श्रीगर्गसंहिता

माधुर्यखण्डः - षोडशोऽध्यायः

यमुना कवचम् -


मांधातोवाच -
यमुनायाः कृष्णराज्ञ्याः कवचं सर्वतोऽमलम् ।
देहि मह्यं महाभाग धारयिष्याम्यहं सदा ॥ १ ॥
सौभरिरुवाच -
यमुनायाश्च कवचं सर्वरक्षाकरं नृणाम् ।
चतुष्पदार्थदं साक्षाच्छृणु राजन्महामते ॥ २ ॥
कृष्णां चतुर्भुजां श्यामां पुण्डरीकदलेक्षणाम् ।
रथस्थां सुन्दरीं ध्यात्वा धारयेत्कवचं ततः ॥ ३ ॥
स्नातः पूर्वमुखो मौनि कृतसंध्यः कुशासने ।
कुशैर्बद्धशिखो विप्रः पठेद्वै स्वस्तिकासनः ॥ ४ ॥
यमुना मे शिरः पातु कृष्णा नेत्रद्वयं सदा ।
श्यामा भ्रूभंगदेशं च नासिकां नाकवासिनी ॥ ५ ॥
कपोलौ पातु मे साक्षात्परमानन्दरूपिणी ।
कृष्णवामांससंभूता पातु कर्णद्वयं मम ॥ ६ ॥
अधरौ पातु कालिन्दी चिबुकं सूर्यकन्यका ।
यमस्वसा कन्धरां च हृदयं मे महानदी ॥ ७ ॥
कृष्णप्रिया पातु पृष्ठं तटिनि मे भुजद्वयम् ।
श्रोणीतटं च सुश्रोणी कटिं मे चारुदर्शना ॥ ८ ॥
ऊरुद्वयं तु रंभोरुर्जानुनी त्वंघ्रिभेदिनी ।
गुल्फौ रासेश्वरी पातु पादौ पापप्रहारिणी ॥ ९ ॥
अंतर्बहिरधश्चोर्ध्वं दिशासु विदिशासु च ।
समंतात्पातु जगतः परिपूर्णतमप्रिया ॥ १० ॥
इदं श्रीयमुनाश्च कवचं परमाद्‌भुतम् ।
दशवारं पठेद्‌भक्त्या निर्धनो धनवान्भवेत् ॥ ११ ॥
त्रिभिर्मासैः पठेद्धीमान् ब्रह्मचारी मिताशनः ।
सर्वराज्याधिपत्यञ्च प्राप्यते नात्र संशयः ॥ १२ ॥
दशोत्तरशतं नित्यं त्रिमासावधि भक्तितः ।
यः पठेत्प्रयतो भूत्वा तस्य किं किं न जायते ॥ १३ ॥
यः पठेत्प्रातरुत्थाय सर्वतीर्थफलं लभेत् ।
अंते व्रजेत्परं धाम गोलोकं योगिदुर्लभम् ॥ १४ ॥

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
श्रीसौभरिमांधातृसंवादे श्रीयमुनाकवचं नाम षोडशोऽध्यायः ॥ १६ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP