वा क्ष्मामुद्धरञ्जलात् ॥३५॥
जघान मुष्टिना दैत्यं हिरण्याक्षं महाबलम् ॥
हिरण्यकशिपुं साक्षान्नृसिंहश्चण्डविक्रमः ॥३६॥
ददार जठरे तं वै कायाधवसहायकृत् ॥
भ्रातरौ तौ पुनर्जातौ केशिन्यां विश्रवःसुतौ ॥३७॥
रावणः कुम्भकर्णश्च सर्वलोकैकतापनौ ॥
सायकै राघवस्यापि पेततुर्युद्धमंडले ॥३८॥
राक्षसेंद्रौ महावेगौ ससैन्यौ पश्यतस्तव ॥
तृतीयेऽस्मिन्भवे जातौ क्षत्रियाणां कुले किल ॥३९॥
शिशुपालो दन्तवक्त्रो वर्तमानौ महाबलौ ॥
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ॥४०॥
असंख्यब्रह्माण्डपतिर्गोलोकेशः परात्परः ॥
जातस्तयोर्वधार्थाय यदुवंशे हरिः स्वयम् ॥४१॥
यादवेंद्रो भूरिलीलो द्वारकायां विराजते ॥
युधिष्ठिरमहायज्ञे युद्धे शाल्वस्य माधवः ॥४२॥
शिशुपालं दन्तवक्त्रं हनिष्यति न संशयः ॥
तस्य पुत्रः शंबरारिर्दिग्जयार्थं विनिर्गतः ॥४३॥
विजेष्यति नृपान्सर्वाञ्जंबूद्वीपस्थितान्नृपान् ॥
जितेषु सत्सु देवेषु द्वारकायां यदूत्तमः ॥
उग्रसेनो भोजराजो राजसूयं करिष्यति ॥४४॥
तस्यैव कोदण्डविनिर्गतो बला-
     त्प्रचण्डवेगो विशिखस्त्विहागतः ॥
तन्नामचिह्नोऽतितडित्स्वनो बभौ
     प्रद्योतयन् राक्षसमण्डलं दिशाम् ॥४५॥
श्रीनारद उवाच -
श्रीरामभक्तोऽथ बिभीषणोऽसौ
     विज्ञाय कृष्णं नृप रामचन्द्रम् ॥
नीत्वा बलिं कौणपवृंदमुख्यः
     समाययौ सुंदरशत्रुसेनाम् ॥४६॥
तदाऽवतीर्यार्शु महांबरात्स्फुर-
     द्घनद्युतिर्दीघवपुर्जयेक्षणः ॥
प्रदक्षिणीकृत्य हरेः सुतं पुनः
     कृतांजलिः संमुख आस्थितोऽभूत् ॥४७॥
विभीषण उवाच -
नमो भगवते तुभ्यं वासुदेवाय वेधसे ॥
प्रद्युम्नायानिरुद्धाय नमः संकर्षणाय च ॥४८॥
नमो मत्साय कूर्माय वराहय नमो नमः ॥
नमः श्रीरामचंद्राय भार्गवाय नमो नमः ॥४९॥
वामनाय नमस्तुभ्यं नृसिंहाय नमो नमः ॥
नमो बुद्धाय शुद्धाय कल्कये चार्तिहारिणे ॥५०॥
श्रीनारद उवाच -
इत्युक्त्वा श्रीहरेः पुत्रं पूजयामास मानदः ॥
उपचारैः षोडशभिर्भक्त्या परमयाऽऽर्द्रवाक् ॥५१॥
तस्मै तुष्टः शंबरारिर्ददौ ज्ञानं विरक्तिमत् ॥
भक्तिं शांतिकरीं साक्षाद्यांति दुष्प्रेमलक्षणाम् ॥५२॥
ब्रह्मदत्तं महादिव्यं पद्मरागं शिरोमणिम् ॥
पौलस्त्येन पुरा दत्तं रत्‍नमालां स्फुरत्प्रभाम् ॥५३॥
चन्द्रकान्तमणिं तस्मै चन्द्रदत्तं ददौ पुनः ॥
पीतांबरं परं साक्षात्प्रद्युम्नः परमः प्रभुः ॥५४॥
बिभीषणोऽथ प्रद्युम्नं नत्वा दत्वा बलिं ततः ॥
जगाम लंकां सगणो राक्षसेंद्रो महाबलः ॥५५॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
शाल्वमत्सारलंकाविजयो नाम त्रयोदशोऽध्यायः ॥१३॥


GO TOP