श्रीगर्गसंहिता

मथुराखण्डः - पञ्चमोऽध्यायः

यमुनाजलमध्ये अक्रूरस्य भगवद्दर्शनं कृष्णस्य मथुराप्रवेशं रजकवधं तथा वस्त्रग्रहणम् -


श्रीनारद उवाच -
हरिरक्रूरामाभ्यां मथुरोपवनं गतः ।
यमुनानिकटं स्थित्वा वारि पीत्वा रथं ययौ ॥ १ ॥
अक्रूरस्तावनुज्ञाप्य स्नातुं श्रीयमुनां गतः ।
नित्यनैमित्तिकं कर्तुं विवेश विमले जले ॥ २ ॥
जले चागाधगंभीरे महावर्तसमाकुले ।
ददर्श रामकृष्णौ तौ वदंतौ गांदिनीसुतः ॥ ३ ॥
विस्मतस्तौ रथेऽपश्यत्पुनर्वारि स्थितौ नृप ।
ददर्श तत्र सर्पेन्द्रं कुंडलीभूतमास्थितम् ॥ ४ ॥
तस्योत्संगे महालोकं गोलोकं लोकवन्दितम् ।
गोवर्धनाद्रिं यमुनां वृन्दारण्यं मनोहरम् ॥ ५ ॥
असंख्यकोटिमार्तण्डज्योतिषां मंडलं प्रभुम् ।
परिपूर्णतमं साक्षाच्छ्रीकृष्णं पुरुषोत्तमम् ॥ ६ ॥
कोटिमन्मथलावण्यं रासमंडलमध्यगम् ।
राधया सहितं देवं तत्राक्रूरो ददर्श ह ॥ ७ ॥
ज्ञात्वा कृष्णं परं ब्रह्म नत्वा नत्वा पुनः पुनः ।
कृताञ्जलिपुटोऽक्रूरः स्तुतिं चक्रेऽतिहर्षितः ॥ ८ ॥
अक्रूर उवाच -
नमः श्रीकृष्णचंद्राय परिपूर्णतमाय च ।
असंख्यांडाधिपतये गोलोकपतये नमः ॥ ९ ॥
श्रीराधापतये तुभ्यं व्रजधीशाय ते नमः ।
नमः श्रीनंदपुत्राय यशोदानंदनाय च ॥ १० ॥
देवकीसुत गोविंद वासुदेव जगत्पते ।
यदूत्तम जगन्नाथ पाहि मां पुरुषोत्तम ॥ ११ ॥
वाणी सदा ते गुणवर्णने स्यात्
     कर्णौ कथायां मम दोश्च कर्मणि ।
मनः सदा त्वच्चरणारविंदयो-
     र्दृशौ स्फुरद्धामविशेषदर्शने ॥ १२ ॥
श्रीनारद उवाच -
एवं संस्तुवतस्तस्य पश्यतो विस्मितस्य च ।
तत्रैवान्तर्दधे कृष्णः सलोको भगवान्प्रभुः ॥ १३ ॥
नत्वा तं च तदाक्रूरः कृत्वा नैमित्तिकं विधिम् ।
ज्ञात्वा कृष्णं परं ब्रह्म विस्मितो रथमाययौ ॥ १४ ॥
दिनात्यये रामकृष्णावानयद्‌गांदिनीसुतः।
रथेन वायुवेगेन स्निग्धगंभीरनादिना ॥ १५ ॥
पुरस्योपवने तत्र वीक्ष्य नंदं यदूत्तमः ।
अक्रूरं प्राह विहसन्मेघगंभीरया गिरा ॥ १६ ॥
श्रीभगवानुवाच -
मथुरायां हि गंतव्यं भवता स्वरथेन वै ।
गोपालैः सहितः पश्चादागमिष्यामि मानद ॥ १७ ॥
अक्रूर उवाच -
देवदेव जगन्नाथ गोविंद पुरुषोत्तम ।
सहाग्रजः सगोपालो गच्छ मे मंदिरं प्रभो ॥ १८ ॥
पादारविंदरजसा पवित्रीकुरु मद्‍गृहम् ।
त्वां विना न गमिष्यामि मंदिरं स्वं जगत्पते ॥ १९ ॥
श्रीभगवानुवाच -
गृहं तवागमिष्यामि हत्वा वै यादवाहितम् ।
सबलो बांधवैः सार्द्धं करिष्यामि तव प्रियम् ॥ २० ॥
श्रीनारद उवाच -
अथ तत्र स्थिते कृष्णे सोऽक्रूरो मथुरां गतः ।
निवेद्य चेदं कंसाय ततः स्वभवनं ययौ ॥ २१ ॥
अथापराह्णे सबलं गोविन्दं बालकैः पुरीम् ।
द्रष्टुमभ्युदितं वीक्ष्य नंदो वाक्यमथाब्रवीत् ॥ २२ ॥
आर्जवेन पुरीं वीक्ष्यागन्तव्यं भवता किल ।
न गोकुलं विद्धि चैनां कंसराज्ये महाभये ॥ २३ ॥
तथाऽस्तु चोक्त्वा भगवान् वृद्धैर्नन्दप्रणोदितैः ।
गोपालैर्बालकैः सार्द्धं सबलो गतवान्पुरीम् ॥ २४ ॥
प्रासादैर्गगनस्पर्शैर्हेमरत्‍नखचिद्‍गृहैः ।
शोभितां दुर्गसंयुक्तां देवधानीमिव स्थिताम् ॥ २५ ॥
कालिंदीं रत्‍नसोपानैश्चलदूर्मिकुतूहलैः ।
अलकामिव शोभाढ्यां दिव्यनारीनरैर्युताम् ॥ २६ ॥
प्रेक्षञ्छ्रीमथुरां कृष्णो धनिनां मंदिराणी च ।
पश्यन् गोपालकैः सार्द्धं राजमार्गं विवेश ह ॥ २७ ॥
श्रुत्वाऽऽगतं तं वसुदेवनंदनं
     बहुश्रुता वै मथुरापुरांगनाः ।
त्यक्त्वाऽथ कर्माणि विसृज्य ताः शिशून्
     द्रष्टुं व्यधावन्नुदधिं यथाऽऽपगाः ॥ २८ ॥
काश्चित्तु हर्म्यात्किल जालदेशात्
     कुड्यात्तु काश्चित्पटतो गवाक्षात् ।
विनिर्गता द्वारकपाटदेशात्
     तच्चत्वरात्तं ददृशुः पुरंध्र्यः ॥ २९ ॥
एकं चलत्कुन्तलमानने स्वे
     किमग्रगानां तु मनांसि हर्तुम् ।
पश्चात्कृतं मौलितले दधानं
     किं पृष्ठगानां हरणं द्वितीयम् ॥ ३० ॥
पीतांबरार्द्धं बलिनं स्फुरत्कटा-
     वर्द्धं तदंसे जलदे यथा तडित् ।
पद्मं करे स्वे हृदि वैजयंतीं
     स्रजं दधानं वसुदेवनन्दनम् ॥ ३१ ॥
विलोक्य सर्वा मुमुहुः पुरस्त्रियो
     विलोलपाठिननवीनकुण्डलम् ।
बालार्कहेमांगदबाहुमंडलं
     राजन्नसंख्यांडपतिं परात्परम् ॥ ३२ ॥
पुरंध्र्य उचुः -
अहो वृदावनं रम्यं यत्र सन्निहितो ह्ययम् ।
धन्या गोपगणाः सर्वे पश्यंत्येनं मनोहरम् ॥ ३३ ॥
धन्या गोपरमण्यस्तास्ताभिः किं सुकृतं कृतम् ।
पिबंति या रासरंगे मुहुश्चास्याधरामृतम् ॥ ३४ ॥
श्रीनारद उवाच -
राजमार्गे रंगकारं रजकं यांतमुन्मदम् ।
गोपालानुमतेनैव प्राह तं मधुसूदनः ॥ ३५ ॥
देहि नो मित्र वासांसि रुचिराणि महामते ।
दातुस्ते हि परं श्रेयो भविष्यति न संशयः ॥ ३६ ॥
प्रज्वलन्कृष्णवाक्येन धृतेनाग्निर्यथा भृशम् ।
कंसभृत्यो महादुष्टः प्राहेदं पथि माधवम् ॥ ३७ ॥
रजक उवाच -
ईदृशान्येव वस्त्राणि पितृभिर्वः पितामहैः ।
धारितानि किमुद्‍वृत्तास्ते तु कौपीनधारकाः ॥ ३८ ॥
याताशु वन्या नगरात्सर्वे वै जीवितेच्छया ।
कारागारे कारयामि युष्मान् वस्त्रहरानहम् ॥ ३९ ॥
श्रीनारद उवाच -
एवं प्रवदतस्तस्य रजकस्य यदूत्तमः ।
जहार मस्तकं सद्यः कराग्रेणैव लीलया ॥ ४० ॥
तज्ज्योतिः श्रीघनश्यामे लीनं जातं विदेहराट् ।
सद्यस्तदनुगाः सर्वे वासःकोशान् विसृज्य वै ॥ ४१ ॥
दुद्रुवुः सर्वतो राजन् शरत्काले यथा घनाः ।
गृहित्वाऽऽत्मप्रिये वस्त्रे स्थितयो रामकृष्णयोः ॥ ४२ ॥
जगृहुर्गोपबालास्ते राजमार्गजना अपि ।
तद्धारणविदो बाला वासांसि रुचिराणि च ।
अस्तव्यस्तं परिदधुः श्रीकृष्णस्य प्रपश्यतः ॥ ४३ ॥
वीक्ष्य तौ वायकः कश्चिच्छ्रीकृष्णबलदेवयोः ।
विचित्रवर्णैर्वासोभिर्दिव्यं वेषं चकार ह ॥ ४४ ॥
तथाऽन्येषां शिशूनां च यथायोग्यं विधाय सः ।
राजन्परमया भक्त्या पुनः कृष्णं ददर्श ह ॥ ४५ ॥
प्रसन्नो भगवांस्तस्मै प्रादात्सारूप्यमात्मनः ।
बलं श्रियं तथैश्वर्यं बलदेवो ददौ पुनः ॥ ४६ ॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे
मथुरायां श्रीकृष्णप्रवेशो नाम पञ्चमोऽध्यायः ॥ ५ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP