श्रीगर्गसंहिता
मथुराखण्डः - प्रथमोऽध्याय:
श्रीकृष्ण आनयनाय कंसस्य मन्त्रणा -
श्रीनारद उवाच -
वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानंदं कृष्णं वन्दे जगद्गुरुम् ॥ १ ॥
बहुलाश्व उवाच -
मथुरायां किं चरित्रं कृतवान्भगवान्मुने ।
कथं जघान कंसाख्यमेतन्मे ब्रूहि तत्त्वतः ॥ २ ॥
श्रीनारद उवाच -
अथैकदाऽहं मथुरां पुरीं परां
विलोकितुं चागतवान्नृपेश्वर ।
कर्त्तुं परं दैत्यवधोद्यमं हरेः
परस्य साक्षान्मनसा प्रणोदितः ॥ ३ ॥
सिंहासने च प्रहृते पुरंदरा-
त्सितातपत्रे चलचारुचामरे ।
स्थितं नृपं कंसमुरंगदुःसहं
प्रावोचमेवं शृणु तत्प्रपूजितः ॥ ४ ॥
यशोदायाः सुता जाता या त्वद्धस्ताद्दिवं गता ।
देवक्यां कृष्ण उत्पन्नो रोहिणीनंदनो बलः ॥ ५ ॥
स्वमित्रे नंदराजे च न्यस्तौ पुत्रौ भवद्भयात् ।
तवारी रामकृष्णौ द्वौ वसुदेवेन दैत्यराट् ॥ ६ ॥
पूतनाद्या ह्यरिष्टांता दैत्या ये त्वद्बलोत्कटाः ।
याभ्यां हता वनोद्देशे ते मृत्यू तौ स्मृतौ किल ॥ ७ ॥
एवमुक्तो भोजपतिः क्रोधाच्चलितविग्रहः ।
जग्राह निशितं खड्गं शौरिं हंतुं सभातले ॥ ८ ॥
मया निवारितः सोऽपि विस्तृतैर्निगडैर्दृढैः ।
बद्ध्वा तं भार्यया सार्द्धं कारागारे रुरोध ह ॥ ९ ॥
इत्युक्त्वा तं मयि गते केशिनं दैत्यपुंगवम् ।
रामकृष्णवधार्थाय प्रेषयामास दैत्यराट् ॥ १० ॥
चाणूरादीन् समाहूय महामात्रं द्विपस्य च ।
कार्यभारकराँल्लोकान् प्राहेदं भोजराड् बली ॥ ११ ॥
कंस उवाच -
हे कूट हे तोशलक हे चाणूर महाबल ।
रामकृष्णौ च मे मृत्यू दर्शितौ नारदेन तु ॥ १२ ॥
भवद्भिरिह संप्राप्तौ हन्येतां मल्ललीलया ।
मल्लभूमिं च संयुक्तां कुरुताशु शुभावहाम् ॥ १३ ॥
द्विपं कुवलयापीडं रंगद्वारि मदोत्कटम् ।
प्रस्थाप्य तेन हंतव्यौ महामात्र ममाहितौ ॥ १४ ॥
चतुर्दश्यां तु कर्तव्यो धनुर्यागः प्रशान्तये ।
अमावास्यादिने लोका मल्लयुद्धं भवेदिह ॥ १५ ॥
श्रीनारद उवाच -
इत्युक्त्वा स्वजनान् कंसोऽक्रूरमाहूय सत्वरम् ।
रहसि प्राह राजेंद्र मंत्रं मंत्रिजनप्रियम् ॥ १६ ॥
कंस उवाच -
भो भो दानपते मंत्रिन् श्रृणु मे परमं वचः ।
गच्छ नंदव्रजं प्रातः कुरु कार्यं महामते ॥ १७ ॥
आसाते तत्र मे शत्रू वसुदेवसुतौ किल ।
दर्शितौ नारदेनापि देवदेवर्षिणा भृशम् ॥ १८ ॥
सोपायनैर्गोपगणैर्नन्दराजादिभिः सह ।
मथुरादर्शनमिषाद्रथेनानय मा चिरम् ॥ १९ ॥
द्विपेन वा महामल्लैर्घातयिष्यामि तौ शिशू ।
तत्पश्चान्नंदराजं च वसुदेवसहायकम् ॥ २० ॥
वृषभानुवरं पश्चान्नवनन्दोपनन्दकान् ।
पश्चाच्छौरिं हनिष्यामि देवकं तत्सहायकम् ॥ २१ ॥
उग्रसेनं च पितरं वृद्धं राज्यसमुत्सुकम् ।
तत्पश्चाद्यादवान्सर्वान् हनिष्यामि न संशयः ॥ २२ ॥
एते देवगणाः सर्वे जाता मंत्रिन् महीतले ।
शकुनिर्मे महामित्रो बली चन्द्रावतीपतिः ॥ २३ ॥
भूतसंतापनो हृष्टो वृकः शंबर एव च ।
कालनाभो महानाभो हरिश्मश्रुस्तथैव च ॥ २४ ॥
एते मित्राणि मे संति मदर्थं प्राणदा बलात् ।
श्वशुरोऽपि जरासंधो द्विविदो मे सखा स्मृतः ॥ २५ ॥
बाणासुरश्च नरको मय्येव कृतसौहृदः ।
एते सर्वां महीं जित्वा बद्ध्वा देवान्सवासवान् ॥ २६ ॥
क्षिप्त्वा मेरुगुहादुर्गे कुबेरं द्रव्यनायकम् ।
त्रैलोक्यराज्यं तु सदा करिष्यंति न संशयः ॥ २७ ॥
कवीनां त्वं कविरिव गिरां गीष्पतिवद्भुवि ।
एतत्कार्यं च कर्तव्यं त्वया दानपते त्वरम् ॥ २८ ॥
अक्रूर उवाच -
त्वया कृतो यदुपते मनोरथमहार्णावः ।
दैवेच्छयाऽयं भवति गोष्पदं तद्विनार्णवः ॥ २९ ॥
कंस उवाच -
विसृज्य दैवं कुरुते बलिष्ठो
दैवं समाश्रित्य हि निर्बलश्च ।
कालात्मनोर्नित्यगयोः प्रभावा-
न्निराकुलस्तिष्ठतु कर्मयोगी ॥ ३० ॥
श्रीनारद उवाच -
एवमुक्त्वा मंत्रिवरं समुत्थाय सभास्थलात् ।
किंचित्प्रकुपितः कंसः शनैरंतःपुरं ययौ ॥ ३१ ॥
इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे कंसमंत्रो नाम प्रथमोऽध्याय: ॥ १ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|