श्रीगर्गसंहिता
माधुर्यखण्डः - द्वितीयोऽध्यायः
ऋषिरूप-गोपीगणानां उत्पत्तिः -
श्रीनारद उवाच
गोपीनामृषिरूपाणामाख्यानं शृणु मैथिल ।
सर्वपापहरं पुण्यं कृष्णभक्तिविवर्धनम् ॥१॥
वङ्गेषु मङ्गलो नाम गोप आसीन्महामनाः ।
लक्ष्मीवाञ्छ्रुतसम्पन्नो नवलक्षगवां पतिः ॥२॥
भार्याः पञ्चसहस्राणि बभूवुस्तस्य मैथिल ।
कदाचिद्दैवयोगेन धनं सर्वं क्षयं गतम् ॥३॥
चौरैर्नीतास्तस्य गावः काश्चिद्राज्ञा हृता बलात् ।
एवं दैन्ये च सम्प्राप्ते दुःखितो मङ्गलोऽभवत् ॥४॥
तदा श्रीरामस्य वराद्दण्डकारण्यवासिनः ।
ऋषयः स्त्रीत्वमापन्ना बभूवुस्तस्य कन्यकाः ॥५॥
दृष्ट्वा कन्यासमूहं स दुःखी गोपोऽथ मङ्गलः ।
उवाच दैन्यदुःखाढ्य आधिव्याधिसमाकुलः ॥६॥
मङ्गल उवाच -
किं करोमि क्व गच्छामि को मे दुःखं व्यपोहति ।
श्रीर्न भूतिर्नाभिजनो न बलं मेऽस्ति साम्प्रतम् ॥७॥
धनं विना कथं चासां विवाहो हा भविष्यति ।
भोजने यत्र सन्देहो धनाश तत्र कीदृशी ॥८॥
सति दैन्ये कन्यकाः स्युः काकतालीयवद्गृहे ।
तस्मात्कस्यापि राज्ञस्तु धनिनो बलिनस्त्वहम् ॥९॥
दास्याम्येताः कन्यकाश्च कन्यानां सौख्यहेतवे ।
कदर्थीकृत्य ता कन्याः एवं बुद्ध्या स्थितोऽभवत् ॥
तदैव माथुराद्देशाद्गोपश्चैकः समागतः ॥१०॥
नारद उवाच -
तीर्थयायी जयो नाम वृद्धोबुद्धिमतां वरः ।
तन्मुखान्नन्दराजस्य श्रुतं वैभवमद्भुतम् ॥११॥
नन्दराजस्य बलये मङ्गलो दैन्यपीडितः ।
विचिन्त्य प्रेषयामास कन्यकाश्चारुलोचनाः ॥ १२ ॥
ता नन्दराजस्य गृहे कन्यका रत्नभूषिताः ।
गवां गोमयहारिण्यो बभूवुर्गोव्रजेषु च ॥ १३ ॥
श्रीकृष्णं सुन्दरं दृष्ट्वा कन्या जातिस्मराश्च ताः ।
कालिन्दीसेवनं चक्रुर्नित्यं श्रीकृष्णहेतवे ॥ १४ ॥
अथैकदा श्यामलाङ्गी कालिन्दी दीर्घलोचना ।
ताभ्यः स्वदर्शनं दत्वा वरं दातुं समुद्यता ॥ १५ ॥
ता वव्रिरे व्रजेशस्य पुत्रो भूयात्पतिश्च नः ।
तथास्तु चोक्त्वा कालिन्दी तत्रैवान्तरधीयत ॥ १६ ॥
ताः प्राप्ता वृन्दकारण्ये कार्तिक्यां रासमण्डले ।
ताभिः सार्धं हरी रेमे सुरीभिः सुरराडिव ॥ १७ ॥
इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे ऋषिरूपोपाख्यानं नाम द्वितीयोऽध्यायः ॥२॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP
|