श्रीगर्गसंहिता

मथुराखण्डः - चतुर्थोऽध्यायः

नन्दादिभ्यां सह कृष्णस्य मथुरा-यात्रा -


श्रीनारद उवाच -
राजन्नेवं वदंतीनां गोपिनां विरहं परम् ।
विज्ञाय भगवान्देवः शीघ्रं तासां गृहान्ययौ ॥ १ ॥
यावंत्यो योषितो राजंस्तावद्‌रूपधरो हरिः ।
स्वयं संबोधयामास वाग्भिः सर्वाः पृथक् पृथक् ॥ २ ॥
श्रीराधामंदिरं गत्वा दृष्ट्वा राधां च मूर्च्छिताम् ।
रहःस्थितां सखीसंघे ननाद मुरलीं कलम् ॥ ३ ॥
श्रुत्वा वंशीध्वनिं राधा सहसोत्थाय चातुरा ।
नेत्र उन्मील्य ददृशे श्रीगोविंदं समागतम् ॥ ४ ॥
पद्मिनीव गतानन्दं पद्मिनी पद्मिनीपतिम् ।
वीक्ष्योत्थायागता तस्मै सादरेणासनं ददौ ॥ ५ ॥
अश्रुपूर्णमुखीं दीनां राधां कमललोचनाम् ।
शोचंतीं भगवानाह मेघगंभीरया गिरा ॥ ६ ॥
श्रीभगवानुवाच -
विमनास्त्वं कथं भद्रे मा शोचं कुरु राधिके ।
अथवा गंतुकामं मां श्रुत्वाऽसि विरहातुरा ॥ ७ ॥
भुवो भारावताराय कंसादीनां वधाय च ।
ब्रह्मणा प्रार्थितः साक्षाज्जातोऽहं वै त्वया सह ॥ ८ ॥
मथुरां हि गमिष्यामि हरिष्यामि भुवो भरम् ।
शीघ्रमत्रागमिष्यामि करिष्यामि शुभं तव ॥ ९ ॥
श्रीनारद उवाच -
इत्युक्तवंतं जगदीश्वरं हरिं
     राधा पतिं प्राह वियोगविह्वला ।
दावाग्निना दावलतेव मूर्च्छिता
     सुकंपरोमांचित भावसंवृता ॥ १० ॥
श्रीराधोवाच -
भुवो भरं हर्तुमलं पुरीं व्रज
     कृतं परं मे शपथं शृणु त्वतः ।
गते त्वयि प्राणपते च विग्रहं
     कदाचिदत्रैव न धारयाम्यहम् ॥ ११ ॥
यदात्थ मे त्वं शपथं न मन्यसे
     द्वितीयवारं प्रददामि वाक्पथम् ।
प्राणोऽधरे गन्तुमतीव विह्वलः
     कर्पूरधूलेः कणवद्‌गमिष्यति ॥ १२ ॥
श्रीभगवानुवाच -
वचनं वै स्वनिगमं दूरीकर्तुं क्षमोऽस्म्यहम् ।
भक्तानां वचनं राधे दूरीकर्तुं न च क्षमः ॥ १३ ॥
श्रीदाम शापात्पूर्वस्माद्‌‌गोलोके कलहान्मम ।
शतवर्षं ते वियोगो भविष्यति न संशयः ॥ १४ ॥
मा शोकं कुरु कल्याणि वरं मे स्मर राधिके ।
मासं मासं वियोगे ते दर्शनं मे भविष्यति ॥ १५ ॥
श्रीराधोवाच -
मासं प्रति वियोगे मे दातुं स्वं दर्शनं हरे ।
चेन्नागमिष्यसि तदाऽसून्दुःखात् संत्यजाम्यहम् ॥ १६ ॥
लोकाभीराम जनभूषण विश्वदीप
     कंदर्पमोहन जगद्‍वृजिनार्तिहारिन् ।
आनन्दकन्द यदुनन्दन नन्दसूनो
     अद्यागमस्य शपथं कुरु मे पुरस्त्वम् ॥ १७ ॥
श्रीभगवानुवाच -
रंभोरु मासं प्रति ते वियोगे
     चेन्नागमिष्ये शपथं गवां मे ।
निःसंशयं निष्कपटं वचस्त्व-
     मवेहि राधे कथितं मया यत् ॥ १८ ॥
यो मित्रतां निष्कपटं करोति
     निष्कारणो धन्यतमः स एव ।
विधाय मैत्रीं कपटं विदध्यात्
     तं लंपटं हेतुपटं नटं धिक् ॥ १९ ॥
कर्मेन्द्रियाणीह यथा रसादीं-
     स्तथा सकामा मुनयः सुखं यत् ।
मनाङ् न जानंति हि नैरपेक्षं
     गूढं परं निर्गुणलक्षणं तत् ॥ २० ॥
जानंति संतः समदर्शिनो ये
     दांता महांतः किल नैरपेक्षाः ।
ते नैरपेक्ष्यं परमं सुखं मे
     ज्ञानेंद्रियादीनि यथा रसादीन् ॥ २१ ॥
सर्वं हि भावं मनसः परस्परं
     न ह्येकतो भामिनि जायते ततः ।
प्रेमैव कर्तव्यमतो मयि स्वतः
     प्रेम्णा समानं भुवि नास्ति किंचित् ॥ २२ ॥
यथा हि भांडीरवटे मनोरथो
     बभूव राधे हि तथा भविष्यति ।
अहैतुकं प्रेम च सद्‌भिराश्रितं
     तच्चापि संतः किल निर्गुणं विदुः ॥ २३ ॥
ये राधिकायां त्वयि केशवे मयि
     भेदं न कुर्वंति हि दुग्धशौक्ल्यवत् ।
त एव मे ब्रह्मपदं प्रयान्ति
     तदहैतुकस्फूर्जितभक्तिलक्षणाः ॥ २४ ॥
ये राधिकायां त्वयि केशवे मयि
     पश्यन्ति भेदं कुधियो नरा भुवि ।
ते कालसूत्रं प्रपतन्ति दुःखिता
     रंभोरु यावत्किल चंद्रभास्करौ ॥ २५ ॥
श्रीनारद उवाच -
एवमाश्वास्य तां राधां सर्वं गोपीगणं तथा ।
आययौ नंदभवनं भगवान्नयकोविदः ॥ २६ ॥
अथ सूर्योदये जाते नंदाद्याः शकटैर्बलिम् ।
नीत्वा रथान्समारुह्य सर्वे श्रीमथुरां ययुः ॥ २७ ॥
आरुह्य रामकृष्णाभ्यां स्वं रथं गांदिनीसुतः ।
प्रयाणमकरोद्‌राजन्मथुरां द्रष्टुमुद्यतः ॥ २८ ॥
कौटिशःकोटिशो गोप्यो मार्गे मार्गे समास्थिताः ।
पश्यंत्यस्तन्निर्गमनं क्रोधाढ्या मोहविह्वलाः ॥ २९ ॥
क्रूर क्रूरेति चाक्रूरं वदन्त्यः परुषं वचः ।
रुरुधुः सर्वतो यानं यथार्कं सरथं घनाः ॥ ३० ॥
अक्रूरस्य रथं राजन् निजघ्नुर्यष्टिभिर्भृशम् ।
अश्वांस्तथा सारथिं च भगवद्‌विरहातुराः ॥ ३१ ॥
अश्वास्तत्र समुत्पेतुस्ताडितास्त इतस्ततः ।
गोपीद्व्यङ्गुलिघातेन सारथिः पतितो रथात् ॥ ३२ ॥
विहाय लज्जां लोकस्य समाकृष्य रथाद्‌बलात् ।
कंकणैस्तेडुरक्रूरं पश्यतोः कृष्णरामयोः ॥ ३३ ॥
गोपीयूथबलं दृष्ट्वा सबलो भगवान् हरिः ।
गोपीः संबोधयामास रक्षित्वा गांदिनीसुतम् ॥ ३४ ॥
संध्यायामागमिष्यामि मा शोकं कुरुतांगनाः ।
पश्यतश्चास्य मद्धास्यं मा कुर्वन्तु व्रजौकसः ॥ ३५ ॥
इत्येवमुक्त्वा सरथः समागतो
     ऽक्रूरेण कृष्णो बलदेवसंयुतः ।
तुरंगमैर्वेगमयैर्मनोहरैः
     ययौ पुरीं यादववृन्दमण्डिताम् ॥ ३६ ॥
यावद्‌रथः केतुरुताश्वरेणुः
     आलक्ष्यते तावदतीव मोहात् ।
स्थिता ह्यभूवन्पथि चित्रवत्ताः
     स्मृत्वा हरेर्वाक्यमुतागताशाः ॥ ३७ ॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे
श्रीमथुराप्रयाणं नाम चतुर्थोऽध्यायः ॥ ४ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP