श्रीगर्गसंहिता

माधुर्यखण्डः - सप्तदशोऽध्यायः

यमुना-स्तवम् -


मांधातोवाच -
यमुनायाः स्तवं दिव्यं सर्वसिद्धिकरं परम् ।
सौभरे मुनिशार्दूल वद मां कृपया त्वरम् ॥ १ ॥
श्रीसौभरिरुवाच -
मार्तंडकन्यकायास्तु स्तवं शृणु महामते ।
सर्वसिद्धिकरं भूमौ चातुर्वर्ग्यफलप्रदम् ॥ २ ॥
कृष्णवामांसभूतायै कृष्णायै सततं नमः ।
नमः श्रीकृष्णरूपिण्यै कृष्णे तुभ्यं नमो नमः ॥ ३ ॥
यः पापपंकांबुकलंककुत्सितः
     कामी कुधीः सत्सु कलिं करोति हि ।
वृन्दावनं धाम ददाति तस्मै
     नदन्मिलिन्दादि कलिन्दनन्दिनी ॥ ४ ॥
कृष्णे साक्षात्कृष्णरूपा त्वमेव
     वेगावर्ते वर्तसे मत्स्यरूपी ।
ऊर्मावूर्मौ कूर्मरूपी सदा ते
     बिंदौ बिंदौ भाति गोविन्ददेवः ॥ ५ ॥
वन्दे लीलावतीं त्वां
     सगनघननिभां कृष्णवामांसभूतां ।
वेगं वै वैरजाख्यं
     सकलजलचयं खण्डयंतीं बलात्स्वात् ।
छित्वा ब्रह्माण्डमारात्
     सुरनगरनगान् गण्डशैलादिदुर्गान् ।
भित्वा भूखण्डमध्ये
     तटनिधृतवतीमूर्मिमालां प्रयान्तीम् ॥ ६ ॥
दिव्यं कौ नामधेयं
     श्रुतमथ यमुने दण्डयत्यद्रितुल्यं ।
पापव्यूहं त्वखण्डं
     वसतु मम गिरां मण्डले तु क्षणं तत् ।
दण्ड्यांश्चाकार्यदण्ड्या
     सकृदपि वचसा खण्डितं यद्‍गृहीतं ।
भ्रातुर्मार्तंडसूनो-
     रटति पुरि दृढः ते प्रचण्डोऽतिदण्डः ॥ ७ ॥
रज्जुर्वा विषयांधकूपतरणे
     पापाखुदर्वीकरी ।
वेण्युष्णिक् च विराजमूर्तिशिरसो
     मालाऽस्ति वा सुन्दरी ।
धन्यं भाग्यमतः परं भुवि नृणां
     यत्रादिकृद्वल्लभा ।
गोलोकेऽप्यतिदुर्लभाऽतिशुभगा
     भात्यद्वितीया नदी ॥ ८ ॥
गोपीगोकुलगोपकेलिकलिते
     कालिन्दि कृष्णप्रभे ।
त्वत्कूले जललोलगोलविचलत्
     कल्लोलकोलाहलः ।
त्वत्कांतारकुतूहलालिकुलकृत्
     झंकारकेकाकुलः ।
कूजत्कोकिलसंकुलो व्रजलता
     लंकारभृत्पातु माम् ॥ ९ ॥
भवंति जिह्वास्तनुरोमतुल्या
     गिरो यदा भूसिकता इवाशु ।
तदप्यलं यान्ति न ते गुणांतं
     संतो महांतः किल शेषतुल्याः ॥ १० ॥
कलिन्दगिरिनन्दिनीस्तव उषस्ययं वापरः
     श्रुतश्च यदि पाठितो भुवि तनोति सन्मंगलम् ।
जनोऽपि यदि धारयेत्किल पठेच्च यो नित्यशः
     स याति परमं पदं निजनिकुञ्जलीलावृतम् ॥ ११ ॥

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
श्रीसौभरिमांधातृसंवादे श्रीयमुनास्तवो नाम सप्तदशोऽध्यायः ॥ १७ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP