श्रीगर्ग संहिता - माधुर्यखण्डः - एकादशोऽध्यायः

श्रीगर्गसंहिता

माधुर्यखण्डः - एकादशोऽध्यायः

कृष्ण-सखीगणोपाख्यानम् -


श्रीनारद उवाच -
अन्यासां चैव गोपीनां वर्णनं शृणु मैथिल ।
सर्वपापहरं पुण्यं हरिभक्तिविवर्द्धनम् ॥ १ ॥
नीतिविन्मार्गदः शुक्लः पतंगो दिव्यवाहनः ।
गोपेष्टश्च व्रजे राजन् जाता षड्‍वृषभानवः ॥ २ ॥
तेषां गृहेषु संजाता लक्ष्मीपतिवरात्प्रजाः ।
रमावैकुण्ठवासिन्यः श्रीसख्योऽपि समुद्रजाः ॥ ३ ॥
ऊर्ध्वं वैकुण्ठवासिन्यः तथाऽजितपदाश्रिताः ।
श्रीलोकाचलवासिन्यः श्रीसख्योऽपि समुद्रजाः ॥ ४ ॥
चिन्तयन्त्यः सदा श्रीमद्‌‌गोविन्दचरणांबुजम् ।
श्रीकृष्णस्य प्रसादार्थं ताभिर्माघव्रतं कृतम् ॥ ५ ॥
माघस्य शुक्लपंचम्यां वसन्तादौ हरिः स्वयम् ।
तासां प्रेमपरीक्षार्थं कृष्णो वै तद्‍गृहान्गतः ॥ ६ ॥
व्याघ्रचर्मांबरं बिभ्रन् जटामुकुटमंडितः ।
विभूतिधूसरो वेणुं वादयन् मोहयन् जगत् ॥ ७ ॥
तासां वीथीषु संप्राप्तिं वीक्ष्य गोप्योऽपि सर्वतः ।
आययुर्दर्शनं कर्तुं मोहिताः प्रेमविह्वलाः ॥ ८ ॥
अतीव सुन्दरं दृष्ट्वा योगिनं गोपकन्यकाः ।
ऊचुः परस्परं सर्वाः प्रेमानन्दसमाकुलाः ॥ ९ ॥
गोप्य ऊचुः -
कोऽयं शिशुर्नन्दसुताकृतिर्वा
कस्यापि पुत्रो धनिनो नृपस्य ।
नारीकुवाग्बाणविभिन्नमर्मा
जातो विरक्तो गतकृत्यकर्मा ॥ १० ॥
अतीव रम्यः सुकुमारदेहो
मनोजवद्विश्वमनोहरोऽयम् ।
अहो कथं जीवति चास्य माता
पिता च भार्या भगिनी विनैनम् ॥ ११ ॥
एवं ताः सर्वतो यूथीभूत्वा सर्वा व्रजांगनाः ।
पप्रच्छुस्तं योगिवरं विस्मिताः प्रेमविह्वलाः ॥ १२ ॥
गोप्य ऊचुः -
कस्त्वं योगिन्नाम किं ते कुत्र वासस्तु ते मुने ।
का वृत्तिस्तव का सिद्धिर्वद नो वदतां वर ॥ १३ ॥
सिद्ध उवाच -
योगेश्वरोऽहं मे वासः सदा मानसरोवरे ।
नाम्ना स्वयंप्रकाशोऽहं निरन्नः स्वबलात्सदा ॥ १४ ॥
सार्थे परमहंसानां याम्यहं हे व्रजांगनाः ।
भूतं भव्यं वर्तमानं वेद्म्यहं दिव्यदर्शनः ॥ १५ ॥
उच्चाटनं मारणं च मोहनं स्तंबनं तथा ।
जानामि मंत्रविद्याभिः वशीकरणमेव च ॥ १६ ॥
गोप्य ऊचुः -
यदि जानासि योगिंस्त्वं वार्तां कालत्रयोद्‌भवाम् ।
किं वर्तते नो मनसि वद तर्हि महामते ॥ १७ ॥
सिद्ध उवाच -
भवतीनां च कर्णांते कथनीयमिदं वचः ।
युष्मदाज्ञया वा वक्ष्ये सर्वेषां शृण्वतामिह ॥ १८ ॥
गोप्य ऊचुः -
सत्यं योगेश्वरोऽसि त्वं त्रिकालज्ञो न संशयः ।
वशीकरणमंत्रेण सद्यः पठनमात्रतः ॥ १९ ॥
यदि सोऽत्रैव चायाति चिंतितो योऽस्ति वै मुने ।
तदा मन्यामहे त्वां वै मंत्रिणां प्रवरं परम् ॥ २० ॥
सिद्ध उवाच -
दुर्लभो दुर्घटो भावो युष्माभिर्गदितः स्त्रियः ।
तथाप्यहं करिष्यामि वाक्यं न चलते सताम् ॥ २१ ॥
निमीलयत नेत्राणि मा शोचं कुरुत स्त्रियः ।
भविष्यति न संदेहो युष्माकं कार्यमेव च ॥ २२ ॥
श्रीनारद उवाच -
तथेति मीलिताक्षीषु गोपीषु भगवान्हरिः ।
विहाय तद्योगिरूपं बभौ श्रीनन्दनन्दनः ॥ २३ ॥
नेत्राण्युन्मील्य ददृशुः सानन्दं नन्दनन्दनम् ।
विस्मितास्तत्प्रभावज्ञा हर्षिता मोहमागताः ॥ २४ ॥
माघमासे महारासे पुण्ये वृन्दावने वने ।
ताभिः सार्द्धं हरी रेमे सुरीभिः सुरराडिव ॥ २५ ॥

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
रमावैकुण्ठ श्वेतद्वीपोर्ध्ववैकुण्ठाजितपद श्रीलोकाचलवासिनी
श्रीसखीनामुपाख्यानं नाम एकादशोऽध्यायः ॥ ११ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP