श्रीगर्गसंहिता

माधुर्यखण्डः - चतुर्विंशोऽध्यायः

व्योमासुर-अरिष्टवधम् -


श्रीनारद उवाच -
एकदा शैलदेशेषु सबलो भगवान्हरिः ।
कृत्वा निलायनक्रीडां चौरपालकलक्षणाम् ॥ १ ॥
तत्र व्योमासुरो दैत्यो बालान्मेषायितान् बहून् ।
नीत्वा नीत्वाऽद्रिदर्यां च विनिक्षिप्य पुनः पुनः ॥ २ ॥
शिलया पिदधे द्वारं मयपुत्रो महाबलः ।
सत्यचौरं च तं ज्ञात्वा भगवान् मधुसूदनः ॥ ३ ॥
गृहीत्वा पातयामास भुजाभ्यां भूमिमंडले ॥ ४ ॥
तदा मृत्युं गतो दैत्यस्तज्ज्योतिर्निर्गतं स्फुरत् ।
दशदिक्षु भ्रमद्‍राजन् श्रीकृष्णे लीनतां गतम् ॥ ५ ॥
तदा जयजयारावो दिवि भूमौ बभूव ह ।
पुष्पाणि ववृषुर्देवाः परमानंदसंवृताः ॥ ६ ॥
बहुलाश्व उवाच -
कोऽयं पूर्वं कुशलकृद्‌व्योमो नामाथ तद्वद ।
येन कृष्णे घनश्यामे लीनोऽभूद्दामिनी यथा ॥ ७ ॥
श्रीनारद उवाच -
आसीत्काश्यां भीमरथो राजा दानपरायणः ।
यज्ञकृन्मानदो धन्वी विष्णुभक्तिपरायणः ॥ ८ ॥
राज्ये पुत्रं सन्निवेश्य जगाम मलयाचलम् ।
तपस्तत्र समारेभे वर्षाणां लक्षमेव हि ॥ ९ ॥
तस्याश्रमे पुलस्त्योऽसौ शिष्यवृन्दैः समागतः ।
तं दृष्ट्वा नोत्थितो मानी राजर्षिर्न नतोऽभवत् ॥ १० ॥
शापं ददौ पुलस्त्योऽपि दैत्यो भव महाखल ।
ततस्तच्चरणोपांते पतितं शरणागतम् ॥ ११ ॥
उवाच मुनिशार्दूलः पुलस्त्यो दीनवत्सलः ।
द्वापरान्ते माथुरे च पुण्ये श्रीव्रजमंडले ॥ १२ ॥
यदुवंशपतेः साक्षाच्छ्रीकृष्णस्य भुजौजसा ।
ईप्सिता योगिभिर्मुक्तिर्भविष्यति न संशयः ॥ १३ ॥
श्रीनारद उवाच -
सोऽयं भीमरथो राजा मयदैत्यसुतोऽभवत् ।
श्रीकृष्णभुजवेगेन मुक्तिं प्राप विदेहराट् ॥ १४ ॥
एकदा गोपबालेषु दैत्योऽरिष्टो महाबलः ।
आगतो नादयन् खं गां तटान् शृङ्गैर्विदारयन् ॥ १५ ॥
गोप्यो गोपा गोगणाश्च वीक्ष्य तं दुद्रुवुर्भयात् ।
भगवान् दैत्यहा देवो मा भैष्टैत्यभयं ददौ ॥ १६ ॥
गृहीत्वा तं तु शृङ्गेषु नोदयामास माधवः ।
सोऽपि तं नोदयामास श्रीकृष्णं योजनद्वयम् ॥ १७ ॥
पुच्छे गृहीत्वा तं कृष्णो भ्रामयित्वा भुजौजसा ।
भूपृष्ठे पोथयामास कमण्डलुमिवार्भकः ॥ १८ ॥
अरिष्टः पुनरुत्थाय क्रोधसंरक्तलोचनः ।
शृङ्गैश्च रोहितं शैलं समुत्पाट्य महाखलः ॥ १९ ॥
गर्जयन्घनवद्वीरः कृष्णोपरि समाक्षिपत् ।
कृष्णः शैलं संगृहित्वा तस्योपरि समाक्षिपत् ॥ २० ॥
शैलस्यापि प्रहारेण किंचिद्व्याकुलमानसः ।
भूमौ तताड शृङ्गाग्रान्निर्गतं तैर्जलं भुवः ॥ २१ ॥
श्रीकृष्णस्तं च शृङ्गेषु गृहीत्वा भ्रामयन्मुहुः ।
भूपृष्ठे पोथयामास वातः पद्ममिवोद्‌धृतम् ॥ २२ ॥
तदैव वृषरूपत्वं त्यक्त्वा विप्रवपुर्धरः ।
नत्वा श्रीकृष्णपादाब्जं प्राह गद्‌गदया गिरा ॥ २३ ॥
द्विज उवाच -
बृहस्पतेश्च शिष्योऽहं वरतंतुर्द्विजोत्तमः ।
बृहस्पतिसमीपे च पठितुं गतवानहम् ॥ २४ ॥
पादौ कृत्वा स्थितोऽभूवं पश्यतस्तस्य संमुखे ।
तदा रुषाऽऽह स मुनिः वृषवत्वं स्थितः पुरः ॥ २५ ॥
गुरुहेलनकृत्तस्मात्त्वं बृषो भव दुर्मते ।
तस्य शापाद्‌वृषोऽभूवं बंगदेशेषु माधव ॥ २६ ॥
असुराणां प्रसंगेना सुरत्वं गतवानहम् ।
त्वत्प्रसादाद्‌विमुक्तोऽहं शापतोऽसुरभावतः ॥ २७ ॥
श्रीकृष्णाय नमस्तुभ्यं वासुदेवाय ते नमः ।
प्रणतक्लेशनाशाय गोविंदाय नमो नमः ॥ २८ ॥
श्रीनारद उवाच -
इत्युक्त्वा श्रीहरिं नत्वा साक्षाच्छिष्यो बृहस्पतेः ।
द्योतयन्भुवनं राजन् विमानेन दिवं ययौ ॥ २९ ॥
इदं मया ते कथितं खण्डं माधुर्य्यमद्‌भुतम् ।
सर्वपापहरं पुण्यं कृष्णप्राप्तिकरं परम् ॥ ३० ॥
कामदं पठतां शश्वत्किं भूयः श्रोतुमिच्छसि ॥ ३१ ॥

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
व्योमासुरारिष्टासुरवधो नाम चतुर्विंशोऽध्यायः ॥ २४ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP